________________
• वस्तुपालकृतसत्रागारादिविचारः • बहूनामिति । ततो निर्वृतिसिद्धेः बहूनामुपकारेणानुकम्पानिमित्ततां नातिक्रामति ।
तेन कारणेन अत्र = अनुकम्पोचितफले मुख्यः शुभाशयो पच्छा अरमणिज्जे भविज्जासि जहा वणसंडेइ वा जाव खलवाडेइ वा' । तए णं पएसी केसि कुमारसमणं एवं वयासी-णो खलु भंते! अहं पुव् िरमणिज्जे भवित्ता पच्छा अरमणिज्जे भविस्सामि, जहा वणसंडेइ वा जाव खलवाडेइ वा । अहं णं सेयवियानगरीपामुक्खाई सत्त गामसहस्साइं चत्तारि भागे करिस्सामि, एगं बलवाहणस्स दलइस्सामि, एगं भागं कुट्ठागारे छुभिस्सामि, एगं भागं अंतेउरस्स दलइस्सामि, एगेणं भागेणं महतिमहालयं कूडागारसालं करिस्सामि, तत्थ णं बहूहिं पुरिसेहिं दिनभइभत्तवेयणेहिं विउलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता बहूणं समण-माहण-भिक्खुयाणं पंथियपहियाणं परिभाएमाणे परिभाएमाणे बहूहिँ सीलव्वय-गुणव्वयवेरमणपच्चक्खाणपोसहोववासस्स जाव विहरिस्सामि त्ति – (राजप्र.सू.७८) इत्यादिरूपः । → ‘मा णं तुमं पएसी ! पुव्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि' इत्यादेर्ग्रन्थस्यायं भावार्थः - पूर्वमन्येषां दाता भूत्वा सम्प्रति जैनधर्मप्रतिपत्त्या तेषामदात्रा न भवितव्यम्, अस्माकमन्तरायस्य जिनधर्मापभ्राजनस्य च प्रसक्तेः - (राजप्र.वृ.पृ.१४५) इति श्रीमलयगिरिसूरिकृतव्याख्या । ततश्च प्रदेशिभूपकृतस्य दानशालादेः कारणिकत्वं स्पष्टमेव ।
एवं → पुव्वभवे ओदरिओ त्ति पिंडालगो आसि। तं संभरित्ता णगरस्स चउसु वि दारेसु सत्ताकारमहाणसे कारवेति । णितो पविसंतो वा जो इच्छइ सो सव्वो भुंजति (नि.भा. ५७४८) इति निशीथचूर्णिदर्शनात् सम्प्रतिभूपकृतदानशालादेरपि कारणिकताऽनाविला ।
यदपि प्रबन्धकोशे श्रीराजशेखरसूरिभिः वस्तुपालकृतत्वेन → सप्तशतानि सत्रागाराणाम् । सप्तशती तपस्वि-कापालिक-भगवद्योगिनां मठानाम्, तेषां सर्वेषां भोजननिर्वापादिदानं निश्चितं कृतम् । त्रिंशच्छतानि ह्युत्तराणि महेश्वरायतनानाम् - (प्र.को.पृ.१२९) इति निर्दिष्टं तदपि कारणिकत्वेनाऽनुकम्पानिमित्तता नातिक्रामति । अत एव तत्काले श्रीजिनशासनप्रभावना सर्वत्र व्याप्ता । इदमेवाभिप्रेत्य प्रबन्धचिन्तामणौ श्रीमेरुतुङ्गसूरिभिः वस्तुपाल-तेजःपालप्रबन्धे → स्फुटं वेष्टयता शुभैः कीर्तिकूटैः पटैरिव । दशाऽपि ग्राहिता येन दिशः श्वेताम्बरव्रतम् ।।- (प्र.चि.पृ.९९) इत्युक्तम् । न च प्रवचनस्य स्वतः प्रथितत्वमिति सत्रागारादिकरणेन न तत् दीपनीयमिति वाच्यम्, तथापि शक्तिमता तत्प्रभावनायाः कर्तव्यत्वात् । तदुक्तं निशीथभाष्ये → कामं सभावसिद्धं तु पवयणं दिप्पते सयं चेव । तहवि जो जेणऽहिओ सो तेण पभावते तं तु ।। - (नि.भा.३१) इति । इत्थमेव स्व-परयोः सानुबन्धसम्यग्दर्शनसिद्धेः ।
ततः = सम्यग्दर्शनादितः निर्वृतिसिद्धेः = मोक्षोत्पादात् बहूनां जीवानां अभयदानादिवितरणलक्षणेन उपकारेण अनुकम्पानिमित्ततां = वस्तुसद्-बलवदनिष्टाननुबन्धि-दुःखिदुःखोद्धारलक्षणानुकम्पाहेतुतां नातिकामति = न त्यजति । तेन कारणेन = कारणिकदानशालादिषूक्तदुःखोद्धारस्वरूपानुकम्पाकारणतायाः सत्त्वेन अनुकम्पोचितफले = प्रागुक्तानुकम्पादानसम्पाद्ये धर्मसामग्रीपरिकलितस्वर्गादिसांसारिकसुखादिलक्षणे उचितफले मुख्यः ‘बहवो जना जैनकृतदानशालादिज्ञानेन प्रवचनप्रशंसादितः बोधिबीजादिकं प्राप्नुवन्तु दुर्गत्यादिदुःखमुक्ता भवन्तु, क्रमेणाऽपवर्गं गच्छन्तु, तेभ्यश्च सर्वे जीवा अभया भवन्तु' इत्यादिः शुभाशयः અનેક જીવોનો મોક્ષ કરનારા સિદ્ધ થાય છે. આમ ઘણા જીવોનો ઉપકાર કરવાથી તે અનુકંપાના નિમિત્તપણાનું
ઉલ્લંઘન નથી કરતા. અર્થાત્ તે અનુકંપાના નિમિત્ત બને છે. તે કારણે અનુકંપાને યોગ્ય એવા ફળમાં મુખ્ય Jain Education International
For Private & Personal Use Only
www.jainelibrary.org