SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १०८ • तपःस्थले लाघवगौरवविचारः • द्वात्रिंशिका-२/१६ कालिकसूत्र ६/२३) इत्याद्यागमप्रसिद्धं एकभक्तादेर्जानन्ति = निश्चिन्वन्ति उपदेशपदादिकर्तारः। पात्येव तपःकर्म = तपोऽनुष्ठानं सर्वबुद्धैः = सर्वतीर्थकरैः वर्णितं = देशितं, किंविशिष्टमित्याह- ‘यावल्लज्जासमा वृत्तिः', लज्जा = संयमस्तेन समा = सदृशी = तुल्या = संयमाऽविरोधिनीत्यर्थः । वर्त्तनं = वृत्तिः = देहपालना । ‘एकभक्तं च भोजनं' एकभक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा । द्रव्यत एकं = एकसंख्यानुगतं, भावत एकं = कर्मबन्धाभावादद्वितीयं, तद्दिवस एव रागादिरहितस्य, अन्यथा भावत एकत्वाभावादिति” (द.वै.६/२३ वृ.) । उपदेशपदादिकर्तार इति । तदुक्तं उपदेशपदे श्रीहरिभद्रसूरिभिः → उववासो वि हु एक्कासणस्स चाया ण सुंदरो पायं । णिच्चमिणं, उववासो णिमित्तिगमो जओ भणिओ।। अहो निच्चं तवोकम्मादिसुत्तओ हंदि एवमेयंति । पडिवज्जेयव्वं खलु पव्वादिसु तब्विहाणाओ ।। 6 (उप.प.६८३,६८४) इति । श्रीमुनिचन्द्रसूरिभिः तद्व्याख्या चैवं कृता → उपवासोऽपि प्रतीतरूपः, किं पुनर्गुरुकुलवासत्यागेन शुद्धोञ्छादियत्नो न सुन्दरः इत्यपिशब्दार्थः । हुरलङ्कारे, एकाशनस्य प्रतिदिनमेकवारभोजनस्वरूपस्य, न = नैव सुन्दरः = श्रेयान् प्रायः = बाहुल्येन । अत्र हेतुः नित्यं सार्वदिकमिदमेकाशनकम्, उपवासो नैमित्तिकः = तथाविधनिमित्तहेतुको यतो भणितः सूत्रेषु (उप. प.६८३ वृत्ति) तदेव दर्शयति 'अहो निच्चे'त्यादि । 'अहो निच्चं तवोकम्मं सव्वबुद्धेहिं वन्नियं । जावलज्जासमा वित्ती एगभत्तं च भोयणं ।।' (दशवै.६/२३) इत्यादिसूत्रतो हंदीतिपूर्ववत्, एवमेव = उक्तप्रकारवदेव एतत् = प्रागुक्तं प्रतिपत्तव्यं = अभ्युपगमनीयम्, खलुक्यालङ्कारे । पर्वादिषु तद्विधानात् = उपवासविधानात् । तत्र पर्वाणि चतुर्दश्यादीनि, यथोक्तं व्यवहारभाष्ये “चउछ?माकरणे अट्टमि-पक्ख-चउमास-वरिसेसु । लहुओ गुरुगो लहुगा गुरुगा य कमेण बोधव्वा ।।"(व्य.भा.१/१३३) ‘पक्ख'त्ति पाक्षिकं पर्व, तच्च किल चतुर्दशी, तस्यैव व्यवहारभाष्ये 'चाउद्दसिगा(?गहो) होइ कोई' (व्य.भा.२६९९) इत्यादिषु सूत्रेषु चतुर्दशीत्वेन भणनोपलम्भात् । आदिशब्दादातङ्कादिशेषकारणग्रहः । यथोक्तं 'आयंके उवसग्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदया तवहेउं सरीरवोच्छेयणट्ठाए ।।' (पिण्डनियुक्ति-६६६)। अयमत्राभिप्रायः- उक्तकारणविरहेणैकभक्तमपेक्ष्योपवासे क्रियमाणे सूत्रपौरुष्यादयः शेषसाधुसमाचारा बहुतरनिर्जरफलाः सीदन्तीति परिभाव्योक्तं “नैमित्तिक उपवासो नित्यन्त्वेकभक्तमिति ( (उप.प.६८४ वृत्ति) । प्रकृते च → कल्लं कल्लं वरं आहारो परिमिओ य पंतो य । न य खमणो, पारणए बहु बहुयतरो बहुविहो य ।। - (म.वि.१३२) इति मरणविभक्तिप्रकीर्णकवचनमप्यनुसन्धेयमागमवेदिभिः । યોગોની આરાધના બંધ પડી જાય છે, મંદ પડી જાય છે. જ્યારે એકાસણું વગેરે કરવામાં આવે તો વૈયાવચ્ચ, સ્વાધ્યાય વગેરે યોગોની આરાધના પણ મોટા ભાગે ચાલુ રહી શકે છે.) માટે ઉપવાસ वगेरे ४२त मेस पणवान छे. भाटे ४ 'अहो निच्चं तवोकम्म' त्याहि दा। शवैदिसूत्रमा એકાસણું વગેરે તપ નિત્યકર્તવ્યરૂપે બતાવેલ છે. આવો નિર્ણય ઉપદેશપદ વગેરે ગ્રન્થના કર્તા શ્રી હરિભદ્રસૂરીશ્વરજીએ ભાવનાજ્ઞાન વડે જ કરેલ છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy