SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ धर्मबीजाङ्कुरफलादिविचारः द्वात्रिंशिका-१/६ पुष्टालम्बनमाश्रित्य दानशालादिकर्म यत् । तत्तु प्रवचनोन्नत्या बीजाधानादिभावतः । । ५ । । बहूनामुपकारेण नानुकम्पानिमित्तताम् । अतिक्रामति तेनात्र मुख्यो हेतुः शुभाशयः ।। ६ ।। पुष्टालम्बनमिति । पुष्टालम्बनं सद्भावकारणं आश्रित्य यद्दानशालादिकर्म प्रदेशिस - प्रतिराजादीनां तत्तु प्रवचनस्य प्रशंसादिना उन्नत्या ( = प्रवचनोन्नत्या बीजाधानादिभावतः ) बीजाधानादीनां भावतः = सिद्धेर्लोकानाम् ।।५। = चेत् ? अत्रोच्यते - उत्सर्गतस्तावत्सत्रागारादिकं नैवार्हति । यथोक्तं पञ्चलिङ्गिप्रकरणे इह सत्तागाराई कहं न दिट्ठ जिणिदधम्मम्मि ? । इहरा इट्ठापूयं न निसिद्धं हुज्ज समयंमि ।। ← ( पं. लिं. ७६ ) इति । किन्तु अपवादतः पुष्टालम्बनं = सद्भावकारणं = सद्भूतकारणं = विशुद्धवर्धमानजैनत्व-वैभवसत्ताऽऽदेयनामकर्मोदयादिविशिष्टपुरुष- दुर्लभद्रव्य - जिनशासनप्रत्यनीकादिव्याप्तक्षेत्र-दुर्भिक्षादिकाल-बोधिबीजाधानाद्युद्देश्यकभावप्रयुक्तविशुद्धिपरिकलितं मिथ्यादृष्टि- दीन-हीनानाथान्ध- खञ्ज- कुब्ज-रुग्ण याचक- बुभुक्षित-पिपासुपान्थ-वेदोपनिषदाद्यनुरक्त-जिनशासनप्रद्विष्टादिबहुजनानुकम्पालक्षणं सद्भूतकारणं आश्रित्य यद् दानशालादिकर्म प्रदेशि - सम्प्रतिराजादीनां आदिपदेन वस्तुपालादीनाम्, तत्तु प्रवचनस्य जिनशासनस्य प्रशंसादिना उन्नत्या = प्रभावनया लोकानां बीजाधानादीनां सिद्धेः निष्पत्तेः । बीजपदेन पुण्यानुबन्धिपुण्यग्रहणम् । तदुक्तं योगदीपिकाऽभिधानायां षोडशकटीकायां ग्रन्थकृता बीजाधानं धर्मतरोर्बीजस्य पुण्यानुबन्धिपुण्यस्य न्यासः, आदिना अङ्कुर - पत्र - पुष्प-फलपरिग्रहः ← ( षो. ४ /७ यो. दी.) । अन्यत्र चैतस्य विशदतरं निरूपणं→ विधिनोप्ताद्यथा बीजादङ्कुराद्युदयः क्रमात् । फलसिद्धिस्तथा धर्मबीजादपि विदुर्बुधाः ।। वपनं धर्मबीजस्य सत्प्रशंसादि तद्गतम् । तच्चिन्ताद्यङ्कुरादि स्यात् फलसिद्धिस्तु निर्वृतिः ।। चिन्ता सच्छ्रुत्यनुष्ठानं देव - मानुष- सम्पदः । क्रमेणाङ्कुर-सत्काण्ड - नाल-पुष्पसमा मता || = ← (ललितविस्तरायां उद्धृता इमे श्लोकाः पृ. ११) इति । इदमेवोपजीव्य ग्रन्थकृताऽपि अध्यात्मसारे → बीजं चेह जनान् द्रष्ट्वा शुद्धानुष्ठानकारिणः । बहुमान - प्रशंसाभ्यां चिकीर्षा शुद्धगोचरा ।। तस्या एवानुबन्धश्चाकलङ्कः कीर्त्यतेऽङ्कुरः । तद्धेत्वन्वेषणा चित्रा स्कन्धकल्पा च वर्णिता ।। ← (अ.सा. १०/ २१-२२) इत्यादिरूपेण विस्तरतो यदुक्तं तदत्रानुसन्धेयम् । बीजाधानाभावे तु भगवत्सन्निधावपि तदनुद्धारः । तदुक्तं उपदेशपदे अकए बीजक्खेवे जहा सुवासे वि न भवई सस्सं । तह धम्मबीयविरहे न सुस्समाए वि तस्सस्सं ।। (उप.प. २२४ ) ← इति । पञ्चाशशास्त्रोक्तं (७/८) मुक्त्यद्वेषद्वात्रिंशिकायां वक्ष्यमाणं (द्वाद्वा. १३/२४ भाग - ३, पृ. ९२६) तस्करयुगलोदाहरणमत्र भावनीयम् । प्रदेशिराजसम्बन्धी आलापकः श्रीराजप्रश्नीये माणं तुमं पएसी ! पुव्विं रमणिज्जे भवित्ता ગાથાર્થ :- પુષ્ટાલંબનને આશ્રયીને દાનશાળા વગેરે જે કાર્ય છે તે તો શાસનપ્રભાવના દ્વારા બીજાધાનાદિને કરવાથી બહુ જીવોને ઉપકાર કરવાથી અનુકંપાનિમિત્તતાને ઓળંગતા નથી. માટે પ્રસ્તુતમાં मुख्य हेतु शुभाशय छे. (१/५-६) १८ • 1 = * ારણિક દાનશાળા વગેરે અનુક્શાના કાર્યક્ષેત્રમાં જ આવે ♦ ટીકાર્થ :- વાસ્તવિક કારણને આશ્રયીને પ્રદેશી રાજા, સંપ્રતિ રાજા વગેરેએ જે દાનશાળા વગેરે કાર્ય કર્યા તે તો જિનશાસનની પ્રશંસા વગેરે દ્વારા ઉન્નતિ થવાથી લોકોને બીજાધાન વગેરેની સિદ્ધિ થવાના કારણે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy