________________
• अल्पायुष्कत्वफलविभावनम् •
दाने अल्पायुष्कहेतुताऽशुभदीर्घायुर्हेतुता' च सूत्रदर्शिता = स्थानाङ्गाद्युक्ता युक्ता, मुग्धाभिनिविष्टयोरेतदुपपत्तेः, शुद्धदायकापेक्षयाऽशुद्धदायके मुग्धेऽल्पशुभायुर्बन्धसम्भवात्, क्षुल्लकभवग्रहणरूपाया अल्पतायाश्च सूत्रान्तरविरोधेनासम्भवादिति व्यक्तमदः स्थानाङ्गवृत्त्यादौ (सू.१२५) ।। २५ ।। मुग्धाभिनिविष्टयोः एतदुपपत्तेः यथाक्रमं अल्पशुभायुष्कताया अशुभदीर्घायुष्कतायाश्च सङ्गतेः । → सत्तरसभवग्गहणा खुड्डागा हुंति एगपाणंमि ← ( क्षुल्ल. ५) इति क्षुल्लकभवावलिप्रकरणे श्रीधर्मशेखरगणना क्षुल्लक भवस्वरूपमुक्तम् । प्रकृते क्षुल्लकभवग्रहणरूपाया अल्पतायाश्च = अल्पायुष्कतायाश्च सूत्रान्तरविरोधेन असम्भवादिति स्थानाङ्गवृत्त्यादाविति । तदुक्तं स्थानाङ्गे तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरिंति । तं जहा (१) पाणे अतिवातित्ता भवति, (२) मुसं वइत्ता भवति, (३) तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण- पाण- खाइम साइमेणं पडिला भित्ता भवइ । इच्चेतेहिं तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरेंति । .... तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति । तं जहा (१) पाणे अतिवातित्ता भवइ, (२) मुसं वइत्ता भवइ, (३) तहारूवं समणं वा माहणं वा हीलेत्ता निंदित्ता खिंसेत्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणुन्नेणं अपीतिकारणेणं असण-पाण- खाइम - साइमेणं पडिलाभेत्ता भवइ । इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगरेंति ← ( स्था. सूत्र अ. ३ / सू. १२५ भगवती- श. ५ उ.६ ) । अत्र श्रीमदभयदेवसूरिव्याख्यालेशः अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु वर्तते तस्य सरागसंयम-निरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कता समवसेया । अथ नैतदेवं, निर्विशेषणत्वात्सूत्रस्य, अल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वात् । अतः कथमभिधीयते - सविशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कतेति ? उच्यते- अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यम्; यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्टां वक्ष्यति । न हि समानहेतोः कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात् । तथा 'समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणीज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! बहुतरिया से निज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइत्ति' (भ.सू.८/६/३३१) भगवतीवचनश्रवणादवसीयते नैवेयं क्षुल्लकभवग्रहरूपाऽल्पायुष्टा । न हि स्वल्पपाप - बहुनिर्ज्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते, जिनपूजनाद्यनुष्ठानस्यापि तथाप्रसङ्गात् ← ( स्था.३/१२५वृ.) इत्येवं वर्तते । एतत्सूत्रद्वितयं भगवत्यां अपि अक्षरशो वर्तते। तत्र च श्रीअभयदेवसूरिव्याख्यालेश: अयमत्र भावार्थ:- अध्यवसायविशेषाद् एतत् આવું સ્થાનાંગ વગેરેમાં જણાવેલું યુક્તિસંગત બને છે. કેમ કે મુગ્ધ અને અભિનિવિષ્ટને આશ્રયીને આ વાત સંગત થઈ શકે છે. સંયતને ભક્તિપૂર્વક શુદ્ધ અન્નપાન આદિ આપનાર દાતારની અપેક્ષાએ અનેષણીય આહાર આદિ આપનાર લુબ્ધકદષ્ટાંતભાવિત એવા મુગ્ધ જીવને અલ્પ શુભ આયુષ્યનો બંધ સંભવિત છે. પ્રસ્તુતમાં ક્ષુલ્લક ભવ પ્રાપ્તિ સ્વરૂપ અલ્પ આયુષ્યનો હેતુ માનવાનું સંભવિત નથી કારણ
=
१. हस्तादर्शे '.... तुतादी...' इति त्रुटितः पाठः । २ हस्तादर्शे 'क्षुल्लकग्रहण...' इत्येवं त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
५१
www.jainelibrary.org