________________
१६
• ऋत्विजो लक्षणोपदर्शनम्
=
अल्पासुखश्रमादित्यस्य कृत्यमाह
स्तोकानामुपकारः स्यादारम्भाद्यत्र भूयसाम् । तत्रानुकम्पा न मता यथेष्टापूर्त्तकर्मसु || ४ || स्तोकानामिति - स्पष्टः । नवरमिष्टापूर्त्तस्वरूपमेतत्
ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यद्दत्तमिष्टं तदभिधीयते ।। वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमेतत्तु पूर्त्तं तत्त्वविदो विदुः ।। ( योगदृ.स. ११६-११७) इति ।।४।। यत्र कर्मणि भूयसां आरम्भात् प्रभूतभूतारम्भमाश्रित्य स्तोकानां = अल्पजीवानां उपकारः स्वल्पकालीन-सुखानुभवलक्षणः स्यात् तत्र कर्मणि नानुकम्पा जिनेश्वरैः मता यथा इष्टापूर्तकर्मसु । ऋत्विगिति । → ऋत्विग्भिः = यज्ञाधिकृतैः मन्त्रसंस्कारैः करणभूतैः ब्राह्मणानां समक्षतः तदन्येषां अन्तर्वेद्यां हि यद्दत्तं हिरण्यादि इष्टं तदभिधीयते विशेषलक्षणयोगात् । वापी-कूप-तडागानि लोकप्रसिद्धान्येव देवतायतनानि च वसतिकादीनि तथा अन्नप्रदानं लौकिकमेव, एतत्तु एवम्भूतं किमित्याह-पूर्त्तं तत्त्वविदो विदुः इति पूर्वपरिभाषया तत्त्वविदो विदन्ति ← ( यो . स . ११६/११७) इति योगदृष्टिसमुच्चयवृत्ती श्रीहरिभद्रसूरयः । कुमारिलभट्टमतानुवादरूपेण शास्त्रवार्तासमुच्चये अपि
ऋत्विग्भिर्मन्त्रसंस्कारैः ब्राह्मणानां समक्षतः । अन्तर्वेद्यां तु यद् दत्तमिष्टं तदभिधीयते ।। वापी-कूप-तडागानि देवताऽऽयतनानि च । अन्नप्रदानमित्येतत्पूर्तमित्यभिधीयते ।। ← (शा.वा.स. १०/८-९) इत्युक्तम् । अत्र स्याद्वादकल्पलतावृत्तिस्त्वेवम् → ऋत्विग्भिः यजमानसहायैः मन्त्रसंस्कारैः पूतं सद् यद् ब्राह्मणानां समक्षतः = प्रकृतप्रतिग्रहीत्रतिरिक्तब्राह्मणानां प्रत्यक्षं अन्तर्वेद्यां वेदीमध्य एव दत्तं हिरण्यादि तदिष्टमभिधीयते । तथा वापी - कूप-तडागानि च = पुनः देवताऽऽयतनानि लोकसिद्धानि तथा अन्नप्रदानं = भोजनदानं इत्येतत् सर्वं पूर्तं इत्यभिधीयते, भोगफलत्वात् ← (स्या. क. ल. १०/८-९) इति ।
अन्ये तु ‘अन्तर्वेद्यां = पृथिव्या मध्यस्थितत्वादन्तर्वेदीव हरिद्वारावधिप्रयागपर्यन्ते शशस्थलीति ब्रह्मावर्त्त इति च ख्याते देशे' इति वदन्ति । ऋत्विजो लक्षणं तु मनुस्मृतौ अग्न्याधेयं पाकयज्ञानऽग्निष्टोमादिकान् मखान् । यः करोति वृत्तो यस्य स तस्यर्त्विगिहोच्यते ।। ← (म.स्मृ. २/ २४३) इत्येवं वर्तते । आहवनीयाद्यग्न्युत्पादकं कर्म अग्न्याधेयं, अष्टकादीन् पाकयज्ञान्
=
=
द्वात्रिंशिका - १/४
=
=
=
અનુકંપાના લક્ષણમાં ત્રીજી ગાથામાં ‘અલ્પ જીવોને જેનાથી દુઃખ થાય તેવી પ્રવૃત્તિથી.....' આવું જે જણાવ્યું તેનું ફળ બતાવતા ગ્રંથકાર શ્રીમદ્ભુ કહે છે કે, →
ગાથાર્થ :- જે કાર્યમાં ઘણા જીવોના આરંભથી = નાશથી અલ્પ જીવોને ઉપકાર થાય ત્યાં અનુકંપા મનાયેલી નથી, જેમ કે ઈષ્ટાપૂર્તના કાર્યોમાં અનુકંપા માન્ય નથી. (૧/૪)
ટીકાર્થ :- ગાથાર્થ સ્પષ્ટ છે : ફક્ત ઇષ્ટાપૂર્તનું સ્વરૂપ આ મુજબ છે કે → યજ્ઞ કરનારા યાજ્ઞિકો વડે મંત્ર સંસ્કાર દ્વારા બ્રાહ્મણોની હાજરીમાં અંતર્વેદિકામાં જે બલિ વગેરે અપાય છે તે ઇષ્ટ કર્મ કહેવાય છે. (૧) વાવ, કૂવા, તળાવ, સાંસારિક દેવોના મંદીરો તેમ જ અન્નનું દાન જ્યાં થાય છે તે દાનશાળાદિ अर्थ पूर्तर्म छे. खेम तत्त्ववेत्ताओ भगे छे. (२) ← (१/४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.