________________
• प्रव्रज्याधिकारिनिरूपणम् •
११३ → एवं विरुद्धदानादौ हीनोत्तमगतेः सदा । प्रव्रज्यादिविधाने च शास्त्रोक्तन्यायबाधिते ।। - (अष्टक-२१/७) इति ।।१८।। इत्थं च भावनैव सर्वक्रियाजीवातुरिति निगमयतिबुद्धिदोषात् धर्मव्याघातः प्रसज्यते, एवं = अनेनैव न्यायेन, विरुद्धस्य = शास्त्रे विनिवारितस्य जीवोपघातहेतुत्वाद्धे(?द्दे)यद्रव्यस्याधाकर्मादिदोषदूषितस्य माष(मांस)तिलादेर्वा, विरुद्धाय वा सदोषत्वेन शास्त्रनिराकृताय पात्राय, दानं वितरणं = विरुद्धदानम्, तदादिर्यस्य शील-तपो-भावनाधर्मस्य गुरुविनय-देवता-पूजनादेर्वा स ‘विरुद्धदानादिः' तत्र (=विरुद्धानादौ) द्रव्यादिभेदतो धर्मव्याघात एव ज्ञेय इति योगः। कुत इत्याह, हीनस्य गुणवियुक्तस्य देयद्रव्यस्य पात्रस्य वा उत्तम प्रधानं एतदिति गतिरवगमो बोधो हीनोत्तमगतिः ततो = हीनोत्तमगतेः, सदा = सर्वदा, शास्त्रनिराकृतत्वेन हि हीनमपि देयं पात्रं चोत्तममिति बोधविपर्ययादनवगच्छन् यदा दाने प्रवर्तते तदा धर्मस्य व्याघातः स्फुट एवेति । दातव्यद्रव्यविरुद्धता च “अन्नाईणं सुद्धाण, कप्पणिज्जाण देसकालजुयं । दाणं जईणमुचियं, गिहीण सिक्खावयं भणियं ।।" (पञ्चाशक १/१३) इत्येतद्दानविशेषणविपर्ययादवसेया । पात्रविरुद्धता पुनरेवम् “सीलव्वयरहियाणं दाणं, जं दिज्जइ कुपत्ताणं । तं खलु धोवइ वत्थं, रुहिरकयं लोहितेणेव ।।" (समरादित्यकथा-भव-३ पृ.१९२) तथा प्रव्रज्यादीनां सर्वविरतिप्रतिपत्तिप्रभृतीनां विधानं करणं 'प्रव्रज्यादिविधानम्', आदिशब्दाद्देशविरत्यादिग्रहः, 'तत्र (=प्रव्रज्यादिविधाने) च' न केवलं विरुद्धदानादावेव, किम्भूते प्रव्रज्यादिविधान इत्याह शास्त्रोक्तन्यायबाधिते = आगमाभिहितनयनिराकृते, हीनोत्तमगतेरिति हेतुरिहापि वर्तते, धर्मव्याघातो ज्ञेय इत्येतदत्रापि सम्बन्धनीयम्, तत्र प्रव्रज्यादिविधाने शास्त्रोक्तोऽयं न्यायः “निययसहावालोयण-जणवायावगमजोगसुद्धिहिं । उचियत्तं नाऊणं, निमित्तओ सइ पयट्टेज्जा ।।"(योगशतक-३९) तथा “पव्वज्जाए जोग्गा, (अरिहा) आरियदेसम्मि जे समुप्पन्ना ।। जाइकुलेहिं विसिट्ठा, तह खीणप्पायकम्ममला ।।" (पञ्चवस्तुक३२) इत्यादि । देशविरतौ पुनः “गुरुमूले सुयधम्मो संविग्गो इत्तरं व इयरं वा । वज्जेत्तु तओ सम्मं, वज्जेइ इमे अईयारे ।। (पञ्चाशक-१/९) जिनदीक्षायां तु “दीक्खाए चेव रागो, लोगविरुद्धाण चेव चागोत्ति। सुंदरगुरुजोगो वि य, जस्स तओ एत्थ उचिओत्ति ।।” (पञ्चाशक-२/४) 6 (अष्टकवृत्ति-२१/७) इति ।
→ एतद्बाधा च एतद्विपर्ययादिति । द्रव्यादिभेदतो = द्रव्य-क्षेत्र-काल-भावविशेषानाश्रित्य, विरुद्धदानादौ प्रव्रज्यादिविधाने च, ज्ञेयो = ज्ञातव्यः, धर्मव्याघात एव = धर्मबाधैव, न तु धर्माऽऽराधनम्, तत्र विरुद्धदाने द्रव्यतो धर्मव्याघातो ग्रथैषणीयत्वेनाविरुद्धद्रव्ये कूरादौ साधुसंस्तरणहेतौ सत्यपि अनेषणीयतया विरुद्धमत एव हीनमुत्तममिति बुद्ध्या ददतः, एवं क्षेत्रतोऽकान्तारादिक्षेत्रे, कालतः सुभिक्षकाले, भावतस्तु अग्लानावस्थायाम् । उक्तं च “संथरणम्मि असुद्धं दोण्ह वि गेण्हन्त-देन्तयाणऽहियं । आउरदिट्ठन्तेणं, तं चेव हियं असंथरणे ।।” (निशीथभाष्य-१६५० + बृहत्कल्पभाष्य-१६०८ + सम्यक्त्वप्रकरण-१२८) तथा प्रव्रज्यादिविधाने औत्सर्गिकशास्त्रबाधिते द्रव्यतो धर्मव्याघातो यथा, शास्त्रनिराकृतं नपुंसकादिकं जीवद्रव्यं प्रव्राजयतः, क्षेत्रतोऽकान्तारादिक्षेत्रे, कालतः सुभिक्षकाले, भावतः स्वस्थावस्थायामिति, हिशब्द:
અષ્ટપ્રકરણમાં શ્રી હરિભદ્રસૂરિજી મહારાજે જણાવેલ છે કે ‘વિરુદ્ધદાન વગેરેમાં અને શાસ્ત્રોક્ત ન્યાયથી બાધિત દીક્ષા આપવા વગેરેમાં હીનોત્તમગતિના કારણે ધર્મવ્યાઘાત જ થાય છે.” (૨/૧૮)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org