________________
पदार्थादिधियामेकोपयोगरूपतासमर्थनम् •
१०१
एकस्य वाक्यस्य कथं श्रुतादयो व्यापाराः ? इति परप्रत्यवस्थाने तु यथेन्द्रियस्य तव सविकल्पके जननीये सन्निकर्षादय इत्युत्तरम् । अधिकमुपदेशरहस्ये विपञ्चितमस्माभिः ।।१३।। जायइ सुयभावावगमो इहरहा उ । होइ विवज्जासोऽवि हु अणिट्ठफलओ य सो णियमा ।। ← (उप.प.८६०) इति । तदुक्तं वैराग्यकल्पलतायामपि ग्रन्थकृता
पद-वाक्य-महावाक्य-तात्पर्यैरर्थसङ्गतिः । तात्पर्यार्थोऽत्र बलवान् शेषास्तन्मुखवीक्षिणः ।। श्रुतमात्रग्रहस्तज्ज्ञैः, शत्रूत्थानसमः स्मृतः । क्रमिकार्थग्रहोबुद्धस्तात्पर्यार्थस्तु तज्जयः पल्लवग्राहिभिर्मूढैः, शास्त्रार्थः को न लुप्यते । अन्धेभज्ञानगत्यांशे, पूर्णार्थाऽऽरोपगर्वितैः ।।
← (वै.क. स्त. ५ / ४५९, ४६०, ४६१ ) इति भावनीयम् ।
अत्र चैकस्मादपि वाक्यात् प्रमाण- नयानुगृहीतव्युत्पत्तिविशेषेण जायमानानां शाब्दबोधात्मकपदार्थवाक्यार्थ-महावाक्यार्थज्ञानानां क्रमशो वाक्यार्थ- महावाक्यार्थैदम्पर्यार्थज्ञानेषु अवान्तरव्यापारत्वमिति “शब्दस्य तृतीयक्षणे विनश्य तदुत्तरं व्यापारं प्रति कथं जनकत्वम् ?” इति दोषो न सावकाशः । तदुक्तं साङ्ख्यप्रवचनभाष्ये विज्ञानभिक्षुणा सोऽयमिषोरिव दीर्घ-दीर्घतरो व्यापारो यत्परः शब्दः स शब्दार्थः ← (सां.प्र.भा. पृ.१२) । अयमाशयोऽतिदूरदेशवर्तिलक्ष्यवेधाय धनुर्धरमोचितेऽतिदूरदेशगामिनि बाणे यो वेगः प्रथममुत्पन्नः स तु क्षणिकत्वाद् द्रुतमेव विनष्टः पुनश्च नूतन एव वेगगुणस्तस्मिन्नेव शरे उत्पन्नः । इत्थमभिनवनानावेगगुणोत्पत्तिप्रक्रमेणाभिसर्पयन्निषुः लक्ष्यदेशेनाभिसम्बध्यते । यथाऽविसंवादिनः सायकस्य लक्ष्यदेशमप्राप्याऽनुपरमात्तदन्यथानुपपत्त्या तावत्कालावच्छिन्ना शरगतदीर्घव्यापारस्थितिस्स्वीक्रियते तथा सम्यक्प्रयुक्तस्य शब्दस्य स्वतात्पर्यार्थमनभिधायानुपरमात् तात्पर्यार्थावबोधान्यथानुपपत्त्या पदार्थ वाक्यार्थमहावाक्यार्थैदम्पर्यार्थाऽवबोधव्यापियथोचितबहुसमयावच्छिन्नः श्रुतज्ञानोपयोगकालोऽवश्यमभ्युपगन्तव्यो जि
नमतवेदिभिः ।
नन्वेकस्य शरस्य सदृशा एव व्यापारा दृष्टाः । ततस्तदुदाहरणेन एकस्य वाक्यस्य कथं श्रुतादयः श्रुत-चिन्ता-भावनाज्ञानलक्षणा मिथो विलक्षणलक्षणा व्यापारा अभ्युपगन्तुमर्हन्ति ? इति परप्रत्यवस्थाने = नैयायिकप्रश्निते तु यथा तव = नैयायिकस्य मते घट - तद्गुण- तद्गतजातिगोचरे 'नीलत्ववद्विशिष्टो घटः' इत्येवंरूपे सविकल्पके व्यवसायज्ञाने जननीये इन्द्रियस्य = एकस्यापि चक्षुरिन्द्रियस्य स्वसंयोग-स्वसंयुक्तसमवाय-स्वसंयुक्तसमवेतसमवायलक्षणाः सन्निकर्षादयः मिथोविलक्षणनानाप्रत्यासत्तयः स्वीकर्तुमर्हन्ति तथैव जैनदर्शने प्रकृतमपि सङ्गच्छतेतरां इति उत्तरम् ।
=
नैयायिकसिद्धान्ते चक्षुषा घटग्रहणे स्वसंयोगसन्निकर्षः, रूपग्रहणे स्वसंयुक्तसमवायप्रत्यासत्तिः, रूपत्वजातिग्रहणे स्वसंयुक्तसमवेतसमवायसंसर्गः घटाभावग्रहणे च स्वसंयुक्तविशेषणतासम्बन्धो व्यापाररूपेणेष्यते । “એક જ વાક્યના શ્રુતજ્ઞાન, ચિંતાજ્ઞાન વગેરે વ્યાપારો – દ્વારો माध्यम डेवी रीते थाय ?" આ પ્રમાણે નૈયાયિક પ્રશ્ન કરે તો તેનો જવાબ એ છે કે જેમ નૈયાયિકના મતે સવિકલ્પક પ્રત્યક્ષ જ્ઞાન ઉત્પન્ન કરવા માટે ઈન્દ્રિયના સન્નિકર્ષ વગેરે વ્યાપારો થાય છે તેમ પ્રસ્તુતમાં સમજવું. આ વાતનો અધિક વિસ્તાર ઉપદેશરહસ્યમાં અમે (મહોપાધ્યાય શ્રીયશોવિજયજી મહારાજે) કરેલો છે. (૨/૧૩)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=