________________
• स्वरूपतोऽसावद्ये भजनोपदर्शनानावश्यकता •
५७ त्वात्, स्वरूपतोऽसावध भजनाव्युत्पादनस्य 'अनतिप्रयोजनत्वाच्चेति सङ्क्षपः ।।२६।। इत्यर्थो लभ्यते । ततश्च → 'गृहस्थैः स्वार्थमुपस्कृतान्यन्नादीनि भुञ्जन् कर्मणा लिप्यते एव नैव वा लिप्यते' इति नो वदेत्, रागादिना यथाकृतानि भुजन् कर्मणा लिप्यते अन्यथा तु न इत्येवंस्वरूपैव भजना सूत्रकृताङ्गेऽभिमता, न तु आधाकर्मिकमाश्रित्य, तस्यैकान्तेनैव दुष्टत्वादित्याशङ्कायां ग्रन्थकार आह- स्वरूपतः = निजस्वरूपमाश्रित्य असावद्ये = साध्वपेक्षया निर्दोषे भजनाव्युत्पादनस्य = निरुक्तव्यवस्थाद्वितयप्रतिपादनस्य अनतिप्रयोजनत्वात् = अनावश्यकत्वात् । ‘स्वरूपतोऽसावद्यस्योपभोगे एकान्तेन कर्मबन्धस्स्यादेवेति शङ्काया अनुत्थानपराहतत्वात् । आधाकर्मिकस्य दुष्टत्वप्रसिद्धेः ‘आधाकर्माणि भुजन् किं कर्मणा सर्वथा लिप्यत एव यदुत नाप्युपलिप्यते' इत्येवंरूपाया एव शङ्कायाः सम्भवात् 'पुष्टालम्बनमाश्रित्य विधि-यतनादियुक्त आधाकर्माणि भुजन् न लिप्यते, पुष्टालम्बनविरहे तु तानि भुञ्जन् स्वकर्मणोपलिप्यत एवे'तिस्वरूपाया एव भजनायाः प्रदर्शयितुं युक्तत्वादिति सम्यगेकान्तगुम्फितस्याद्वादमवलम्ब्य भावनीयम् ।
तदुक्तं उपदेशरहस्यवृत्तौ → 'आधाकर्माणि ये भुञ्जन्ते तान् अन्योन्यं = परस्परं स्वकीयेन कर्मणा उपलिप्तान् विजानीयादि'त्येवं नो वदेत् । तथा ‘अनुपलिप्तान्' इति वा न वदेत्, श्रुतानुपदेशोपदेशाभ्यां तत्र कर्मबन्धाऽबन्धोपपत्तेः ‘आधाकर्मिकभोगे स्यात् कर्मबन्धः स्यान्ने'ति वक्तुं युक्तत्वादिति (उप.रह. १०१कृ.) । आधाकर्मिकस्यैकान्तदुष्टत्वे → बाल-वुड्ढे सेहे अगीयत्थे नाण-दंसणप्पेही । दुब्बलसंघयणम्मि य गच्छि पइन्नेसणा भणिया ।। - (बृ.क.भा.१६९३) इति बृहत्कल्पभाष्यवचनम्, → आहाकम्मपरिणओ फासुयभोइ वि बंधओ होइ । सुद्धं गवेसमाणो आहाकम्मे वि सो सुद्धो ।। (पिं.नि.२०७) इति पिण्डनियुक्तिवचनं, → असिवे ओमोयरिए रायदुढे भए व गेलन्ने । अद्धाण रोहए वा धितिं पडुच्चा व आहारे ।। - (नि.भा.२६८४) इति च निशीथभाष्यवचनमनुपपन्नमेव स्यात्। तदुक्तं दर्शनशुद्धिप्रकरणे अपि → फासुअ-एसणीएहिं फासुअओहासिएहिं कीएहिं । पूईइ मीसएण य आहाकम्मेण जयणाए ।। - (द.शु.१२९) इति । अशठभावेन पुष्टालम्बनतयाऽऽधाकर्मादिभोगकृतोऽपि न कर्मबन्ध इति → सालंबणो पडतो अत्ताणं दुग्गमे वि धारेइ । इय सालंबणसेवी धारेई जई असढभावं ।। - (आ.नि.११८६) इति आवश्यकनियुक्तिवचनतात्पर्यविभावनादप्यवसीयते । तानि च पुष्टाऽऽलम्बनानि व्यवहारसूत्रभाष्ये प्रवचनसारोद्धारे च → काहं अछित्तिं अदुवा अहीहं तवोवहाणेसु य उज्जमिस्सं । गणं वा नीईसु य सारईस्सं सालंबसेवी समुवेइ मोक्खं ।। - (व्य.सू.१/१८३, प्र.सारो.७७९) इत्येवमुથાય જ” – એવી શંકાને કોઈ અવકાશ રહેતો નથી. માટે તેને વિશે વૈકલ્પિક વ્યવસ્થાનું નિરૂપણ કરવામાં કશું જ પ્રયોજન રહેતું નથી. માટે અમે જે પ્રમાણે ઉપરોક્ત સૂત્રનો અર્થ કર્યો છે તે જ યોગ્ય છે. તેના સિવાયનો અર્થ માનવો તે યોગ્ય નથી. આવું સંક્ષેપમાં જાણવું. (૧૬)
વિશેષાર્થ:- આધાર્મિક આહાર આદિ દોષયુક્ત તરીકે પ્રસિદ્ધ છે. તેથી “નિર્દોષ ગોચરી વાપરનાર સાધુ કર્મથી લેપાય કે ન લેપાય ?” એવી શંકાને અવકાશ રહેતો નથી. પરંતુ “આધાર્મિક ગોચરી વાપરનાર સાધુ શું કર્મ વડે સર્વથા લેપાય જ છે કે નથી પણ લેવાતા ?” - આવા પ્રકારની જ १. हस्तादर्श ‘अतिप्र....' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org