________________
१४० • पञ्चविधव्यवहारप्रकाशनम् •
द्वात्रिंशिका-३/२ द्वितीयानादरे हन्त प्रथमस्याप्यनादरः । जीतस्यापि प्रधानत्वं साम्प्रतं श्रूयते यतः ।।२।।
द्वितीयेति । (=द्वितीयानादरे) द्वितीयस्य = •शिष्टाचरणस्य अनादरे = प्रवर्तकत्वेनानभ्युपगमे हन्त प्रथमस्यापि = भगवद्वचनस्यापि अनादर एव, 'यतो जीतस्यापि साम्प्रतं प्रधानत्वं व्यवहारप्रतिपादकशास्त्रप्रसिद्धं श्रूयते । तथा च जीतप्राधान्यानादरे तत्प्रतिपादकशास्त्रानादराद् व्यक्तमेव नास्तिकत्वमिति २भावः ।।२।। इति । एतेन → सुत्तम्मि जं सुदिलृ आयरियपरंपरेण मग्गेण । णाऊण दुविहसुत्तं वट्टइ सिवमग्गे जो भव्यो ।। (सू.प्रा.२) इति सूत्रप्राभृतवचनमपि व्याख्यातम् ।।३/१।।
ननु सर्वज्ञोक्तत्वेन प्रवर्तकत्वमभ्युपगम्यताम्, शिष्टाऽऽचारत्वेन तु तन्न युक्तं, शिष्टाऽऽचाराणां नानात्वेन मिथोविरुद्धत्वेन चोपलम्भादित्याशङ्कायामाह - 'द्वितीये'ति । यतः = यस्मात् कारणात् जीतस्यापि = जीताभिधानस्य पञ्चमव्यवहारस्यैव साम्प्रतं = इदानी प्रधानत्वं = आत्मशुद्धिं प्रति मुख्यकारणत्वं व्यवहारप्रतिपादकशास्त्रप्रसिद्धं = आगम-श्रुताऽऽज्ञा-धारणा-जीताभिधानपञ्चविधव्यवहारप्रतिपादकेषु स्थानाङ्ग-व्यवहारसूत्रादिशास्त्रेषु सुप्रसिद्धम् । तदुक्तं स्थानाङ्गे → पंचविहे ववहारे पन्नत्ते । तंजहा
आगमववहारे, सुयववहारे आणाववहारे धारणाववहारे 'जीयववहारे - (स्था.५/२/४२१) इति । व्यवहारसूत्रेऽपि → पंचविहे ववहारे पन्नत्ते, आगमे, सुए, आणा, धारणा, जीए - (व्य.सू.१०/ ३) इत्युक्तम् । वीरभद्रसूरिभिः अपि आराधनापताकाप्रकीर्णके → आणा सुय आगम धारणे य जीए य हुंति ववहारा - (आ.पता.२७३) इत्युक्तम् । जीताऽऽचरितयोश्चानान्तरत्वादिति व्यक्तं धर्मरत्नप्रकरणवृत्तौ (ध.रत्न.गा.८० टीका)।
जीतव्यवहारलक्षणं तु व्यवहारभाष्ये → जं जस्स व पच्छित्तं आयरियपरंपराए अविरुद्धं । जोगा य बहुविकप्पा एसो खलु जीयकप्पो उ ।। 6 (व्य.भा.१२) इत्थमावेदितम् । “जीतव्यवहारस्तु येष्वपराधेषु पूर्वमहर्षयो बहुना तपःप्रकारेण शुद्धिं कृतवन्तस्तेष्वपराधेषु साम्प्रतं द्रव्य-क्षेत्र-काल-भावान्
“સર્વજ્ઞવચન મોક્ષમાર્ગપ્રવર્તક હોવાથી તેને માર્ગ કહેવું યોગ્ય છે. પરંતુ સંવિજ્ઞાચરણને માર્ગ કહેવાનું વ્યાજબી નથી.” આવી શંકાનું સમાધાન કરવા ગ્રન્થકારશ્રી જણાવે છે કે –
સ શિષ્ટાચાર પણ અનુક્રણીય છે ગાથાર્થ :- શિષ્ટાચારનો આદર ન કરવામાં આવે તો સર્વજ્ઞવચનનો પણ અનાદર થાય. કારણ 3 वर्तमानमा ®तव्यवहा२ ५५ प्रधान छ.' मे संमपाय छे. (3/२)
ટીકાર્ય - શિષ્ટાચારને પ્રવર્તક રૂપે સ્વીકારવામાં ન આવે તો સર્વજ્ઞવચનનો પણ અનાદર જ થાય. આનું કારણ એ છે કે જીતવ્યવહાર પણ વર્તમાન કાળમાં પ્રધાન છે - એવું વ્યવહારપ્રતિપાદક શાસ્ત્રમાં સંભળાય છે. તેથી શિષ્ટાચારને = ગીતાર્થ સંવિગ્નના આચારને = જીતવ્યવહારને પ્રવર્તક પ્રમાણ તરીકે સ્વીકારવામાં ન આવે તો જીતવ્યવહારની મુખ્યતા બતાવનાર શાસ્ત્રનો અનાદર થવાથી નાસ્તિકતા જ આવી જાય – એ વાત સ્પષ્ટ છે. માટે જિનવચનની જેમ જીતવ્યવહારને પણ પૂર્ણ આદર राणाने सायरवो, भोक्षमावत: तरी स्वीवो - मे माशय छे. (उ/२) ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शविशेषे नास्ति । १. हस्तादर्श 'यते' इत्यशुद्ध पाठ । २. हस्तादर्श 'शेषः' इति पाठः ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only