________________
• दानविधिविशेषविद्योतनम् •
द्वात्रिंशिका-१/९
काल इति । स्पष्टः ।।८।। अवसरानुगुण्येनानुकम्पादानस्य प्राधान्यं भगवद्दृष्टान्तेन समर्थयितुमाहधर्माङ्गत्वं स्फुटीकर्तुं दानस्य भगवानपि । अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु ।।९।। धर्मांगत्वमिति । अत एव कालेऽल्पस्यापि लाभार्थत्वादेव दानस्य = अनुकम्पादानस्य धर्माङ्गत्वं स्फुटीकर्तुं भगवानपि व्रतं गृह्णन् संवत्सरं वसु ददौ । ततश्च महता धर्मावसरेऽनुष्ठितं सर्वस्याप्यवस्थौचित्ययोगेन धर्माङ्गमिति स्पष्टीभवतीति भावः । तदाह
=
२४
← (सं.गी. १/५९) इति । प्रकृते काले देशे कल्प्यं श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयतात्मना सद्भ्यः ।। ( ) ← इति दानविधिप्रतिपादिका कारिकाऽनुसन्धेया । विस्तरार्थिभिस्तु प्रकृते विधिविशेषाद् द्रव्यविशेषाद् दातृविशेषात् पात्रविशेषाच्च तस्य दानधर्मस्य विशेषो भवति । तद्विशेषाच्च फलविशेषः । तत्र विधिविशेषो नाम देश-काल- सम्पत्-श्रद्धा-सत्कार-क्रम- कल्पनीयत्वमित्येवमादिः । द्रव्यविशेषः अन्नादीनामेव सारजातिगुणोत्कर्षयोगः, दातृविशेषः प्रतिग्रहीतर्यनसूया, त्यागेविषादः, अपरिभाषिता, दित्सतो ददतो दत्तवतश्च प्रीतियोगः कुशलाभिसन्धिता, दृष्टफलानपेक्षिता, निरवद्यत्वम्, अनिदानत्वमिति ← ( त. भा. ७/३४) इति तत्त्वार्थसूत्रभाष्यप्रबन्धोऽपि विलोकनीयः । इदञ्च दानं परेषां सात्त्विकदानतयाऽभिमतम् । तदुक्तं गणेशगीतायाम् विधिवाक्यप्रमाणार्थं सत्पात्रे देशकालतः । श्रद्धया दीयमानं यद् दानं तत् सात्त्विकं मतम् ।। ← ( ग.गी. ११/७) इति । प्रकृते पात्रेभ्यो दीयते नित्यमनवेक्ष्य प्रयोजनम् । केवलं धर्मबुद्ध्या यद् धर्मदानं तदुच्यते । । ← (स्क.पु.मा.कौ. ४ / ५६ ) इति स्कन्दपुराणवचनमप्यनुसन्धेयम् ।।१ / ८ । संवत्सरं वसु धनं शतत्रयकोट्यधिकं, तदुक्तं आवश्यकनिर्युक्तौ ' तिन्नेव य कोडिसया, अट्ठासीइं च होंति कोडीओ । असीइं च सयसहस्सा एयं संवच्छरे दिन्नं' ।। ← ( आ.नि. २२० ) इति । महता = महापुरुषेण धर्मावसरे धर्मकाले अनुष्ठितं = कृतं सर्वस्यापि अवस्थौचित्ययोगेन स्वपरभूमिकाऽऽनुरूप्यसम्बन्धेन धर्माङ्गमिति स्पष्टीभवतीति । तदाह श्रीहरिभद्रसूरिः अष्टकप्रकरणे धर्माङ्गेति । धर्मस्य
=
कुशलात्मपरिणामविशेषस्य अङ्ग
अवयवः कारणं वा = धर्माङ्ग, વિશેષાર્થ :- ગાથાર્થ સ્પષ્ટ હોવાથી ગ્રંથકાર શ્રીમદ્જીએ આ ગાથાની ટીકા લખેલ નથી. (૧/૮) અવસરને યોગ્ય રીતે અનુકંપાદાન આપવું એ પણ પ્રધાન છે - આ વાતનું સમર્થન કરવા માટે ગ્રંથકાર ભગવાનનું દૃષ્ટાંત જણાવે છે.
ગાર્થાર્થ :- માટે જ ભગવાને પણ એક વર્ષ
=
=
=
-
=
"દાન એ ધર્મનું કારણ છે." - એવું સ્પષ્ટ કરવાને માટે દીક્ષા ગ્રહણ કરતા સુધી દાન આપ્યું. (૧/૯)
* અનુકંપાદાન ધર્મનું કારણ છે. *
ટીકાર્થ :- ઉચિત અવસરે આપેલું થોડું દાન પણ લાભ માટે જ થાય છે. અનુકંપાદાન એ ધર્મનું अग जने छे. આ વાતને સ્પષ્ટ કરવા માટે જ દીક્ષા ગ્રહણ કરતી વખતે ભગવાને પણ એક વર્ષ સુધી લોકોને દાન આપ્યું. તેનાથી સ્પષ્ટ થાય છે કે ધર્મના અવસરે મહાપુરુષોએ જે આચરણ કરેલ હોય તે આચરણ પોતાની સ્વપરની ભૂમિકાને અનુરૂપ એવા ઔચિત્યથી બધાને ધર્મનું કારણ १. हस्तादर्शे '... लवस्या... ' इति पाठः । सोऽपि शुद्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org