________________
८४
• विवेकगर्भसमभावेन देशनादानविधिः •
द्वात्रिंशिका - २/४
भाववतो वक्तुः निग्रहः अपसिद्धान्तलक्षणो व्यक्तः = प्रकट एव । अयं भावः - उक्ताचारसूत्रं साधोर्धर्मव्याख्याने निरीहतामात्रद्योतकमेव, राजादेरभिप्रायाननुसरणे प्रकटदोषोपदर्शनपूर्वमनुपदमेव 'तत्र पुरुषादि - देशादिपरिज्ञानवत्त्वेन देशनाधिकारित्वाभिव्यञ्जनात् । तदुक्तं - अवि' य हणे अणाइ(सू.७-पृ.१६) इति। ललितविस्तरायामपीत्थमेवोक्तम् (पृष्ठ-५) । त्रिविधपर्षत्स्वरूपञ्च बृहत्कल्पभाष्ये → गुण-दोसविसेसन्नू अणभिग्गहिया य कुस्तुतिमएसु । एसा जाणगपरिसा गुणतत्तिल्ला अगुणवज्जा ।। पगतीमुद्ध अयाणिय मिग-छावय-सीह - कुक्कुडयभूया । रयणमिव असंठविया सुहसन्नप्पा गुणसमिद्धा ।। किंचिम्मत्तग्गाही' पल्लवगाही य तुरियगाही य । दुव्वियड्ढिया उ एसा भणिया तिविहा भवे परिसा । । ← (बृ.क.भा.३६५,३६७,३६९) इत्येवमावेदितम् ।
अयं भावः उक्ताचारसूत्रं = ‘जहा पुण्णस्स' इत्यादि सूत्रम् । अत्र च श्रीशीलाङ्काचार्यैः → तीर्थकर गणधराचार्यादिना येन प्रकारेण पुण्यवतः = सुरेश्वर-चक्रवर्त्ति माण्डलिकादेः कथ्यते = उपदेशो दीयते तथा = तेनैव प्रकारेण तुच्छस्य द्रमकस्य काष्ठहारकादेः कथ्यते । अथवा पूर्णः = जातिकुल-रूपाद्युपेतः तद्विपरीतः तुच्छः । विज्ञानवान् वा पूर्णः ततोऽन्यः = तुच्छः इति । उक्तञ्च 'ज्ञानैश्वर्यधनोपेतो जात्यन्वयबलान्वितः । तेजस्वी मतिमान् ख्यातः पूर्णः तुच्छो विपर्ययात् । । ' ( ) एतदुक्तं भवति- यथा द्रमकादेः तदनुग्रहबुद्ध्या प्रत्युपकारनिरपेक्षः कथयति एवञ्चक्रवर्त्यादेरपि । यथा वा चक्रवर्त्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि । अत्र च निरीहता विवक्षिता । न पुनरयं नियमः एकरूपतयैव कथनीयम् । तथा हि यो यथा बुध्यते तस्य तथा कथ्यते । बुद्धिमतो निपुणं स्थूलबुद्धेस्त्वन्यथेति। राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयं 'किमसौ अभिगृहीतमिथ्यादृष्टिरनभिगृहीतो वा संशीत्यापन्नो वा ? अभिगृहीतोऽपि कुतीर्थिकैर्व्युद्ग्राहितः स्वत एव वा ?' तस्य चैवम्भूतस्य यद्येवं कथयेद् यथा 'दशसूनासमश्चक्री दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या दशवेश्यासमो नृपः । । ' (मनुस्मृति ४/८५), तद्भक्तिविषयरुद्रादिदेवताभवनचरितकथने च मोहोदयात्तथाविधकर्म्मोदये कदाचिदसौ प्रद्वेषमुपगच्छेद् द्विष्टश्चैतद् विदध्यादिति ← ( आचा.वृ. २/६/१०२ ) इत्येवं विवृतम् ।
तत्रैवानन्तरं सूत्रं 'अवि य हणे...' इत्यादि । तद्व्याख्या चैवं अपिः सम्भावने, आस्तां સમ્યગ્ જાણકારી વગરના મંદબુદ્ધિવાળા વક્તાનો અપસિદ્ધાંતરૂપ નિગ્રહ સ્પષ્ટ જ છે. કહેવાનો આશય એ છે કે જે રીતે ગરીબને ઉપદેશ દેવાય તેવી રીતે શ્રીમંતને ઉપદેશ દેવાય...” આ પ્રમાણે આચારાંગ સૂત્રમાં જે જણાવેલું છે તે ધર્મની દેશના કરવામાં સાધુ નિસ્પૃહ હોય તેનું જ માત્ર સૂચન કરે છે. (અલગ અલગ ભૂમિકાવાળા તમામ શ્રોતાને એક સરખી રીતે જ ધર્મદેશના દેવી. આ વાતનું ઉપરોક્ત આચારાંગસૂત્રથી સૂચન થતું નથી. આનું કારણ એ છે કે) આચારાંગ સૂત્રમાં ઉપરોક્ત સૂત્ર પછી તરત જ ‘રાજા વગેરેના અભિપ્રાયને અનુસરવામાં ન આવે તો પ્રત્યક્ષમાં અનેક દોષ સંભવે છે’ એમ જણાવીને શ્રોતા વગેરેની તેમજ દેશ-કાળ વગેરેની યથાર્થ જાણકારી હોય તો જ ધર્મદેશનાનો અધિકાર પ્રાપ્ત થાય છે. આ પ્રમાણે અભિવ્યક્ત કરેલ છે. આચારાંગસૂત્રમાં જણાવેલ છે કે → રાજાના અભિપ્રાયને
-
=
-
१. हस्तादर्शे 'सूत्र' इति अशुद्धः पाठः । २. अपि च हन्यादनाद्रियमाणेऽत्रापि जानीहि श्रेय इति नास्ति कोऽयं पुरुषः ? कं च नतः ? ३. हस्तादर्शे 'अविग्रहणे' इत्यशुद्धः पाठः । मुद्रितप्रतौ 'अविग्गहणे' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org