________________
९०
• 'मिथ्याचार'पदव्याख्या •
द्वात्रिंशिका-२/७ ३/६) इति ।।७।। मधुसूदनसरस्वतीकृत-गूढार्थदीपिकाव्याख्यालेशस्त्वेवम् → यो विमूढात्मा = राग-द्वेषादिदूषितान्तःकरण
औत्सुक्यमात्रेण कर्मेन्द्रियाणि = वाक्पाण्यादीनि संयम्य = निगृह्य बहिरिन्द्रियैः कर्माण्यकुर्वन्निति स मिथ्याचारः = सत्त्वशुद्ध्यभावेन फलायोग्यत्वात्पापाचार उच्यते - (भ.गी.३/६ गू.दी.वृ.) इति । भगवद्गीताभाष्ये शङ्कराचार्येण त्वेतद्गाथाव्याख्यायां → कर्मेन्द्रियाणि हस्तादीनि संयम्य = संहृत्य य आस्ते = तिष्ठति मनसा स्मरन् = चिन्तयन् इन्द्रियार्थान् = विषयान् विमूढात्मा = विमूढान्तःकरणो मिथ्याचारो = मृषाचारः पापाचारः स उच्यते - (भ.गी.३/६भा.) इत्युक्तम् । तदुक्तं गणेशगीतायां अपि → कर्मकारीन्द्रियग्रामं नियम्याऽऽस्ते स्मरन् पुमान् । तद्गोचरान् मन्दचित्तो धिगाचारः स भाष्यते ।। - (ग.गी.२/५) इति । तदुक्तं मनुस्मृतौ अपि →
अधोदृष्टि कृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बकवृत्तिरुदाहृतः ।। ये बकवतिनो विप्रा ये च मार्जारलिङ्गिनः । ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ।।
- (म.स्मृ.४/१९६-१९७) इति । → न लिङ्गं धर्मकारणम् - (म.स्मृ.६/६६, सं.गी.८/६२) इति मनुस्मृति-संन्यासगीतावचनमप्यत्रानुसन्धेयम् ।
तदुक्तं आचाराङ्गेऽपि → नित्तेहिं पलिच्छिन्नेहिं आयाणसोयगढिए बाले अव्वोच्छिन्नबंधणे अणभिक्कंतसंजोए तमंसि अवियाणओ आणाए लंभो नत्थित्ति बेमि (आचा.४/४/१३९) इति । तद्व्याख्यालेशस्त्वेवं → नेत्रैः परिच्छिन्नैः = यथास्वं विषयग्रहणं प्रति निरुद्धैः सद्भिः ब्रह्मचर्ये उषित्वा पुनर्मोहोदयात् आदानस्रोतोगृद्धः = कर्मलक्षणाऽऽदान-शब्दादिमिथ्यात्वाविरत्यादिलक्षणस्रोतोऽध्युपपन्नः बालः = रागद्वेषमहामोहाभिभूतान्तःकरणः अव्यवच्छिन्नबन्धनः = जन्मशतानुवृत्तकर्माष्टकः अनभिक्रान्तसंयोगः = अनतिलधिताऽसंयमसंयोग इन्द्रियाऽऽनुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्यात्महितं मोक्षं वाऽविजानत आज्ञायाः = तीर्थङ्करोपदेशस्य लाभो नास्तीति - (आचा.४/४/१३९ वृत्ति) ।
शस्त्रपरिज्ञाध्ययनवृत्तौ अपि श्रीशीलाङ्काचार्यैः → योऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषयप्रमादवान् सोऽपि विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति (आचा.१/५/४५ वृत्ति.) इत्युक्तम् । प्रकृते → अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानऽस्य स्वप्नेऽनर्थागमो यथा ।। 6 (क.दे.सं.३/४) इति कपिलदेवहूतिसंवादवचनमप्यनुयोज्यम् ।
हृदयप्रदीपषट्त्रिंशिकायामपि → ये लुब्धचित्ता विषयादिभोगे बहिर्विरागा हृदि बद्धरागाः। ते दाम्भिका वेशभृताश्च धूर्ती मनांसि लोकस्य तु रञ्जयन्ति ।। - (ह.ष. २०) इत्युक्तम् । इत्थमेव व्याख्याप्रज्ञप्तिप्रज्ञापना-जीवाभिगम-भक्तपरिज्ञा-पुष्पमाला-पञ्चवस्तुक-पञ्चाशकोपदेशमालोपदेशपद-धर्मबिन्दुवृत्त्यादौ दर्शितमनन्तशो द्रव्यलिङ्गग्रहणमप्यन्तस्तत्त्वशुद्धिशून्यस्योपपद्यते ।।२/७।। છે કે 2 બાહ્ય ઈન્દ્રિયો ઉપર અંકુશ રાખીને મનથી ઈન્દ્રિયના વિષયોને જે મૂઢ જીવ અત્યંત યાદ ४२तो २४ छ ते मिथ्यामाया२ वाय. ८ (२/७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org