________________
• अशठगीतार्थाऽऽचरितस्यापि मोक्षमार्गत्वस्थापनम् • तदिदमाह धर्मरत्नप्रकरणकृत्- 'मग्गो आगमणीई अहवा संविग्गबहुजणाइण्णं त्ति (गा.८०)।।१।। त्वात् = प्रवृत्तिं प्रति कारणत्वात् ।। ___ इत्थमेव परेषामपि मङ्गलस्य कर्तव्यतासिद्धेः । प्रामाण्यं तु सर्वज्ञवचन इव संविग्नाशठगीतार्थाचरणेऽपि तुल्यमेव । अत एव निशीथचूर्णी → किं गीयत्था केवली ? 'ओमि'त्युच्यते, अकेवली वि केवलीव भवति - (नि.भा.४८२० चू.) इत्युक्तम् । प्रवर्तकतावच्छेदकं सर्वज्ञोक्तत्वं निरुक्ताचारत्वञ्च संवादिजातीयत्वात् तथाविधमहाजनपरिग्रहाच्च सुग्रहम् । तदुक्तं उपदेशपदे बृहत्कल्पभाष्ये पञ्चवस्तुके च → असढेण समाइन्नं जं कत्थति केणती असावज्जं । न निवारिय-मन्नेहिं य बहुमयमेयमायरियं ।। 6 (उ.प.८१३, बृ.क.भा. ४४९९, पं.व.४७६) इति। मुनिचन्द्रसूरिकृता उपदेशपदवृत्तिश्चात्रैवम् → अशठेनाऽमायाविना सता समाचीर्णं = आचरितं यद् भाद्रपदशुक्लचतुर्थीपर्युषणापर्ववत् कुत्रचित् काले क्षेत्रे वा केनचित् संविग्न-गीतार्थत्वादिगुणभाजा कालिकाचार्यादिनाऽसावा मूलोत्तरगुणाराधनाऽविरोधि । तथा न = नैव निवारितमन्यैश्च तथाविधैरेव गीताथैः, अपितु बहु यथा भवत्येवं मतं = बहुमतं एतद् आचरितमुच्यते - इति (उप.प.८१३ वृत्तिः) । बृहत्कल्पभाष्यवृत्तिरप्येवंप्राया वर्तते । . तदिदमाह धर्मरत्नप्रकरणकृद् 'मग्गो' इत्यादि । एतद्व्याख्यालेशस्त्वेवम् → मृग्यते = अन्विष्यतेऽभिमतस्थानावाप्तये पुरुषैर्यः स मार्गः । स च द्रव्य-भावभेदाद् द्वेधा । द्रव्यमार्गो ग्रामादेः, भावमार्गो मुक्तिपुरस्यास्य सम्यग्दर्शन-ज्ञान-चारित्ररूपः क्षायोपशमिकभावरूपो वा तेनेहाधिकारः । स पुनः कारणे कार्योपचारात् आगमनीतिः = सिद्धान्तभणिताचारः अथवा संविग्नबहुजनाचीर्णमिति द्विरूपोऽवगन्तव्यः । संविग्नाः = मोक्षाभिलाषिणो ये बहवो जना अर्थाद् गीतार्थाः, इतरेषां संवेगाऽयोगात् । बहुजनग्रहणं संविग्नोऽप्येकोऽनाभोगानवबोधादिभिर्वितथमप्याचरेत्ततः सोऽपि न प्रमाणमित्यतः संविग्नबहुजनाऽऽचरितं मार्ग इति । 'दोसा जेण निरुज्झंति जेण खिज्जति पुव्वकम्माई। सो सो मुक्खोवाओ रोगावत्थासु समणं व' ।। (निशीथभाष्य-५२५०, पञ्चवस्तुक-२८१, उपदेशपद-७८३, पुष्पमाला-२४८) इत्याद्यागमवचनमनुस्मरन्तो द्रव्य-क्षेत्र-काल-भावपुरुषाद्यौचित्यमालोच्य संयमवृद्धिकार्येव किञ्चिदाचरन्ति । तच्चान्येऽपि संविग्नगीतार्थाः प्रमाणयन्तीति स मार्गोऽभिधीयते - (ध.र.प्र.गा.८० वृ.) इति ।
प्रकृते च संविग्नबहुजनाऽऽचीर्णमिति जीतव्यवहारस्यैवाऽभिधानम् । यथोक्तं व्यवहारसूत्रभाष्ये → बहुजणमाइण्णं पुण जीतं उचियं ति एगटुं - (व्य.सू.भा.११-पीठिका) इति । चन्द्रकवेध्यकप्रकीर्णके → दुक्खाण ते मणूसा पारं गच्छंति जे दढधिईया । पुव्वपुरिसाणुचिण्णं जिणवयणपहं न मुंचंति ।। - (चं.वे.१६५) इत्येवं मार्गद्वयानुवेधो दर्शित इत्यवधेयम् । तदुक्तं प्रवचनसारोद्धारवृत्तौ अपि → गीतार्थाऽऽचरणं तु मूलगणधरभणितमिव सर्वं विधेयमेव सर्वैरपि मुमुक्षुभिः - (प्र.सारो.४३९ वृत्ति)
માટે તો ધર્મરત્નપ્રકરણમાં જણાવેલ છે કે “આગમનીતિ અથવા સંવિગ્નબહુજનઆચરિત એ માર્ગ छ.” (७/१)
१. उभयाणुसारिणी जा सा मग्गणुसारिणी किरिया ।। इत्युत्तरार्द्धः ।।८०।। २. 'इणं ति' इति पाठो मुद्रितप्रतौ । Jain Education International For Private & Personal Use Only
www.jainelibrary.org