________________
१३२
• धर्मदेशक-श्रोतृकर्तव्यविचारः • द्वात्रिंशिका-२/३२ जानाति दातुं गीतार्थो य एवं धर्मदेशनाम् । कलिकालेऽपि तस्यैव प्रभावाखम एधते ।।३१ ।। गीतार्थाय जगज्जन्तुपरमानन्ददायिने । मुनये भगवद्धर्मदेशकाय नमो नमः ।।३२।।
जानातीति । यो गीतार्थः = निशीथाध्ययनसूत्रार्थधारी एवं स्व-परस्थानानुरोधेनै संसारदुःखमथनी भव्यकमलविबोधनी धर्मदेशनां दातुं जानाति स एव तत्राधिकारी । यथोक्तं बृहत्कल्पभाष्ये → संसारदुक्खमहणो विबोहओ भवियपुंडरीयाणं । धम्मो जिणपन्नत्तो पगप्पजइणा कहेयव्यो ।। 6 (बृ.क.भा.११३५) इति । इत्थञ्च प्रकल्पयतिना धर्मकथने स्व-परसमुत्तार-जिनाज्ञापालन-वात्सल्यप्रवचनप्रभावनादिलाभात् तस्यैव प्रभावात् = माहात्म्यात् कलिकालेऽपि धर्म एधते = वर्धत एव । यथोक्तं बृहत्कल्पभाष्ये → आय-परसमुत्तारो आणा वच्छल्ल दीवणा भत्ती । होति परदेसियत्ते अव्वोच्छित्ती य तित्थस्स ।। - (बृ.क.भा. ११७१) इति ।
इदञ्चात्रावधेयम्- वातादिनेव तैल-वादिनिवृत्त्याऽपि दीपनिवृत्तिः भवति तथैव प्रकृते वातदीपन्यायेन विपरीतदेशनाश्रवणादिना केचित् श्रोतारो विनश्यन्ति केचिच्चाऽस्नेहदीपन्यायेन सद्धर्मदेशनाश्रवणविरहेण । एयं विज्ञाय गीतार्थेन यथावसरं सद्धर्मदेशनाकरणोद्यमो न मोक्तव्यः श्रोत्रा चाऽशठबहुश्रुतगीतार्थकृतदेशनाश्रवणावसरो न विमोक्तव्य इत्याशयः ।
एतावता साधुवेषमात्रसाम्यादगीतार्थपार्थे देशनाश्रवणनिषेधोऽकारि । तदुक्तं हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → पन्थानमपि यस्तज्ज्ञः स प्रष्टव्यो विजानता । न पुनस्तत्स्थ इत्येव प्राणिसाधर्म्यमात्रतः ।। सत्सूरेरित्थमेवेह श्रोतव्या धर्मदेशना । गम्भीरार्था न जानाति तामन्यो नष्टनाशनः ।।
6 (ब्र.सि.१३५-१३६) इति ।
बौद्धमतेऽपि बहुश्रुतादिगुणसमेतस्य परशङ्कासमुद्घाताय देशनाद्वारोपस्थितस्य प्रशस्यताऽभिमता। तदुक्तं मज्झिमनिकाये महागोशृङ्गसूत्रे → भिक्खु बहुस्सुतो होति सुतधरो सुतसन्निचयो । ये ते धम्मा आदिकल्याणा मज्झे कल्याणा परियोसानकल्याणा सात्था सब्यञ्जना; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता, वचसा परिचिता, मानसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा । सो चतस्सन्नं परिसानं धम्मं देसेति परिमण्डलेहि पदब्यजनेहि अनुप्पबन्धेहि अनुसयसमुग्घाताय - (म.नि.१/४/२/३३३,पृ.२७७) इति यथागमं स्व-परसमयसारविशारदैः भावनीयम् ।।२/३१ ।।
'गीतार्थायेति अनेन सद्धर्मदेशनाधिकारित्वमुपदर्शितम् । 'जगज्जन्तुपरमानन्ददायिने = विश्वजनेभ्योऽमोघसद्धर्मदेशनाश्रवणाऽऽदराऽऽचरणलभ्यस्याऽमलाऽकलाऽनुपमाऽखण्डसुखस्य दायकाय' इत्यनेन भावपरोपकाराशयः सद्धर्मदेशकस्योक्तः, न तु स्वार्थपरिणामः, → णो अण्णस्स हेउं धम्ममाइक्खिज्जा ।
ગાથાર્થ :- જે ગીતાર્થ આ રીતે ધર્મદેશના આપવાનું જાણે છે તેના જ પ્રભાવથી કલિકાલમાં પણ ધર્મ સમૃદ્ધ બને છે. જિનેશ્વર ભગવંતના ધર્મના ઉપદેશ દ્વારા જગતના જીવોને પરમાનન્દ આપનારા गीतार्थ मुनि भगवंतने नम२७॥२. थाप.... नमः॥२. थाप.. (२/३१-३२) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org