________________
बाललक्षणत्रैविध्यम् •
द्वात्रिंशिका - २/६
वृत्तान्वेषी तु = वृत्तप्राधान्यापेक्षी तु मध्यमः, बालापेक्षया मध्यमाचारत्वात् । यस्तु सर्वयत्नेन शास्त्रतत्त्वं परीक्षते स पण्डितः, तत्त्वतस्तस्य मार्गानुसारितयोत्कृष्टाचारत्वात् ।।६।। षिद्धकार्यकारित्वं धर्मपराङ्मुखदशायां अगम्यगमनादिकर्तृत्वस्वरूपं धर्मार्थितायाञ्च वन्दनादिकार्येऽविध्ययतनादिकर्तृत्वस्वरूपमवसेयम् । एतेन कज्जं अयाणओ बालो चेव ← (आचा.चू.१ ।२ ।३) इति आचाराङ्गचूर्णिवचनमपि व्याख्यातम् । ततश्च धर्मपरीक्षापेक्षया लिङ्गप्रेक्षित्वं, आचारापेक्षया निषिद्धकार्यकारित्वं स्वरूपतश्च सदसद्विवेकविकलत्वमिति त्रिविधं बाललक्षणमुपदर्शितमेतावता ।
८८
यः ‘कर्मभूयस्त्वात्फलभूयस्त्वमिति न्यायश्रद्धावान्, अत एव वृत्तप्राधान्यापेक्षी = 'यदि अयमागमोक्काचारवान् स्यात्, तदा वन्द्यः स्यादिति धिया आचारमेव धर्मविधया विचारयति स तु मध्यमविवेकसम्पन्नो मध्यमः = मध्यमबुद्धिरित्युच्यते, बालापेक्षया मध्यमाचारत्वात् = गुरुलाघवज्ञानसाध्यकार्यानाचरण-सूत्रदृष्टमात्रकार्याचरणाभ्यां मध्यमविवेकदृष्टिप्रयुक्तमध्यमत्वाऽऽलिङ्गिताचारोपेतत्वात् । आचारगतसूत्रोक्तसूक्ष्मयतनासम्पन्नत्वेऽपि मध्यमविवेकशालिनः परिणामगतसूक्ष्मयतना देहात्मभेदविज्ञान-साक्षिभावादिसाध्या नैव सम्भवति, विशदतरविवेकज्ञानविकलत्वादिति ध्येयम् । इत्थञ्च धर्मपरीक्षापेक्षया सदनुष्ठानगतस्थूलसूक्ष्मयतना-विध्यादिविचारकत्वं, आचारापेक्षया मध्यमाचारवत्त्वं स्वरूपापेक्षया च मध्यमविवेकोपेतत्वमिति त्रिविधं मध्यमबुद्धिलक्षणमुपदर्शितमेतावता ।
यस्तु विशिष्टविवेकदृष्टिसम्पन्नः सर्वयत्नेन = सर्वादरेण शास्त्रतत्त्वं = सिद्धान्तपरमार्थं शास्त्रोक्तधर्मतत्त्वं वा परीक्षते = पुरस्कृत्याऽऽद्रियते स पण्डित उच्यते, तत्त्वतः = परमार्थमाश्रित्य तस्य मार्गानुसारितया = स्वभूमिकोचिततत्तत्सम्यग्ज्ञानदर्शनचारित्रत्रितयलक्षणमोक्षमार्गानुयायितया उत्कृष्टाचारत्वात् = उत्कृष्टविवेकदृष्टिप्रयुक्तोत्कृष्टत्वाक्रान्ताचारान्वितत्वात्, धर्मतत्त्वस्य तेनैव परमार्थतो गम्यत्वाच्च । सम्मतञ्चेदं बौद्धानामपि । तदुक्तं सुगतेन मज्झिमनिकाये अग्निवत्सगोत्रसूत्रे गम्भीरो हायं वच्छ ! धम्मो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो ← (म.नि. २ । ३ ।२ । १९० पृष्ठ १६४) इति यथागममत्रानुयोज्यं सर्वतन्त्रपरमार्थविशारदैः ।
इत्थञ्च धर्मपरीक्षापेक्षयाऽऽगमत्तत्त्वमीमांसकत्वं, आचारापेक्षया उत्कृष्टाचारवत्त्वं स्वरूपतश्चागमહાર્દિક ઉદ્યમ તેઓ નહીં કરે. કેમ કે તેઓની દૃષ્ટિમાં ધર્મ તો કેવળ બાહ્ય વેશમાં જ સમાયેલો છે. અને તેના લીધે જ તેઓ શાસ્ત્રથી નિષિદ્ધ એવા કાર્યને કરનારા હોય છે.
(૨) જે જીવો બાહ્ય વેશને જ કેવળ ધર્મ તરીકે જોતા નથી, પરંતુ બાહ્ય વેશને અનુરૂપ આચરણ છે કે નહિ ? આવી મુખ્ય અપેક્ષા ધર્મના નિર્ણય માટે કરે છે, તે મધ્યમ જીવ છે. કારણ બાલ જીવની અપેક્ષાએ તેઓ મધ્યમ આચારવાળા છે.
(૩) સર્વ પ્રયત્નથી શાસ્રતત્ત્વની = સૈદ્ધાંતિક તત્ત્વની જે પરીક્ષા કરે છે (અને સામેની વ્યક્તિને માન્ય મૂળભૂત સિદ્ધાંતો અવિસંવાદી લાગે તો જ તેને ધર્મી તરીકે સ્વીકારે છે.) તે પંડિત જીવ છે. કારણ કે તાત્ત્વિક દૃષ્ટિએ એ જીવો મોક્ષમાર્ગને અનુસરનારા હોવાથી ઉત્કૃષ્ટ આચારવાળા છે.(૨/૬)
१. हस्तादर्शे 'यस्तु सर्व' इति पाठो नास्ति । २. हस्तादर्शे '... त्वं त प...' इत्यधिकोऽशुद्धश्च पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org