________________
• नयभेदेन भक्त्यनुष्ठानफलभेदः • द्वात्रिंशिका-१/७ क्षेत्रादीति । व्यवहारेण पात्रादिभेदात् फलभेदो, निश्चयेन तु भाववैचित्र्यादेवेति तत्त्वम् ।।७।। व्यवहारेण क्षेत्रादि = पात्रादि फलसाधनं दृश्यते, पात्रादिभेदात् फलभेदः कारणभेदेन कार्यभेदस्य न्याय्यत्वात् । शुभक्षेत्र-देयद्रव्यादिकं शुभपरिणामद्वारा विशिष्टपुण्यबन्ध-निर्जराजनकम्, 'दासेन मे खरः क्रीतः, दासोऽपि मे खरोऽपि मे' इति न्यायादिति व्यवहारनयः । दृश्यते हि विशिष्टपात्रादिना विशिष्टपरिणामद्वारा फलाधिक्यम् । न हि द्वारेण द्वारिणोऽन्यथासिद्धिः । आदिपदेन दायकादिग्रहः । तदुक्तं व्यवहारनयतः समरादित्यकथायां → दायव्वं पुण तं कारणेहि एएहि चउहिं परिसुद्धं । जिणभणिएहिं दायग-गाहगतहकाल-भावेहिं ।। - (स.क.भव-३/पृ.१९०) इति । प्रकृते → जह उसरम्मि खित्ते पइण्णबीयं ण किं पि रुहेइ । फला वज्जियं वियाणह अपत्तदिण्णं तहा दाणं ।। - (वसुनन्दि.श्राव.२४२) इति श्रावकाचारोक्तिरप्यत्राऽनुसन्धेया ।
प्रकृते → देशे काले च पात्रे च शुद्धेन मनसा तथा । न्यायार्जितं च यो दद्याद् यौवने स तदश्नुते ।। तस्माद् देशे च काले च सुपात्रे विधिना नरः । शुभार्जितं प्रयुञ्जीत श्रद्धया शाठ्यवर्जितः ।। - (स्क.पु.मा.को. २/१०२/३-४) इति स्कन्दपुराणकारिके स्मर्तव्ये स्वसमयाविरोधेन सुधीभिः ।
केचित्तु क्षेत्रादि = तीर्थादिक्षेत्रादि, आदिपदेन पात्रादिग्रह इत्याहुः।
निश्चयेन पुनः क्लृप्ततया केवलः भावः फलभेदकृत्, भाववैचित्र्यादेव फलभेदः, न पात्रादिवैचित्र्यात् । वस्तुतः सत्पात्रेऽपि भावमालिन्यतो दाने तु न फलमवाप्यते । तदुक्तं समरादित्यकथायां → जो पुण सद्धारहिओ दाणं देइ जस-कित्तिरेसम्मि । अहिमाणेण व 'एसो देइ अहं किं न देमि'त्ति ।। तं सद्धाजलरहियं बीयं व न होइ बहुफलं तस्स । दाणं बहुं पि पवरं दूसियचित्तस्स मोहेण ।। - (स.क.भव ३/पृ.१९१) इति । सुपात्रत्वाभावेऽपि विशेषदर्शनविरहदशायां सुपात्रत्वधिया पार्श्वस्थादिदानात्, सुपात्रदानफललाभात्, सुपात्रेऽपि कुपात्रत्वधिया दानात् सुपात्रदानानुपलम्भात्, अभव्यकपिलादासीकृतसाधुदानादौ तथाऽवधारणादित्यन्वय-व्यतिरेकाभ्यां केवलस्य भावस्यैव फलकारणत्वम् । अत एवाज्ञातदशायां सुगुरुत्वधिया पार्श्वस्थादेः वन्दनादितः सुगुरुवन्दनोचितफलमुत्पद्यते, सुगुरुविरहेऽपि सुगुरुत्वधियः फलजनिकायाः सत्त्वात् । एतेन मोक्षजनकाच्चारित्रात्स्वर्गोत्पत्तिरपि समाहिता, निश्चयनयपर्यालोचनायां
- नय मेथी अरावियार . અનુકંપાના ઉચિત ફલના કારણને જ નયભેદ બતાવવા પૂર્વક વિભાગ પાડીને જણાવે છે.
ગાથાર્થ :- વ્યવહારથી ક્ષેત્ર વગેરે ફલના કારણ તરીકે દેખાય છે. નિશ્ચયથી તો કેવળ ભાવ इसमे६१२७ छे. (१/७)
ટીકાર્ય - વ્યવહારથી પાત્રસ્વરૂપ ક્ષેત્ર વગેરેના ભેદથી ફલભેદ થાય છે. નિશ્ચયનયથી તો ભાવભેદથી ४ इसमे थाय छ - सा तत्व छ. (१/७)
વિશેષાર્થ:- વ્યવહારનયથી જેમ દાનનું પાત્ર, દાનનું દ્રવ્ય, દાનનો અવસર ઊંચી જાતના હોય તેમ ફળ વિશેષ રીતે ઉચ્ચ પ્રકારનું પ્રાપ્ત થાય છે. દાનનું પાત્ર, દ્રવ્ય, અવસર જો સામાન્ય હોય તો દાનનું ફળ સામાન્ય કક્ષાનું મળે છે. શુભ પાત્રાદિ સામગ્રી જીવને શુભ ભાવ પેદા કરવામાં કારણ છે. અર્થાત્ १. हस्तादर्श 'भाववैदेवेति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org