________________
५२
• दानदूषणकथनम् .
द्वात्रिंशिका-१/२५ त्रयं जघन्यायुष्फलं भवति अथवा इहाऽऽपेक्षिकी अल्पायुष्कता ग्राह्या, यतः किल जिनागमाभिसंस्कृतमतयो मुनयः प्रथमवयसं भोगिनं कञ्चन मृतं दृष्ट्वा वक्तारो भवन्ति 'नूनमनेन भवान्तरे किञ्चिदशुभं प्राणिघातादि चासेवितम्, अकल्प्यं वा मुनिभ्यो दत्तं येनाऽयं भोग्यपि अल्पायुः संवृत्त' इति । अन्ये त्वाहुः “यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिना आधाकर्मादिकरणेन च प्राणातिपातादिषु वर्तते । तस्य वधादिविरति-निरवद्यदाननिमित्तायुष्कापेक्षया इय-मल्पायुष्कतावसेया” । ......अथवा इहाऽप्रासुकदानमल्पायुष्कतायां मुख्यं कारणं, इतरे तु सहकारिकारणे इति व्याख्येयम्, प्राणातिपातन-मृषावादयोर्दानविशेषणत्वात् । तथाहि - प्राणानऽतिपात्याऽऽधाकर्मादिकरणतो मृषा उक्त्वा यथा ‘भोः ! साधो ! स्वार्थमिदं सिद्धं भक्तादि कल्पनीयं वः । अतो नानेषणीयमिति शङ्का कार्या' इति । ततः प्रतिलभ्य तथा कर्म कुर्वन्ति इति प्रक्रम इति । गम्भीरार्थञ्चेदं सूत्रम् । अतोऽन्यथाऽपि यथागमं भावनीयम् - (भ.श.५/उ.६/प्रश्न-१/३ वृत्ति) इत्येवं वर्तते ।
हिंसाया अशुभदीर्घायुष्कत्व-शुभायुरल्पत्वहेतुता सौगतानामपीष्टा । तदुक्तं मज्झिमनिकाये क्षुद्रकर्मविभङ्गसूत्रे → एकच्चो इत्थी वा पुरिसो वा पाणातिपाती होति लुद्धो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु । सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति अप्पायुको होति । अप्पायुकसंवत्तनिका एसा 6 (म.नि.३/४/५/२९०,पृ.३५१) इत्यपि यथागममत्र स्व-परसमयरहस्यपारङ्गतैरनुयोज्यम् ।
एवमेव यदपि याज्ञवल्क्यस्मृतौ → अदत्तादाननिरतः परदारोपसेवकः। हिंसकश्चाऽविधानेन स्थावरेष्वभिजायते ।। - (या.व.प्राय. यतिधर्म-१३६) इत्युक्तं तदपि प्रकृते योजनीयम् । अशुभदीर्घायुष्कताकरमवज्ञादिदत्तं दानन्तु मलिनमेव । तदुक्तं → क्षिप्तकालं कृतावसँ सानुतापं विकत्थितम् । हीयमानमनौचित्यं दानमाहुर्मलिमसम् ।। ( ) इति । मनुस्मृतौ अपि → अदेशकाले यद्दानमपात्रेभ्यश्च दीयते। असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ।। - (म.स्मृ.१७/२२) इत्युक्तम् ।
प्रागुक्तसुपात्रदानचतुर्भङ्गीगोचरभगवतीसूत्रव्याख्यायां च अभयदेवसूरिभिः → गुणवते सुपात्रायाऽप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहारतस्तच्चारित्रबाधा च भवति । ततश्च चारित्रकायोपष्टम्भान्निर्जरा जीवघातादेश्च पापं कर्म । तत्र च स्वहेतुसामर्थ्यात् पापापेक्षया बहुतरा निर्जरा निर्जरापेक्षया चाल्पतरं पापं भवति । इह च विवेचका मन्यन्ते - ‘असंस्तरणादिकारणत एवाप्रासुकादिदाने बहुतरा કે તેવું માનવામાં ભગવતીસૂત્ર વગેરેનો વિરોધ આવે- આ વાત ઠાણાંગજીની ટીકા વગેરેમાં સ્પષ્ટ છે.
વિશેષાર્થ- સાધુ મહારાજને દ્વેષ, નિંદા, અપમાન, આશાતના, અવહેલના વગેરે કરીને અપ્રીતિકર આહાર વગેરે વહોરાવવાથી જીવો દીર્ઘ અશુભ આયુષ્ય બાંધે છે. આવું ભગવતીસૂત્ર અને ઠાણાંગજી વગેરેમાં જણાવ્યું છે. સાધુ પ્રત્યેનો દ્વેષ હોવાના કારણે નરક, તિર્યંચ વગેરેનું દીર્ઘ આયુષ્ય બંધાય છે. તથા ગમે તેમ ઉત્તમદ્રવ્ય સાધુ ભગવંતને વહોરાવવાથી મારું કલ્યાણ જ થવાનું છે.” - આવા શુભ ભાવના કારણે મુગ્ધ જીવ ““સાધુ ભગવંતને અનેષણીય આહાર વગેરે આપે તેમાં બહનિર્જરા અને અલ્પ પાપકર્મબંધ થાય છે.” - આ પ્રમાણે જણાવનાર ભગવતીસૂત્રનો વિરોધ ન થાય તે માટે એવું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org