________________
• बोधिलाभव्याख्या • फलकत्वाभिधानात् ।।१।। ति त - (स्था. १०/सू.७४५) इत्येवं दशधा दानमुक्तमित्यवधेयम्। प्रकृते → धर्ममर्थञ्च कामञ्च व्रीडा-हर्ष-भयानि च । अधिष्ठानानि दानानां षडेतानि प्रचक्षते ।। ८ (स्क.पु.मा.को. ४/५५) इति स्कन्दपुराणवचनमप्यत्रानुसन्धेयम् । तन्त्रान्तरे च विद्याऽर्थाऽभयदानतः त्रिविधं दानं प्रत्येकं सात्त्विकराजस-तामसभेदेन नवधा भिद्यत इति सम्मतम् । तदुक्तं संन्यासगीतायां → दानं चाऽपि त्रिधा प्रोक्तं विद्याऽर्थाऽभयदानतः । तत्राऽपि गुणभेदेन नवधा दानमीर्यते ।। ८ (सं.गी.१ १३७) इति । प्रकृतदशविध-षड्विध-नवविधदानलक्षणानि च ततोऽवसेयानि । सात्त्विकादिभेदेन दानत्रैविध्यमस्माकमप्यभिमतम् । तदुक्तं श्रीबुद्धिसागरसूरिवरैः महावीरगीतायां → तद्दानं त्रिविधं प्रोक्तं सात्त्विकं राजसं तथा । तामसञ्च यथापूर्वं तेषामुत्तममुच्यते ।। - (म.गी.९/२) इति । __प्रकृते ग्रन्थकृत् सुपात्रदानस्य मोक्षफलकत्वमुपपादयति- तस्य = सुपात्रदानस्य बोधिप्राप्तिद्वारा = सम्यग्दर्शनप्राप्तिद्वारा प्रथमजिनजीवधनसार्थवाहकृतघृतदानवद् भगवत्यां मोक्षफलकत्वाभिधानात् । तदुक्तं व्याख्याप्रज्ञप्त्यपराभिधानायां भगवत्यां सप्तमशतके → समणोवासए णं भंते ! तहारूवं समणं वा माहणं वा फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेमाणे किं लब्भइ? गोयमा ! समणोवासए जं तहारूवं समणं वा जाव पडिलाभेमाणे तहारूवस्स समणस्स वा माहणस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पडिलभइ । समणोवासए णं भंते ! तहारूवं समणं वा जाव पडिलाभेमाणे किं चयति ? गोयमा ! जीवियं चयति, दुच्चयं चयति, दुक्करं करेति, दुल्लहं लहइ, बोहिं बुज्झइ, तओ पच्छा सिज्झति जाव अंतं करेति - (भ.श.७ उ.१, सू. २६४) इत्युक्तम् । → किं चयति? त्ति किं ददातीत्यर्थः, 'जीवियं चयइ' त्ति जीवितमिव ददाति, अन्नादि द्रव्यं यच्छन् जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वात्। एतदेवाह- 'दुच्चयं चयइत्ति दुस्त्यजमेतत्, त्यागस्य दुष्करत्वात् । एतदेवाह- 'दुष्करं करोती'ति । अथवा किं त्यजति - किं विरहयति ? उच्यते - जीवितमिव जीवितं कर्मणो दीर्घा स्थितिं 'दुच्चय'ति दुष्टं कर्मद्रव्यसञ्चयं 'दुक्कर'त्ति दुष्करमपूर्वकरणतो ग्रन्थिभेदं, ततश्च 'दुल्लहं लहइ'त्ति अनिवृत्तिकरणं लभते । ततश्च ‘बोहिं बुज्झइ'त्ति 'बोधिं = सम्यग्दर्शनं बुध्यते = अनुभवति । इह च श्रमणोपासकः साधूपासनामात्रकारी ग्राह्यः, तदपेक्षयैवास्य सूत्रार्थस्य घटमानत्वात् - (भग.वृत्तिः पृ.२८९) इति श्रीमदभयदेवसूरिव्याख्या वर्तते । ‘साधूपासनामात्रकारी'त्यनेन निश्चयसम्यग्दर्शनाभावोऽभिप्रेतः टीकाकृतः । __ यद्वा तस्य सम्यग्दर्शनपरिकलितत्वे बोधिप्राप्तिपदेन परत्र जिनधर्मावाप्तिाह्या । तदुक्तं ललितविस्तरायां → जिनधर्मप्राप्तिर्बोधिलाभोऽभिधीयते - (ल.वि.लोगस्स.पृ.९४)। ‘बोधिः = प्रेत्य जिनधर्मावाप्तिः' (उत्त.बृ.वृ.८/१५) इति श्रीशान्तिसूरयः उत्तराध्ययनवृत्तौ । ‘बोधिलाभः प्रेत्य धर्मावाप्तिरुच्यत' इति आवश्यकनियुक्तिदीपिकाकारः (आ.नि.दी.कायोत्सर्ग.अ.)। बोहिलाभो उ पेच्च जिणधम्मसंपत्ति' (सं.भा.पृ.३१७)
વિશેષાર્થ :- ઉપલક્ષણનો અર્થ એ છે કે શબ્દના વાચ્યાર્થનું ભાન થવા સાથે તેનાથી ભિન્ન એવા તાત્પર્યવિષયીભૂત અર્થનું પણ ભાન થવું. તેથી અનુકંપાદાન ઈન્દ્ર સંબંધી સુખ અને સંસારના બીજા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org