SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ • सर्वतन्त्रेषु दानस्य धर्मत्वाभ्युपगमः • ७५ इत्थं दानविधिज्ञाता धीरः पुण्यप्रभावकः । यथाशक्ति ददद्दानं परमानन्दभाग भवेत् ।।३२॥ इत्थमिति स्पष्टः ।।३२।। ॥ इति दानद्वात्रिंशिका ।।१।। धर्मपरीक्षावृत्तौ चैदम्पर्यार्थशुद्धिरुपदर्शितेति प्रतिभाति ।।१/३१ ।। ____ दानद्वात्रिंशिकामुपसंहरति 'इत्थमिति स्पष्टः । नवरं परमानन्दभाक् = सुस्थिराऽविकल-निष्कलसच्चिदानन्दभाजनं भवेत् । अत्र → तस्मा विनेय्य मच्छेरं दज्जा दानं मलाभिभू । पुञानि परलोकस्मि पतिट्ठा होन्ति पाणिनं ।। - (सं.नि. नानातित्थियवग्ग-सेरीसुत्त १।१।३।३।१०४-पृष्ठ-७३) इति संयुक्तनिकायवचनमपि स्मर्तव्यम् । ‘विनेय्य = विनीय, दूरीकृत्येति यावत्, पतिट्ठा = प्रतिष्ठा, आधार इति यावत् । शिष्टं स्पष्टम् । प्रकृते → शिक्षा क्षयं गच्छति कालपर्ययात् सुबद्धमूला निपतन्ति पादपाः। जलं जलस्थानगतं च शुष्यति हुतं च दत्तं च तथैव तिष्ठति ।। - (क.भा.१/२२) इति कर्णभारवचनं, → दानेन तुल्यो निधिरस्ति नान्यः - (पं.तं.२/१५५) इति पञ्चतन्त्रवचनं, → दानान्नातिदुष्करं तस्माद् दाने रमन्ते (तै.आ.१०/६२) इति तैत्तिरीयाऽरण्यकवचनं, → दानं नाम महानिधानमतुलम् - (जा.मा.२१) इति जातकमालावचनं, → दानमेव कलौ युगे - (स्क.पु.मा.कौ.४०/ १७५) इति स्कन्दपुराणवचनं, → न दानेन विना यशः - (स.रं.४२) इति सभारञ्जनशतकवचनं, → दानं धर्मः 6 (चा.सू.१५५) इति चाणक्यसूत्रवचनं च न विस्मर्तव्यम्। → क्षेत्र-द्रव्य-प्रभृतिसमयान् वीक्ष्य बीजं यथोप्तं दत्ते सस्यं विपुलममलं चारुसंस्कारयोगात् । दत्तं पात्रे गुणवति तथा दानमुक्तं फलाय, सामग्रीतो भवति हि जने सर्वकार्यप्रसिद्धिः ।। 6 (सु. रत्न.४८९) इति सुभाषितरत्नसन्दोहे अमितगतिसुभाषितमप्यत्र सिंहावलोकनन्यायेनाऽवलोकनीयमिति शम् ।।१/३२ ।। द्वि-त्रि-पञ्च-षडष्टादिभेदात् कादिभेदतः । दानमुक्तं सदा कार्य भूमिकौचित्यतो मुदा ।।१।। इति मुनियशोविजयविरचितायां नयलतायां दानद्वात्रिंशिकाविवरणम् ।।१।। ગાથાર્થ - આ પ્રમાણે દાનની વિધિનો જાણકાર, ધીર, પુણ્યપ્રભાવક તેમજ યથાશક્તિ દાનને हेन।२ ५२मानहनु मान बने छे. (१/३२) ટીકાર્થ :- પ્રસ્તુત ગાથાનો અર્થ સ્પષ્ટ હોવાથી ગ્રંથકાર ઉપાધ્યાયજી મહારાજે આ ગાથા ઉપર વિવરણ કરેલ નથી. પરંતુ અહીં ચાર બાબત ઉપર દાતારે ધ્યાન આપવું જરૂરી છે. (૧) દાનની विपिन वी, (२) अधी॥ न थj(3) पुष्यनी - धनी - सननी भावना थाय ते शत દાન કરવું અને (૪) પોતાની શક્તિને છુપાવ્યા વિના દાન કરવું. આ ચાર કલમનો અમલ કરીને જે વિમલ દાનધર્મનું સેવન કરે છે તે નિર્મલ મોક્ષને પ્રાપ્ત કરે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy