________________
८५
• अगीतार्थकुशीलसङ्गस्य त्याज्यता • यमाणे एत्थं पि जाण सेयं ति णत्थि केयं पुरिसे कं च णए त्ति' (आचाराङ्ग २/६ सू.१०३)। तावद् वाचा तर्जनं, अनाद्रियमाणो हन्यादपि । चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो दण्ड-कशादिना ताडयेदिति । उक्तञ्च 'तत्थेव य निट्ठवणं बंधण निच्छुभण कडगमद्दो वा । निव्विसयं व नरिंदो करेज्ज संघंपि सो कुद्धो ।।' (बृहत्कल्पभाष्य-९१७) तथा तच्चनिकोपासको नन्दबलात् बुद्धोत्पत्तिकथानकाद्, भागवतो वा भल्लिगृहोपाख्यानाद्, रौद्रो वा पेढालपुत्रसत्यक्युमाव्यतिकराऽऽकर्णनात् प्रद्वेषमुपगच्छेत् । द्रमक-काण-कुण्टादिषु कश्चित्तमेवोद्दिश्याऽधर्मफलोपदर्शनेनेति । एवमविधिकथनेनेहैव तावद् बाधा, आमुष्मिकोऽपि न कश्चिद् गुणोऽस्तीति आह च ‘एत्थंपि' इत्यादि । मुमुक्षोः परहितार्थं धर्मकथां कथयतस्तावत्पुण्यमस्ति । परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने अत्रापि = धर्मकथायामपि श्रेयः = पुण्यमिति एतनास्तीत्येवं जानीहि । यदि वाऽसौ राजादिरनाद्रियमाणस्तं साधु धर्मकथिकमपि हन्यात् । कथमित्याह 'एत्थंपी'त्यादि । यद्यदसौ पशुवध-तर्पणादिकं धर्मकारणमुपन्यस्यति तत्तदसौ धर्मकथिकः अत्रापि श्रेयो न विद्यत' इत्येवं प्रतिहन्ति । यदि वा यद्यदविधिकथनं तत्र तत्रेदमुपतिष्ठते 'अत्रापि श्रेयो नास्तीति । तथाहि अक्षरकोविदपरिषदि पक्षहेतुदृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिरितरस्याञ्चान्यथेति । एवञ्च प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च, न पुनः श्रेयः । विधिमजानानस्य मौनमेव श्रेय इति । उक्तञ्च ‘सावज्जऽणवज्जाणं वयणाणं जो न याणइ विसेसं । वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं ?।।' (महानिशीथ ३/१२०) । स्यादेतत्- कथं तर्हि धर्मकथा कार्येति? उच्यते 'कोऽयमि'त्यादि । यो हि वश्येन्द्रियो विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्याऽऽकृष्यमाणहृदयो धर्मं पृच्छति तेनाऽऽचार्यादिना धर्मकथिकेनासौ पर्यालोचनीयः ‘कोऽयं पुरुषः ? मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति ? कञ्च देवताविशेषं नतः ? किमनेन दर्शनमाश्रितम्?' इत्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयम् । एतदुक्तं भवति- धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः, क्षेत्रतः 'किमिदं क्षेत्रं तच्चनिकैर्भागवतैरन्यैर्वा तज्जातीयैः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वा भावितं, कालतो दुष्षमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नम्?' एवं पर्यालोच्य यथा यथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या ? एवमसौ धर्मकथायोग्यः, अपरस्य त्वधिकार एव नास्तीति । उक्तञ्च ‘जो हेउवायपक्खंमि हेउओ, आगमम्मि य आगमिओ । सो ससमयपन्नवओ सिद्धंतविराहओ अन्नो ।।' (सम्मतितर्क ३/४५-पञ्चवस्तुक-९९३) । य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इति + (आचा. २/६/१०३) ।
एतेन वज्ररेखान्यायेन सर्वत्र सर्वदा सर्वथा समानैव सद्धर्मदेशना श्रावयितव्येत्येकान्तोऽपि प्रतिक्षिप्तः, यथोक्तं निशीथभाष्ये अपि → खेत्तं कालं पुरिसं नाऊण पगासए गुझं 6 (नि.भा. ६२२७) અનુસરવામાં ન આવે તો ક્રોધાંધ થયેલ રાજા કદાચ મારી પણ નાંખે. આ રીતે અવિધિથી ધર્મ કહેવામાં પુણ્ય થાય તેમ નથી - એ રીતે તું જાણ. તથા ધર્મદેશના કરવા માટે “આ પુરુષ કોણ છે? કદાગ્રહી છે? કે ભદ્રક છે ? તે કયા આશયથી પ્રશ્ન કરે છે? ક્યા દેવને તે નમેલો છે? કયો ધર્મ તેણે સ્વીકાર્યો १. रावण भने प्रभासपाट वय्ये. मावेल मातीय = भल्लीगृह. ते स्थणे ला inाथी श्री मा२४नु मृत्यु थयुं तु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org