________________
७४
• नद्युत्तारादिकालीनविराधनाविचारः
द्वात्रिंशिका - १/३१
कृतयोगिनो गीतार्थस्य कारणवशेन यतनयाऽपवादपदमासेवमानस्य या विराधना सा सिद्धिफला भवति ” (पिं.नि.७६० वृत्ति) इति पिण्डनिर्युक्तिवृत्ती । न चेयमनाभोगजन्या वर्जनाभिप्रायवती वा किन्तु ज्ञानपूर्वकत्वेनर्जुसूत्रनयमतेन विलक्षणैव सती व्यवहारनयमतेन च विलक्षणकारणसहकृता सती बन्धहेतुरपि निर्जराहेतुः, घटकारणमिव दण्डो घटभङ्गाभिप्रायेण गृहीतो घटभङ्गे । अत एवेयमनुबन्धतोऽहिंसारूपा सत्यैदम्पर्यार्थापेक्षया ‘न हिंस्यात् सर्वाणि भूतानि' ( म.भा. शांति . २८४ / ६) इति निषेधार्थलेशमपि न स्पृशति, अविधिहिंसाया एवात्र निषेधाद् विधिपूर्वकस्वरूपहिंसायास्तु सदनुष्ठानान्तर्भूतत्वेन परमार्थतो मोक्षफलत्वात् ।...वर्जनाभिप्रायमात्रस्याऽऽज्ञाबाह्यानुष्ठानेऽपि सत्त्वान्नोत्तेजकत्वम् इत्याज्ञाशुद्धभावस्येहोत्तेजकत्वं वाच्यम् । स च विशिष्टनिर्जरामात्रे स्वतन्त्रकारणमिति न तस्येहोत्तेजकत्वं युज्यते, अन्यथा दण्डाभावविशिष्टचक्रत्वादिनाऽपि घटादौ प्रतिबन्धकता कल्पनीया स्यादिति न किञ्चिदेतत् । तस्मादाज्ञाशुद्धभाव एव सर्वत्र संयमरक्षाहेतुर्न त्वनाभोगमात्रम्, इति नद्युत्तारेऽपि यतीनां तत एवादुष्टत्वं, न तु जलजीवानाभोगादिति स्थितम् ← ( धर्मपरीक्षा. गा. ५३ वृत्ति ) इति ।
ननु धर्मपरीक्षावृत्ती ' न चेयमनाभोगजन्या वर्जनाभिप्रायवती वा' इत्युक्त्या अपवादपदप्रत्ययायां जीवविराधनायां वर्जनाभिप्रायविरहं वर्जनाभिप्राये च निर्जराकारणत्वविरहं प्रदर्श्य निर्जरां प्रति आज्ञाशुद्धभावस्यैव निश्चयतः कारणत्वमुक्तम्, इह च 'वर्जनाभिप्रायस्यैव फलविशेषे निश्चयतो हेतुत्वमित्युक्तमिति कथं नानयोः विरोध इति चेत् ? अत्र अस्मद्विद्यागुरुचरणाः श्रीअभयशेखरसूरयः वदन्ति → अगीतार्थानामाज्ञाबाह्यायां विराधनायां वर्जनाभिप्रायस्य सत्त्वेऽपि निर्जरानुदयान्न वर्जनाभिप्रायसामान्यस्य निर्जराकारणत्वं सम्भवति । अपवादपदप्रत्ययायामपि विराधनायां ' अहं नद्युत्तारादिरूपां विराधनां चर्जयामी'ति व्यवहारनयाभिप्रेतो वर्जनाभिप्रायो नास्ति । यद्यपि 'एगं पायं जले किच्चा' (बृ.क.उ.४/३३, क. सू. ९/२४५, आचा.चू.१/३/१/११८) इति बृहत्कल्पसूत्र - कल्पसूत्राऽऽचाराङ्गसूत्राद्युक्तविधिपरिपालनपूर्णस्य साधोः व्यापारे प्रभूतजीवरक्षानुकूलत्वसत्त्वात् रक्ष्यमाणजीवघातवर्जनाभिप्रायः समस्त्येव, तथापि अशक्यपरिहारायाः तथाविधजीवविराधनाया व्यावहारिको वर्जनाभिप्रायस्तु तदानीं साधोर्नास्त्येव अन्यथा नद्युत्ताराद्यनापत्तेः । अतो व्यावहारिकवर्जनाभिप्रायस्यापि निर्जराजनकत्वं नास्तीति धर्मपरीक्षावृत्त्युत्तानार्थः । इह च न व्यावहारिके वर्जनाभिप्राये किन्तु आज्ञाशुद्धिपरिकलिततया नैश्चयिके वर्जनाभिप्राये 'अनन्यगतिकतयाऽपवादतो विहितेन यतनया क्रियमाणेन नद्युत्तारादिना रत्नत्रयमाराध्य कर्माष्टकं क्षपयित्वा मुक्तिं गत्वा सर्वान् जीवान् सर्वदा सर्वत्र रक्षेयमित्यादिरूपे निर्जराविशेषकारणत्वमावेदितमिति न कश्चिद् दोषलेशोऽपि ।
किञ्च यथा स्थूलव्यवहारेण 'घृतं शरीरं दहती' त्युच्यते तथैवापवादिकविराधनास्थलेऽपि 'विराधना कर्माणि निर्जरयतीत्युच्यते । यथा सूक्ष्मव्यवहारेण 'उष्णं घृतं देहं दहती 'त्युच्यते तथैव ‘वर्जनाभिप्रायविशिष्टा विराधना कर्माणि निर्जरयतीत्युच्यते । यथा च वस्तुगत्या 'घृतगता तीव्रा उष्णता देहं दहती'त्युच्यते तथैव 'आपवादिकविराधनासहचरितो विशुद्धो वर्जनाभिप्रायः कर्माणि निर्जरयतीत्युच्यते । प्रकृतग्रन्थे वर्जनाभिप्रायविशिष्टविराधनां परित्यज्य तात्त्विकवर्जनाभिप्रायस्य निर्जराविशेषकारणता वस्तुलक्षितनिश्चयनयेनैवोद्धुष्यते । धर्मपरीक्षावृत्तौ तु आज्ञाविशुद्धभावविशिष्टवर्जनाभिप्रायं परित्यज्य आज्ञाविशुद्धभावस्यैव निर्जराविशेषकारणत्वमात्मलक्षितनिश्चयनयेन प्रकटीकृतमिति प्रस्तुतग्रन्थे महावाक्यार्थशुद्धिर्दर्शिता
Jain Education International
For Private & Personal Use Only
•
www.jainelibrary.org