________________
• धर्महेतुभूतपुण्यबन्धस्याऽपवर्गाऽव्याघातकत्वम् • भोगाप्तिरपि नैतस्मादभोगपरिणामतः । मन्त्रितं श्रद्धया पुंसां जलमप्यमृतायते ॥१८॥
भोगाप्तिरिति । भोगाप्तिरपि नैतस्माद् = आपवादिकानुकम्पादानात्, अभोगपरिणामतः = भोगानुभवोपनायकाध्यवसायाभावात् । दृष्टान्तमाह- मंत्रितं जलमपि पुंसां श्रद्धया = भक्त्या अमृतायते = अमृतकार्यकारि भवति ।। पभूयपुण्णेहिं ।। (पु.कु.४) इत्येवं पुण्यकुलके दर्शितं तदपि कुशलानुबन्धिपुण्यापेक्षयाऽवगन्तव्यम् । प्रकृते → भोगास्तावत्पुण्योदयेन सम्पद्यन्ते, किन्तु तदेव पुण्यं द्विविधं पुण्यानुबन्धि पापानुबन्धि च । तत्र ये पुण्यानुबन्धिपुण्योदयसम्पाद्याः शब्दाधुपभोगास्त एव सुसंस्कृत-मनोहर-पथ्यान्नवत्सुन्दरविपाकतया निरुपचरितशब्दादिभोगवाच्यतां प्रतिपद्यन्ते । ते हि भुज्यमाना स्फीततरमाशयं सम्पादयन्ति । ततश्चोदाराभिप्रायोऽसौ पुरुषो न तेषु प्रतिबन्धं विधत्ते । ततश्चासौ तान् भुजानोऽपि निरभिष्वङ्गतया प्राग्बद्धपापपरमाणुसञ्चयं शिथिलयति, पुनश्चाभिनवं शुभतरविपाकं पुण्यप्राग्भारमात्मन्याधत्ते, स चोदयप्राप्तो भवविरागसम्पादनद्वारेण सुखपरम्परया तथोत्तरक्रमेण मोक्षकारणत्वं प्रतिपद्यत इति हेतोः सुन्दरविपाकास्तेऽभिधीयन्ते (उप.भव प्रस्ता. १/पृ.२९) - इति उपमितिभवप्रपञ्चायां कथायां यदुक्तं सिद्धर्षिगणिभिः तदप्यनुसन्धेयम् । सदृष्टिद्वात्रिंशिकायां (भा.६ पृ.१६४६-१६५०) अधिकं वक्ष्यामः ।
शास्त्रवार्तासमुच्चये अपि प्रथमस्तबके प्रकृतशङ्का प्रकारान्तरेण यथा समाहिता तथा ततोऽवसेयम् (शा.वा.स. १/१७-२६)। यदपि पुण्यप्रकृतेः स्वर्णशृङ्खलात्वमन्यत्रोक्तं तदपि लवसत्तमसुरादिपुण्यापेक्षया स्त्र्याधुपभोगोपनायकनिकाचितपुण्यविवक्षया वा भवस्थितिकारित्वावच्छेदेनैव क्लिष्टरागादिपरिणामोपधायकत्वावच्छेदेनैव वा तत्र पर्यवस्यति, न तु मोक्षौपयिकाऽऽवश्यककारणकलापप्रापकत्वावच्छेदेनापि । एतेन → शुद्धा योगा रे यदपि यतात्मनां स्रवन्ते शुभकर्माणि । काञ्चननिगडांस्तान्यपि जानीयात् हतनिर्वृतिशर्माणि ।। 6 (शां.सु.७/७) इति शान्तसुधारसवचनमपि व्याख्यातम्, मुक्तिसुखप्रतिबन्धकत्वावच्छेदेनैव शुद्धयोगेषु स्वर्णशृङ्खलात्वविधानादिति । अधिकं तु पुण्याऽऽवश्यकतानिरूपणं मत्कृतकल्याणकन्दल्याः (षोडशक-३/३- कल्याणकन्दलीवृत्ति-पृ.६६) बोध्यम् ।।१/१७।।
आपवादिकानुकम्पादानात् पुण्यानुबन्धिपुण्यसम्पादित-भोगसामग्रीजन्यभोगक्रियायां क्लिष्टरागादिपरिणतियुक्ता सुखासिकात्मिका भोगाप्तिरपि न भवति, भोगानुभवोपनायकाध्यवसायाभावात् = भोगेषूपादेयत्वसंवेदनोपधायकस्य परिणामस्य विरहात् । ___ मन्त्रितं जलमपि किमुतौषधादिकं, भक्त्या अमृतकार्यकारि = अमृतनिरूपितया कार्यतया निरूपितायाः कारणताया योऽवच्छेदको धर्मः तद्विशिष्टं सत् विषविकारापाकरणादेरमृतकार्यस्योपधायकं भवति ।
ગાથાર્થ - તેનાથી ભોગની પ્રાપ્તિ પણ થતી નથી. કારણ કે તેમાં અભોગનો પરિણામ છે. શ્રદ્ધા द्वारा मंत्रित ४२९ url. ५९ पुषीने अमृतनु म. ४३ छ. (१/१८)
હ ભોગક્રિયામાં અભોગપરિણતિ છે ટીકાર્ય - આપવાદિક અનુકંપાદાનથી (જે પુણ્યાનુબંધી પુણ્ય બંધાય તેનાથી મળનાર ભોગની સામગ્રીથી થતી ભોગક્રિયામાં) ક્લિષ્ટ રાગાદિ પરિણતિ યુક્ત સુખાસિકા સ્વરૂપ ભોગપ્રાપ્તિ પણ થતી નથી. કારણ કે વિષયભોગમાં ઉપાદેયપણાનું સંવેદન ખેંચી લાવે તેવી પરિણતિ હોતી નથી. (ઈન્દ્રિય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org