________________
१२६
• फलाऽजनने प्रमाणदेशनाया अप्यप्रमाणता • द्वात्रिंशिका-२/२८ द्रव्यतः फलानुपयोगलक्षणात् सापि = प्रमाणदेशनापि नो मानं = न प्रमाणं यया वैपरीत्यं ध्यान्ध्यलक्षणं भवेत् ।।२७।। आदौ यथारुचि श्राव्यं ततो वाच्यं नयान्तरम । ज्ञाते त्वेकनयेऽन्यस्मात परिशिष्टं प्रदर्शयेत् ।।२८।। पशमफललाभोपपत्तेः । इत्थमनुपगमे बालादीनां कदापि नयान्तरश्रवणाधिकारित्व-प्रमाणदेशनाफलभाजनत्वादिकं नैव स्यात् । न हि यावद्घटकानवगमे तद्घटितं संज्ञायते ।
__ "तथाप्येकान्तयुक्तीनां तत्त्वतो मिथ्यात्वादाश्रयणाऽनौचित्यमिति” चेत् ? न, 'असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहत' इति न्यायेन शिष्यमतिविस्फारणार्थं तदुपादानस्यापि न्याय्यत्वादिति (न्या.खं.खा.भाग.२ पृ.४२९) व्यक्तं न्यायखण्डखाद्ये । एतेन → विभज्जवायं च वियागरिज्जा - (सू.कृ.१४/२२) इति सूत्रकृताङ्गवचनमपि व्याख्यातम्, निखिलनयप्रपञ्चचतुरं श्रोतारमधिकृत्य तत्प्रवृत्तेः । न च तथाप्येकनयदेशनायाः स्वरूपतोऽशुद्धत्वात्कथं तदुपादानमनेकान्तवादिनां श्रेय इति शङ्कनीयम्, स्वरूपतोऽशुद्धत्वेऽपि फलतः शुद्धत्वं सर्वेषां नयवादानां स्याद्वादव्युत्पादकतयेत्यर्वाग्दशायां सर्वथा तदाश्रयणं न्याय्यमिति परमार्थ इति (त.टी.१/३५/३९६) व्यक्तमुक्तमैतद्ग्रन्थकृभिरेव तत्त्वार्थटीकायाम् ।।
वस्तुतस्तु नयमार्गेष्वशुद्धत्वोक्तिः पूर्णप्रामाण्याभावापेक्षयैव न त्वप्रामाण्यापेक्षया । नयान्तरसापेक्षस्य प्रमाणघटकीभूतस्य सुनयस्य तु परिशुद्धत्वमपीष्टमेव । तदुक्तं सम्मतितकें → परिसुद्धो नयवाओ आगममेत्तत्थसाहओ होइ - (सं.त.३/४६) इति । अधिकमस्मत्कृताध्यात्मवैशारद्याम् (अध्यात्मोपनिषट्टीका १/५४/पृ.११२) ।
___ फलानुपयोगलक्षणात् = स्याद्वादगर्भमोक्षमार्गप्रवेश-तत्त्वविनिश्चयादिफलाऽजननलक्षणतो यद्वा तादृशफलानुद्देशलक्षणतो द्रव्यतः प्रमाणदेशनाऽपि न प्रमाणं; यया ध्यान्ध्यलक्षणं उन्मार्गगामित्वलक्षणं वा वैपरीत्यं भवेत् । कैतवं विनाऽपि परस्थानदेशनातः श्रोतृणां सन्मार्गव्यामोहे वक्तुरबोधिलाभ एव । यथोक्तं बृहत्कल्पभाष्ये → जो पुण मोहेइ परं सब्भावेणं वा कइअवेणं वा । सम्मोहभावणं सो पकरेइ अबोहिलाभाय ।। - (बृ.क.भा.१३२६) इति । स्वरूपतः प्रमाणदेशनात्वेन प्रतिभासनेऽपि फलतः सा हि पापदेशनैवोच्यते, परस्थानदेशनात्वात् । तदुक्तं षोडशके → यद्भाषितं मुनीन्द्रैः पापं खलु देशना परस्थाने । उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् ।। (षो.१/१४) इति पूर्वापरानुसन्धानेन (दृश्यतां द्वा.द्वा.२/२/पृ.८१) भावनीयमेतत्तत्त्वम् । अत्र च 'अन्धस्येवाऽन्धलग्नस्य विनिपातो न दुर्लभः' इति न्यायापातोऽपि दुर्वारः ।।२/२७ ।। ન હોવાથી પ્રમાણદેશનાનું ફળ આપવામાં ઉપયોગી ન બનતી હોવાથી એ ધર્મદેશના દ્રવ્યથી પ્રમાણદેશના કહેવાય, ભાવથી = ફળથી પ્રમાણદેશના ન કહેવાય. કારણ કે તેનાથી બાલ શ્રોતાની બુદ્ધિ ઉપર પ્રકાશ પથરાવાના બદલે અંધાપો છવાય છે, બુદ્ધિ વિપરીત થાય છે. સાધ્વાચાર વગેરે પ્રત્યે, સદ્ભુત વ્યવહારનય અને તેના વિષય પ્રત્યે તેનો સદૂભાવ ખતમ થાય છે. (૨/૨૭)
કયા ક્રમથી ધર્મદેશના આપવી ? તે જણાવતા ગ્રન્થકારશ્રી કહે છે કે – ગાથાર્થ - પ્રારંભમાં શ્રોતાની જેવી રૂચિ હોય તેવી ધર્મદેશના કરવી. પછી અન્ય નયની દેશના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org