________________
• नयदेशनातः प्रमाणदेशनाफललाभविचारः .
१२५ प्रमाणेति । 'तत इयं योग्यतया प्रमाणदेशनैव मता, व्युत्पादयिष्यमाणनयान्तरसमाहारेण तत्त्वोपपतेः, तद्भावेन तत्फलसम्भवाच्च । त्वमृतमित्याशङ्कायामाह 'प्रमाणे ति । निखिलनयचतुरं प्रपञ्चितज्ञं प्रतिपत्तारमुद्दिश्य विस्तरेण स्याद्वादप्रतिपादनात्, एकतरनयप्रियं तमुद्दिश्य स्याद्वादप्रतिपत्तियोग्यतामाधातुं स्तोकप्रतिपादनात् (= एकनयोपदेशात्) तदानीमपि स्याद्वादप्रतिपादनयोग्यताया अनपायादिति (उ.र. वृ.९९) व्यक्तमुक्तं उपदेशरहस्यवृत्तौ ।
ततः = सार्वपार्षदिकस्याद्वादबोधनसौकर्याय श्रोतृणां तद्घटकैकनयदेशनाया अपि शास्त्रसंमतत्वात् इयं = व्यवहारादिमात्रप्रधाना बालादिदेशना योग्यतया = स्वरूपयोग्यतया यद्वा प्रमाणदेशनापरिकरतया यद्वा तद्घटकतया प्रमाणदेशनैव मता, अंशांशिनोरभेदादभेदोपचाराद्वा। न चार्थक्रियाभेदादंशांशिनोरभेदासम्भवात्, तदुपचारेऽपि प्रमाणदेशनात्वानुपपत्तेः, न हि गोत्वेनोपचरितः षण्ढः पयसा पात्री प्रपूरयतीति शङ्कनीयम्, व्युत्पादयिष्यमाणनयान्तरसमाहारेण = प्रतिपादयिष्यमाणान्यनयाभिप्रायसमुच्चयेन एकनयदेशनाया अपि तत्त्वोपपत्तेः = प्रमाणदेशनात्वोपपत्तेः । एतेन → जो सियवायं भासति पमाण-नयपेसलं गुणाधारं । भावेइ मणेण सया सो हि पमाणं पवयणस्स ।। जो सियवायं निंदति पमाण-नयपेसलं गुणाधारं । भावेण दुट्ठभावो न सो पमाणं पवयणस्स ।।
6 (ती.प्र.८७१,८७२) इति तीर्थोद्गालीप्रकीर्णकगाथे अपि व्याख्याते, श्रोतृभूमिकापेक्षया नयविशेषप्रतिपादनेऽपि स्याद्वादनिन्दापरिणामविरहात्, स्याद्वादादरजननपरिणामसत्त्वात्, प्रमाण-प्रमात्रोश्च कथञ्चिदभेदेन प्रकृते वक्तुरपि प्रमाणत्वोपपत्तेः । न चैवं नयानां प्रमाणत्वे “प्रमाणनयैरधिगमः” (त.सू. १/७) इति तत्त्वार्थसूत्रं पुनरुक्तिदोषग्रस्तं स्यादिति शङ्कनीयम्, नयदेशनायां तद्वति तत्प्रकारकबोधजनकत्वस्य समारोपव्यवच्छेदकत्वस्य निर्धारकत्वस्येतरांशप्रतिक्षेपित्वस्य वा प्रमाणत्वस्य सत्त्वेऽप्यनेकान्तवस्तुग्राहकत्वरूपस्य प्रमाणवाक्यनिष्ठस्य प्रामाण्यस्याऽभावेन ‘नय-प्रमाणैः' इति पृथगुक्तेरिति व्यक्तं स्याद्वादकल्पलतायाम् (शा.वा.७/१० स्या.क.ल.वृ.) ।
इत्थञ्चैकस्मिन् नये परिणतेऽग्रेतनभूमिकायां नयान्तरश्रवणे तदभिप्रायानुसंवेधेनैकनयदेशनाया अपि तद्भावेन = वक्तुः प्रमाणदेशनास्थापनाशयेन श्रोतुश्च स्वभूमिकोचितमोक्षमार्गजिज्ञासाभावेन ततः सकाशात् तत्फलसम्भवात् = पूर्वापरानुसन्धानप्रवणस्य श्रोतुः स्याद्वादात्मकप्रमाणप्रतिपत्तिजन्यनिर्जराजनककर्मक्षयो
ટીકાર્થ :- બાળ વગેરે શ્રોતાની વર્તમાન ભૂમિકાને લક્ષમાં રાખીને અપાતી એકનયદેશના તેની બુદ્ધિને વિકસિત કરવા દ્વારા પ્રમાણઘટક અન્ય નયની દેશનાને સમજવામાં નિમિત્તકારણ હોવાથી યોગ્યતાની અપેક્ષાએ તે પ્રમાણદેશના જ મનાયેલી છે. આનું કારણ એ છે કે વક્તા દ્વારા શ્રોતાની ભૂમિકા તૈયાર થતાં ભવિષ્યમાં જે અન્ય નય કહેવામાં આવશે તેનો પૂર્વોક્ત નયવિષયની સાથે જોડાણ કરવાથી નયદેશનામાં પ્રમાણદેશનાપણું સંગત થશે. વળી વક્તાનો ભાવ પ્રમાણદેશનાનો બોધ કરાવવાનો હોવાથી (નયદેશનામાં રહેલ પ્રમાણદેશનાકારણતાથી = પ્રમાણદેશનાપણાથી) પ્રમાણદેશનાથી મળનારું ફળ પણ સંભવી શકે છે. શ્રોતાની યોગ્યતાથી નિરપેક્ષપણે સ્વરૂપથી પ્રમાણદેશના આપવામાં આવે તો તેની બુદ્ધિ વિકસિત १. मुद्रितप्रतौ 'तदियं' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org