________________
३८
• पल्यादिदृष्टान्तेन निर्जराविचारः • द्वात्रिंशिका-१/१७ रणात् । न चायं मुक्तिप्रतिपन्थी', दाह्यं विनाश्य वढेरिव तस्य पापं विनाश्य स्वतो नश्वरत्वात् = नाशशीलत्वात् । शास्त्रार्थाऽबाधेन निर्जराप्रतिबन्धकपुण्यबन्धाभावान्नात्र दोष इति गर्भार्थः ।।१७।।
न च अयं = पुण्यानुबन्धिपुण्यबन्धः भोगसामग्र्युपधायकतया मुक्तिप्रतिपन्थी = मोक्षविरोधीति वाच्यम्, कुशलानुबन्धिपुण्योदयलभ्यस्य भोगस्याऽपि वैराग्यहेतुत्वात् । तदुक्तं वैराग्यकल्पलतायां ग्रन्थकृतैव → पुण्यानुबन्धिपुण्यं दत्ते वैराग्यकारणं भोगम् + (वै.क.ल. २/५७) इति ।
इत्थमेव तस्य भोगेन्धनं प्रति दहनकल्पताऽपि सङ्गच्छतेतराम्; दाह्यं काष्ठादिकं विनाश्य वनेरिव तस्य = पुण्यानुबन्धिपुण्यस्य पापं विनाश्य स्वतः = स्वभिन्नं स्वनाशकमनपेक्ष्य नाशशीलत्वात्। अतो न नाशकविलम्बात्तन्नाशे विलम्बः । ततो न ततो भीतिः कार्या, प्रस्थप्रक्षेपेन पल्यात् कुम्भशोधनोदाहरणेन संयतस्याऽल्पबन्धकत्व-बहुकर्मशोधकत्वोक्तेः ।
तदुक्तं निशीथभाष्ये → अन्नो पुण पल्लातो कुंभं सोहयति पक्खिवेति पत्थं । तस्स खओ भवतेवं इय जे तु संजया जीवा ।। - (नि.भा. ३३३४) इति । यथोक्तं निशीथचूर्णों → ते य सरागसंजता पल्लधण्णपक्खेवदिढ़तेण बहुसोधगा अप्पबंधी कमेण पच्छिमे तवसंजमे पप्प मोक्खं गच्छंति । एवं सुभपगडिबंधेसु साहवो जतंति - (नि.चू.भा.३ पृ.१९०) । श्रावकप्रज्ञप्तौ उमास्वातिवाचकैरपि → पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवे नालिं । जे संजए पमत्ते बहु निज्जरे बंधए थोवं ।। (श्रा.प्र. ३६) इत्युक्तम् । इत्थञ्च शास्त्रार्थाऽबाधेन = उपर्युक्तनिशीथचूर्णिप्रमुखशास्त्रार्थाऽभङ्गेन निर्जराप्रतिबन्धकपुण्यबन्धाभावात् = मोक्षौपयिककर्मक्षयप्रतिबन्धकपुण्यबन्धविरहात् न अत्र = साधुकर्तृककारणिकानुकम्पादाने दोषः ।
वस्तुतस्तु पुण्याऽपुण्यक्षयनिमित्तकसदनुष्ठानाराधनपरिणामानामपि पुण्यानुबंधिपुण्योदयादेवोपलम्भः । यथोक्तं श्रीहरिभद्रसूरिभिः समरादित्यकथायां → जइ वि पुण्णपावक्खएण मुत्ती तहावि तस्सा कुसलाणुबन्धिपुण्णमेव कारणं । न कुसलाणुबन्धिपुण्णविवागमन्तरेण तारिसा भावा लब्भन्ति, जारिसेसु पुण्ण-पावक्खयनिमित्तकुसलजोयाराहणं ८ (स.क.भव-८/पृ.८४१) इति । ___यदपि → सम्मत्तं निच्चलं तं वयाण परिपालणं अमायत्तं । पढयं गुणणं विणओ लब्भंति હેતુઓ વડે જ અવસ્થાવિશેષમાં આનુષંગિક રીતે પુણ્યાનુબંધી પુણ્ય સંભવિત છે. જેમ કે હિંસાની વિરતિ વગેરે મોક્ષઔપયિક નિર્જરા વગેરેના હેતુ છે અને તેનાથી જ ગૌણરૂપે પુણ્યાનુબંધી પુણ્ય બંધાય છે. આવું નિશ્ચિતરૂપે માનવામાં આવેલ છે. પ્રસ્તુત પુણ્યાનુબંધી પુણ્ય મોક્ષવિરોધી નથી, કારણ કે જેમ અગ્નિ ઇંધનનો નાશ કરીને સ્વતઃ નાશ પામવાના સ્વભાવવાળો છે તેમ પાપનો નાશ કરીને પુણ્યાનુબંધી પુણ્ય સ્વતઃ નાશ પામવાના સ્વભાવવાળું છે. પુણ્યાનુબંધી પુણ્યના નાશ માટે અન્ય કોઈ સામગ્રીની આવશ્યકતા નથી. પ્રસ્તુતમાં તાત્પર્યાર્થ એ છે કે સાધુ આપવાદિક અનુકંપાદાન કરે તેમાં શાસ્ત્રાર્થનો બાધ ન થવાથી જે પુણ્યબંધ થાય છે તે મોક્ષસહાયક કર્મનિર્જરામાં કોઈ પણ પ્રકારની મુશ્કેલી પેદા કરતું નથી. માટે તેવું કારણિક અનુકંપાદાન નિર્દોષ છે. (૧/૧૭)
१. मुद्रितप्रतौ '...परिपन्थी...' इति पाठः । सोऽपि शुद्धः । २. मुद्रितप्रतौ इदं पदं नास्ति । ३. हस्तादर्श '...बन्धपुण्य..' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org