________________
• कारणिकाऽसंयतसम्प्रदानकसाधुदाननिर्दोषत्वविचारः • द्वात्रिंशिका-१/१० साधुनापीति । साधुनापि = महाव्रतधारिणापि दशाभेदं प्राप्य = पुष्टालम्बनमाश्रित्य एतद् = दानं अनुकम्पया दत्तं, सुहस्तिनेव रङ्कस्य, तदाह- 'श्रूयते चागमे आर्यसुहस्त्याचार्यस्य रङ्कदानमिति । कुतः? इत्याह- 'भगवतः श्रीवर्धमानस्वामिनो ज्ञातात् । तदुक्तं 'ज्ञापकं चात्र भगवान्निष्क्रान्तोऽपि द्विजन्मने। देवदूष्यं ददद्धीमाननुकम्पाविशेषतः ।।' (अष्टक प्रक. २७/५) इति । साधूहिं मोयगादि खज्जविहाणं भत्तं च जावतियं लद्धं । एगो रंको तं साहुं दटुं ओभासति । साहूहिं भणियं - 'अम्हं आयरिया जाणगा, ण च सक्केमो दाउं' । सो रंको साधुपिट्ठतो गंतुं अज्जसुहत्थिं ओभासति भत्तं । साहूहिं वि सिटुं - ‘अम्हे वि एतेण ओभासिता आसीत्' । अज्जसुहत्थी उवउत्तो पासति- पवयणाधारो भविस्सति । भणितो - 'जति णिक्खमाहि' । अब्भुवगतं । णिक्खंतो सामायितं कारवेत्ता जावतियं समुदाणं दिण्णं । तद्दिणरातीए चेव अजीरतो कालगओ - (नि.चू.उ.५भा.२१५४ पृष्ठ ३६१)। स एव रङ्कः चन्द्रगुप्तपुत्र-बिन्दुसारपुत्राऽशोकपुत्रकुणालपुत्रः सम्प्रतिः भूपो जातः ।
तदुक्तं श्रीहरिभद्रसूरिभिः अष्टकप्रकरणे - ज्ञापकमिति । → ज्ञापकञ्च = उदाहरणं पुनः, चशब्दस्य पुनरर्थत्वात्, अत्र = अनुकम्पया दाने भगवान् = वर्धमानस्वामी, किम्भूतः यः निष्क्रान्तोऽपि = प्रव्रज्याप्रतिपत्त्या गृहवासान्निर्गतोऽपि, आस्तामनिर्गतः, द्विजन्मने = ब्राह्मणाय देवदूष्यं = देवांशुकं ददत् = प्रयच्छन्, धीमान् = ज्ञानचतुष्टययोगान्महाप्रज्ञः । अनेन च 'ज्ञानवदासेवितमालम्बनीयं भवती'त्यावेदितम् । कुतो ददत् ? इत्याह- अनुकम्पाविशेषतः = दयातिशयादिति । उदाहरणप्रयोगश्चैवम् यतेरप्यवस्थाविशेषे असंयताय दानं अदुष्टं, अनुकम्पानिमित्तत्वात् । यदनुकम्पानिमित्तं तददुष्टं, निष्कान्तस्य भगवतो द्विजन्मदानवत् । अनुकम्पानिमित्तञ्च यतेरसंयतदानम् । तस्मात्तददुष्टमिति । अथवा ज्ञापकं = हेतुरित्यर्थः। तत्र चैवं प्रयोगः- यद् भगवदासेवितं तद् यतीनां सेवनीयं, शीलमिव ।आसेवितञ्च भगवताऽसंयतदानमिति - (अ.वृ. २७/५) इति श्रीजिनेवरसूरिकृतव्याख्यालेशः । अष्टकवृत्तिमुपजीव्य ग्रन्थकृदत्रानुमानप्रयोगमावेदयति - दशाविशेष इति । दशाविशेषकालीनाऽसंयतसम्प्रदानक-साधुकर्तृकदानं पक्षः, अदुष्टत्वं साध्यं, हेतुस्तु अनुकम्पानिमित्तत्वं = अनुकम्पानिमित्तकत्वं = अनुकम्पाजन्यत्वमिति
સાધુ પણ અનુક્યાદાન રે ટીકાર્ય :- પાંચ મહાવ્રતને ધારણ કરનાર સાધુ પણ પુષ્ટ આલંબનને પામીને અનુકંપાદાન કરી શકે છે. જેમ કે આર્યસુહસ્તિ મહારાજે ભિખારીને અનુકંપાથી દાન કર્યું. આગમમાં સંભળાય છે કે "આર્યસુહસ્તિસૂરિજીએ ભિખારીને દાન કર્યું." તેમણે દિક્ષિત થયેલા ભગવાન શ્રી વર્ધમાનસ્વામીના દૃષ્ટાંતથી તે પ્રમાણે કર્યું હતું. અષ્ટપ્રકરણમાં જણાવેલ છે કે – દીક્ષિત હોવા છતાં પણ વિશિષ્ટ અનુકંપાથી બ્રાહ્મણને દેવદૂષ્ય આપતા મહાપ્રજ્ઞ ભગવાન વર્ધમાનસ્વામી પ્રસ્તુત અનુકંપાદાનમાં ઉદાહરણ છે. ૯ પ્રસ્તુતમાં અનુમાન પ્રયોગ એ રીતે થઈ શકે કે - વિશિષ્ટ અવસ્થામાં સાધુ જો અસંયતને અનુકંપાથી દાન આપે તો તે દોષગ્રસ્ત નથી. કારણ કે તે અનુકંપાનિમિત્તક = અનુકંપાનન્ય છે. જેમ કે ભગવાન મહાવીરે બ્રાહ્મણને કરેલ વસ્ત્રનું દાન. - આ પ્રમાણે અષ્ટકપ્રકરણની ટીકા કરનાર શ્રીજિનેશ્વરસૂરિ महा२।४ २२ ४ छ. (१/१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org