________________
● आधाकर्मनिमित्तकलेपाऽलेपविचारः •
द्वात्रिंशिका-१/२६
अत्र ह्याधाकर्मिकस्य फले भजनैव व्यक्तीकृता, 'अन्योऽन्यं' पदग्रहणेनार्थान्तरस्य कर्त्तुमशक्यश्रुतोपदेशमन्तरेणाहारगृद्ध्याऽऽधाकर्म भुञ्जानस्य तन्निमित्तककर्मबन्धसद्भावात् । अतः ‘अनुपलिप्तान्’ अपि नो वदेत्। यथावस्थितमौनीन्द्रागमज्ञस्य त्वेवं युज्यते वक्तुं 'आधाकर्मोपभोगेन स्यात् कर्मबन्धः स्यान्नेति । यतः उक्तं किञ्चिच्छुद्धं कल्प्यमकल्प्यं वा स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा' । । (प्रशमरति - गा. १४६ ) तथाऽन्यैरप्यभिहितम् ' उत्पद्यते हि सावस्था देशकालाऽऽमयान् प्रति । यस्यामकार्यं कार्यं स्यात् कर्म कार्यं च वर्जयेत् ।।' (चरकसंहिता- ९/३/२६) इत्यादि ← (सू.कृ.२/५/८ वृत्ति) ।
अग्रे च सूत्रकृताङ्गे → एएहिं दोहिं ठाणेहिं ववहारो ण विज्जई । एएहिं दोहिं ठाणेहिं अणायारं तु जाणए ।। ← (सूत्रकृ. २/५/९) इत्युक्तम् । तद्व्याख्या चैवं किमित्येवं स्याद्वादः प्रतिपाद्यत इत्याह- आभ्यां द्वाभ्यां स्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्धभावा - भावभूतयोर्व्यवहारो न विद्यते । तथाहि यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत एव - ञ्चाहाराभावेनापि क्वचित्सुतरामनर्थोदयः स्यात् । तथाहि - क्षुत्प्रपीडितो न सम्यगीर्यापथं शोधयेत् । ततश्च व्रजन् प्राण्युपमर्दमपि कुर्यात् । मूर्च्छादिसद्भावतया च देहपाते सत्यवश्यम्भावी त्रसादिव्याघातः । अकालमरणे चाविरतिरङ्गीकृता भवति । आर्त्तध्यानापत्तौ च तिर्यग्गतिरिति । आगमश्च 'सव्वत्थ संजमं, संजमाओ अप्पाणमेव रक्खेज्जा' ( ओघनिर्युक्ति - ४६ ) इत्यादिनाऽपि तदुपभोगे कर्मबन्धाभाव इति । तथा आधाकर्मण्यपि निष्पाद्यमाने षड्जीवनिकायवधस्तद्वधे च प्रतीतः कर्मबन्ध इत्यतोऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यवहरणं व्यवहारो न युज्यते । तथाभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम् ← (सू. कृ. २ / ५ / ९ वृत्ति) ।
=
ननु आधाकर्माणि भुञ्जन्तः परस्परं तुल्यरूपेण स्वकर्मणा लिप्यन्ते तान्यभुञ्जन्तः तु स्वकर्मणा नैव लिप्यन्त इत्येवं सूत्रकृताङ्गसूत्राभिप्रायादाधाकर्मिकस्यैकान्तदुष्टत्वमेव लभ्यत इति चेत् ? मैवम्, सूत्रे ' अन्योन्यं' पदग्रहणेन 'तानि भुञ्जन्तः लिप्यन्तेऽभुञ्जन्तः तु न लिप्यन्ते' इत्येवं अर्थान्तरस्य कर्तुमशक्यत्वात् । ततश्च 'आधाकर्माणि भुञ्जन्तः परस्परं स्वकर्मणा तुल्यरूपेण लिप्यन्त एव यद्वा तान्यभुञ्जन्तो मिथः स्वकर्मणा नैव लिप्यन्त' इति तु नो वदेद् इत्येवं भजना सूत्रेऽभिमता ।
५६
ननु 'अहागडाईं' इत्यतः तु 'यथाकृतानि' इत्यर्थः पाठान्तरे 'अहाकम्माणि' इत्यतः ‘यथा कर्माणि’ 'अहाकम्माणि' खेवो पाठान्तर स्वीअश्वामां आवे तो तेनी संस्कृत छाया 'यथाकर्माणि' या प्रभाशे થાય. ગૃહસ્થે પોતાના માટે જે આહાર આદિ બનાવેલ હોય તે ‘યથાકૃત’ અથવા ‘યથાકર્મ’ કહેવાય. તેને વા૫૨વાથી સાધુ કર્મથી લેપાય જ અથવા ન જ લેપાય' - આવું એકાંતે ન બોલવું કારણ કે બેતાલીશ દોષથી રહિત યથાકૃત આહાર આદિને રાગાદિથી વાપરનાર સાધુ પોતાના કર્મથી લેપાય છે. અને રાગાદિ વિના, કારણે, નિર્દોષ આહાર આદિને વાપરનાર સાધુ કર્મથી લેપાતા નથી.” યથાકૃત આહાર આદિને આશ્રયીને આવી વ્યવસ્થા સૂયગડાંગસૂત્રમાં અભિમત છે. નહિ કે આધાકર્મિકને આશ્રયીને. કારણ કે આધાકર્મિક આહાર આદિ તો એકાંતે દુષ્ટ જ છે. - આવી શંકા નિરાધાર હોવાનું કારણ એ છે કે) સ્વરૂપથી સાધુની અપેક્ષાએ નિર્દોષ એવા આહાર આદિને ઉદ્દેશીને તેનાથી એકાંતે કર્મબંધ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org