________________
• बुधलक्षणत्रैविध्योपदर्शनम् • गृहत्यागादिकं लिङ्गं बाह्य शुद्धिं विना वृथा । न भेषजं विनाऽऽरोग्यं वैद्यवेषेण रोगिणः ।।७।।
गृहेति । गृहत्यागादिकं बाह्यं = बहिर्वर्ति लिङ्गं शुद्धिं विना = अन्तस्तत्त्वविवेकमन्तरा वृथा = निरर्थकम् । न हि रोगिणो (भेषजं=) भेषजोपयोगं विना (वैद्यवेषेण=) वैद्यवेषधारणमात्रेण आरोग्यं भवति । अत एवैतत्परैरपि मिथ्याचारफलमुच्यते । तल्लक्षणं चेदं “बाह्येन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ।।” (भगवद्गीता तत्त्व-सदनुष्ठानादिगतविज्ञानविशेषविषयकविशिष्टतरविवेकदृष्टिकलितत्वमिति त्रिविधं बुधलक्षणमुपदर्शितमेतावता । तदुक्तं षोडशके → बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वन्तु बुधः परीक्षते सर्वयत्नेन ।। बालो ह्यसदारम्भो मध्यमबुद्धिस्तु मध्यमाचारः । ज्ञेय इह तत्त्वमार्गे बुधस्तु मार्गानुसारी यः ।।
+ (षो.१/२-३) इति । यथा चैतत्तत्त्वं तथा विस्तरतोऽभिहितमस्माभिः कल्याणकन्दल्यभिधानायां तट्टीकायामित्यधिकं ततोऽवगन्तव्यम् ।।२/६।।
गृहत्यागादिकं = ‘बज्झो नवविहो णेओ धण-धन्न-खित्त-वत्थु-रुप्पाइं । सोवन्न-कुवियपरिमाण-दुपयचउप्पयमुहो वुत्तो' ।। (सं.प्र.७/५०) इति सम्बोधप्रकरणोक्तधनधान्यादिनवविधबाह्यग्रन्थत्यागादिकं बाह्य लिङ्गं खलु अन्तस्तत्त्वविवेकं = → मिच्छत्तं वेयतियं हासाई छक्कगं च नायव्वं । कोहाईण चउक्कं चउदस अभिंतरा गंथा ।। - (प्रव.सारो.७२१) इति प्रवचनसारोद्धारादिप्रतिपादिताभ्यन्तरग्रन्थित्यागं अन्तरा = विना निरर्थकम् । तदुक्तं षोडशके → बाह्यं लिङ्गमसारं तत्प्रतिबद्धा न धर्मनिष्पत्तिः । धारयति कार्यवशतो यस्माच्च विडम्बकोऽप्येतत् ।। बाह्यग्रन्थत्यागान्न चारु नन्वत्र तदितरस्यापि । कञ्चुकमात्रत्यागान्न हि भुजगो निर्विषो भवति ।।
6 (षो.१/४-५) इति । यथा चैतत्तत्त्वं तथा विस्तरतोऽभिहितमस्माभिः कल्याणकन्दल्याम् । भगवद्गीतासंवादमाह- बाह्येति । सम्प्रति भगवद्गीतायां 'कर्मेन्द्रियाणी ति पाठः समुपलभ्यते । विशेषार्थ :બાલ મધ્યમ
પંડિત (૧) વિવેકશૂન્ય (૧) મધ્યમવિવેક સંપન્ન (૧) પ્રકૃષ્ટ વિવેક સંપન્ન (૨) માત્ર બાહ્યવેશદર્શી (૨) શુદ્ધ આચારદર્શી (૨) સિદ્ધાંતતત્ત્વદર્શી (3) निषिद्ध12511 (3) मध्यममायारसंपन्न (3) शात्रिय अनुसारी
ગાથાર્થ :- શુદ્ધિ વિના ગૃહત્યાગ વગેરે બાહ્ય લિંગ વ્યર્થ છે. દવા આપ્યા વિના વૈદ્યના વેશને ધારણ કરવાથી રોગીને આરોગ્ય પ્રાપ્ત થતું નથી. (૨૭)
ટીકાર્ય - અંતસ્તલમાં વિવેકદષ્ટિરૂપ શુદ્ધિ પ્રગટેલી ન હોય તો બાહ્યદષ્ટિએ ઘર, સગાવ્હાલા, ધન વગેરેનો ત્યાગ કરવામાં આવે તો તે નિરર્થક છે. ખરેખર ઔષધનો ઉપયોગ કર્યા વિના માત્ર વૈદ્યનો વેષ ધારણ કરવાથી રોગીને આરોગ્ય પ્રાપ્ત થતું નથી. માટે જ અન્યદર્શનકારોએ પણ આવા કેવળ બાહ્ય વેશને મિથ્યા આચારનું ફળ કહેલ છે. તેનું લક્ષણ ભગવદ્ગીતામાં આ પ્રમાણે બતાવેલ १. हस्तादर्श ‘बाह्यां' इत्यशुद्धः पाठः । २. हस्तादर्श 'दिकं' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org