________________
१३८
• गीतार्थव्याख्या .
द्वात्रिंशिका-३/१ संविग्नाः = संवेगवन्तोऽशठाः = अभ्रान्ता गीतार्थाः = 'स्वभ्यस्तसूत्रार्थास्तेषामाचरणं (=संविग्नाऽशठगीतार्थाचरणं) चेति द्विधा, विधेरिव शिष्टाचारस्यापि प्रवर्तकत्वात् । मुक्तिकामकर्तव्यत्वेनोक्तत्वादिति वा ज्ञानं जनयति । ततश्चार्हत्पूजनाभिलाषो जायते । ततश्चार्हत्पूजनगोचरप्रयत्नो भवति । ततश्च मुक्तिकामोऽधिकारी श्रावको जिनं पूजयति विधिना । जिनपूजनात्मकप्रवृत्तिजनकप्रयत्नजनकेच्छाजनकनिरुक्तज्ञानजननद्वारा निरुक्तवचनं अर्हत्पूजाप्रवर्तकं भवति । तच्च मोक्षमार्गत्वेनाभिमतं वचनात्मकं प्रमाणं स्वनिरूपितविधेयतासम्बन्धेनार्हत्पूजायां वर्तते स्वजनकप्रयत्नजनकेच्छाजनकज्ञाननिरूपितविषयतासम्बन्धेनोक्तप्रवृत्तिरपि तत्रैव वर्तत इत्येवं कार्य-कारणयोस्सामानाधिकरण्योपपत्तेः तादृशप्रवृत्तिजनकः सर्वज्ञोदितो विधिरूपः शब्दो मोक्षमार्ग इति भावः ।
वस्तुतस्तु घटं प्रति स्वजन्यभ्रमिवत्त्वसम्बन्धेन दण्डस्येव, आमुष्मिकफलौपयिकां चेष्टालक्षणां प्रवृत्तिं प्रति स्वजन्यज्ञानजन्येच्छाजन्यप्रयत्नजन्यत्वसम्बन्धेन स्वप्रयोज्यत्वसम्बन्धेनैव वा सर्वज्ञोदितवचनस्य कारणतेति न कश्चिद्दोषः ।
प्रथममपवर्गमार्गमभिधायाऽधुना द्वितीयं मोक्षमार्ग प्रतिपादयति- संवेगवन्तः = 'तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे राग-द्वेष-मोहादिमुक्ते। साधौ सर्वग्रन्थसन्दर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः ।।' ( ) एवंलक्षणसंवेगभाजः अभ्रान्ताः = माया-परद्रोह-संशय-विपर्ययादिलक्षणभ्रान्तिशून्याः; गीतार्थाः = स्वभ्यस्तसूत्रार्थाः = सुपरिशीलिताऽऽवश्यकादिसूत्रसम्बन्धिपदार्थ-वाक्यार्थ-महावाक्याथैदम्पर्यार्थाः, उपलक्षणात् स्वभ्यस्ताचारप्रकल्पसूत्रादितात्पर्यार्थत्वेन बहुश्रुताश्च । व्यतिरेकमुखेनैतल्लक्षणं निशीथचूर्णो → जेणं आचारपगप्पो ण झातितो एस अबहुस्सुतो, जेण आवस्सगादियाणं अत्थो ण सुतो सो अगीयत्थो 6 (नि.भा.५४४८ चू.) इत्येवमुक्तम् । → अणहीयनिसीहो अग्गीयत्थो इतरो गीतार्थः - (जी.क.६९ चू.वि.प.पृ.५३) इति चन्द्रसूरेः जीतकल्पचूर्णिविषमपदव्याख्याया अवलम्बने तूपलक्षणाद् बहुश्रुतग्रहणमनतिप्रयोजनम् । न च गीतार्थपदस्यैव समर्थत्वात् संविग्नादिविशेषणवैयर्थ्यमिति शङ्कनीयम्, गीतार्थेष्वसंविग्नत्वस्याऽपि सम्भवेन तद्व्यवच्छेदाय विशेषणसाफल्यात् । यथोक्तं बृहत्कल्पभाष्ये → संविग्गा गीयत्थाऽसंविग्गा खलु तहेव गीयत्था - (बृ.क.भा.१९८९) इति । गीतार्थानामपि संविग्नत्वविरहे शीतलविहारद्वारा मन्दश्रद्धानामपरेषामसदालम्बनदानेनानवस्थाप्रसङ्गाच्च । तदुक्तं आवश्यकनियुक्तौ → जे जत्थ जया जइया बहुस्सुया चरण-करणपब्भट्ठा । जं ते समायरंती आलंबण मंदसड्ढाणं ।। जे जत्थ जया जइया बहुस्सुया चरणकरणसंपन्ना । जं ते समायरंती आलंबण तिव्वसड्डाणं ।।
6 (आ.नि. ११८९/९०) इति । तेषां = संविग्नाऽशठगीतार्थानां आचरणं च मोक्षमार्ग उच्यते । कुतः ? उच्यते दर्शितरीत्या विधेः = जिनागमस्य इव स्वप्रयोज्यत्वसम्बन्धेन शिष्टाचारस्यापि प्रवर्तक
(૨) તથા સંવેગવાળા નિર્દમ્ભ અભ્રાન્ત ગીતાર્થ મહાત્માઓનું આચરણ પણ માર્ગ છે. આગમ સૂત્ર અને અર્થનો પદાર્થ-વાક્યાર્થ-મહાવાક્યાર્થ-ઐદત્પર્યાર્થના ક્રમથી સુંદર અભ્યાસ કરનાર મહાત્મા ગીતાર્થ કહેવાય છે. જેમ વિધ્યર્થપ્રયોગથી યુક્ત શબ્દ = સર્વજ્ઞવચન પ્રવર્તક છે તેમ શિષ્ટાચાર = સંવિગ્ન-અશઠ-ગીતાર્યાચરણ પણ પ્રવર્તક છે.
१. हस्तादर्श 'स्वल्प...' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org