________________
८०
• चरकसंहितासंवादः .
द्वात्रिंशिका-२/२ धर्मदेशनाऽपि' मध्यमादियोग्या बालादीनां न गुणाय, इति यथास्थानमेतन्नियोगो' न्याय्यः ।।१। विपक्षे बाधमाहउन्मार्गनयनात् पुंसामन्यथा वा कुशीलता । सन्मार्गद्रुमदाहाय वह्निज्वाला प्रसज्यते ।।२।।
उन्मार्गेति । अन्यथा = यथास्थानं देशनाया अदाने पुंसां ध्यांध्यकरणद्वारेण उन्मार्गनयनात् प्रभवति। तदुक्तं चरकसंहितायां → वाक्चेष्टयोरसामर्थ्य वीक्ष्य बालेषु शास्त्रवित् । भेषजं स्वल्पमात्रं तु यथाव्याधि प्रयोजयेत् ।। अत्यर्थस्निग्ध-रूक्षोष्णमम्लं कटुविपाकि च । गुरु चौषधपानान्नमेतद् बालेषु गर्हितम् ।।
6 (च.सं.६/३०/२८४-२८६) इति । यथोक्तं त्रिषष्टिशलाकापुरुषचरित्रे श्रीहेमचन्द्रसूरिभिः अपि → व्याधेरन्यस्य न ह्यन्यदौषधं जातु शान्तिकृत् + (त्रि.श.पु. ११६४१) इति । तथा = तेनैव प्रकारेण सर्वज्ञोपदिष्टत्वेन गणधरादिग्रथितत्वेन च स्वरूपतो राग-द्वेष-मोहनाशनसमर्था अपि धर्मदेशना मध्यमादियोग्या बालादीनां श्रोतॄणां न गुणाय = नैवात्मगुणवैभवोपलब्धये प्रभवति । यथौषधमपि सदेवोपदिश्यते वैद्यन, अन्यथा 'हिमवति दिव्यौषधयः शीर्षे सर्पः समाविष्टः' इति न्यायेन वैद्यस्याऽप्यनादेयत्वमेव स्यात् । एवमेव शक्यमेवोपदेष्टव्यं गुरुणा, अन्यथाऽनादेयवचनत्वापत्तेः । रुग्णं प्रति वैद्यस्येव श्रोतारं प्रति देशकस्य भाषाऽपि तदवगमयोग्यतानुसारेणैव प्रयोक्तव्या, अन्यथा अरण्यरुदनन्यायेन कथनेऽप्यकथनसमतापत्तिः । इति हेतोः यथास्थानं = बालादिस्थानानुसारेण एतन्नियोगः = सद्धर्मदेशनाव्यापारः न्याय्यः = न्यायोपेतः । तदुक्तं षोडशके →
बालादिभावमेवं सम्यग् विज्ञाय देहिनां गुरुणा । सद्धर्मदेशनाऽपि हि कर्तव्या तदनुसारेण ।। हितमपि वायोरहितं तत् श्लेष्मणो यथाऽत्यन्तम् । सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति ।।
- (षो.१/१३-१५) इति । यथोक्तं परिशिष्टपर्वणि अपि → बुध्येत यो यथा जन्तुः तं तथा बोधयेदिति - (प.प.२/२९३) ।।२/१।।
यथास्थानं देशनाया अदाने = स्थानवैपरीत्येन धर्मदेशनाया दाने पुंसां = श्रोतॄणां ध्यान्ध्यकरणद्वारेण = अपरिणामातिपरिणामलक्षणमत्यन्धताविधानद्वारा भवकानने उन्मार्गनयनात् धर्मदेशकस्य कुशीलता વગેરે કક્ષામાં રહેલ શ્રોતાને યોગ્ય એવી ધર્મદેશના પણ બાલ વગેરે કક્ષામાં રહેલ શ્રોતાને લાભ માટે થતી નથી. માટે શ્રોતાની કક્ષાને અનુસરીને ધર્મદેશના આપવી એ યોગ્ય છે. (૨/૧) જો ધર્મદેશના શ્રોતાની કક્ષાને અનુરૂપ આપવામાં ન આવે તો તેનાથી થતા નુકશાનને ગ્રંથકારશ્રી બતાવે છે.
હ ઉન્માગદિશક કુશીલ બને છે ગાથાર્થ :- યથાસ્થાન દેશના આપવામાં ન આવે તો શ્રોતાને ઉન્માર્ગે લઈ જવાના કારણે કુશીલતા દોષ લાગે. સન્માર્ગ રૂપી વૃક્ષોને બાળવા માટે કુશીલતા અગ્નિજ્વાલા સમાન બને છે. (૨૨)
ટીકાર્થ:- શ્રોતાની કક્ષાને અનુસરીને ધર્મદેશના આપવામાં ન આવે અર્થાત શ્રોતાની કક્ષાથી વિપરીત રીતે ધર્મદશના આપવામાં આવે તો શ્રોતાની બુદ્ધિને અંધ કરવા દ્વારા તેઓને ઉન્માર્ગે લઈ જવાથી ધર્મદશકને કુશીલતા દોષ પ્રાપ્ત થશે. આ કુશીલતા સન્માર્ગરૂપી વૃક્ષને બાળવામાં અગ્નિની જ્વાલા १. हस्तादर्श ....शनादि' इति पाठः । २. हस्तादर्श ...योग्या' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org