SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ • कुशीलताविमर्शः . 'वा कुशीलता प्रसज्यते । किम्भूता ? सन्मार्गद्रुमाणां दाहाय (=सन्मार्गद्रुमदाहाय) वह्निज्वाला, अनाभोगेनापि स्वतः परेषां मार्गभेदप्रसङ्गस्य प्रबलापायहेतुत्वादिति भावः ।।२।। = जिह्वाकुशीलता प्रसज्यते । तदुक्तं महानिशीथे → अदिट्ठासुयाइं इह-परलोगोभयविरुद्धाइं सदोसाइं मयार-जयारुच्चारणाइं अयसऽब्भक्खाणाऽसंताभिओगाइं वा भणंते असमयन्नू धम्मदेसणाऽवत्तणाणे (पाठान्तरंधम्मदेसणापवत्तणेण) य जिब्भाकुसीले णेए - (म.नि.३/१२०) इति । उन्मार्गदेशनादेव स वक्ता साम्मोही भावनामुपगच्छति। यथोक्तं बृहत्कल्पभाष्ये → उम्मग्गदेसणा, मग्गदूसणा, मग्गविपडिवत्ती । मोहेण य मोहित्ता संमोहं भावणं कुणइ ।। - (बृ.क.भा.१३२१) इति । तदुक्तं मरणविभक्तिप्रकीर्णके अपि → उम्मग्गदेसणा नाणदूसणा मग्गविप्पणासो य। मोहेण मोहयंतंसि भावणं जाण सम्मोहं ।। 6 (म.वि.६५) इति। पञ्चकल्पभाष्ये अपि → उम्मग्गदेसणाए मग्गविपडिवादए । परं मोहेण रंजंतो महामोहं पकुव्वति ।। 6 (पं.क.भा.१३५७) इत्युक्तम् । ___मूलग्रन्थस्थो वाकारो न भजनायां किन्तु व्यवस्थायाम् । उन्मार्गनयनलक्षणं परस्थानदेशनाफलं श्रोत्रपेक्षया, दारुणविपाकाऽऽक्षेपिका कुशीलता तु सद्धर्मदेशकापेक्षयेति व्यवस्था प्रकृतेऽवगन्तव्या । प्रबलापायहेतुत्वात् = अन्धगोलापॅलन्यायेन अत्यन्तदारुणविपाककारणत्वात् । न च परस्थानदेशनातोऽपि कदाचित् कस्यचित् सञ्जायत एव लाभ इति वाच्यम्, शरपुरुषीयन्यायेन जायमानस्य लाभस्याऽत्राऽनभिप्रेतत्वात् । → शरश्च क्षिप्तः प्राकाराच्च पुरुष उत्थितः, स तेन हतः । तत्तुल्यं = शरपुरुषीयम् - (ग.म.३ ।१९६) इति गणरत्नमहोदधौ वर्धमानः। अत एवोक्तं योगशतके श्रीहरिभद्रसूरिभिः → उवएसोऽविसयम्मी विसए वि अणीइसो अणुवएसो । बंधनिमित्तं णियमा जहोइओ पुण भवे जोगो।। गुरुणो अजोगिजोगो अच्चंतविवागदारुणो णेओ । जोगीगुणहीलणा णट्ठणासणा धम्मलाघवओ ।। 6 (यो.श.३६/३७) इति । अत एवैतादृशदेशनाकरणापेक्षया तदकरणमेव श्रेयः । तदुक्तं योगशतकवृत्तौ → अकृतोऽविधिकृताद् वरम्, असच्चिकित्सोदाहरणात् + (यो.श.वृ.गा.५) इति । तदुक्तं सम्बोधसप्ततौ अपि → जह भोयणमविहिकयं विणासइ विहिकयं जीयावेइ । तह अविहिकओ धम्मो देइ भवं विहिकओ मुक्खं ।। - (सं.स.३५) इति । बौद्धानामपि सम्मतमिदम् । तदुक्तं संयुत्तनिकाये → अकतं दुक्कटं सेय्यो, पच्छा तपति दुक्कटं - (सं.नि.१/२/८) । एतेन → यः कश्चित् कुरुते धर्मं विधिं हित्वा दुरात्मवान् । न तत्फलमवाप्नोति कुर्वाणोऽपि विधिच्युतः ।। - (ल.हा.३/३) इति लघुहारितस्मृतिवचनमपि व्याख्यातम् । સમાન બને છે. આનું કારણ એ છે કે અનાભોગથી પણ પોતાનાથી બીજાઓને માર્ગભેદ થાય એ મિથ્યાત્વ વગેરે સ્વરૂપ ભયંકર નુકશાનનું કારણ છે. (૨૨) વિશેષાર્થ :- શ્રોતાની ભૂમિકાથી વિપરીત ધર્મદેશના શ્રોતાને ભવાટવીમાં ઉન્માર્ગે ઢસડી જાય છે. તથા તેમાં મુખ્ય નિમિત્ત બનવાને લીધે ધર્મદેશકને કુશીલતા નામનો દોષ વળગે છે. અજાણતાં પણ બીજાને માર્ગભ્રષ્ટ કરવામાં નિમિત્ત બનવાથી તે વક્તા ગાઢ મિથ્યાત્વને બાંધે છે. માટે ધમદશકે १. हस्तादर्श '..च्च कु...' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्रसद्यते' इत्यशुद्धः पाठः । ३. हस्तादर्श 'भोगेना..' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy