________________
पात्र व्युत्पत्तिप्रदर्शनम्
द्वात्रिंशिका - १/१
(=ऐन्द्रशर्मप्रदम् ) । सांसारिकसुखान्तरप्रदानोपलक्षणमेतत् । स्वेष्टबीजप्रणिधानार्थं चेत्थमुपन्यासः । भक्त्या सुपात्रदानं तु जिनैः = भगवद्भिः मोक्षदं देशितं, तस्य बोधिप्राप्तिद्वारा भगवत्यां मोक्ष
४
•
→ स्वसम्बन्धमपाकृत्य यदन्यस्मै प्रदीयते । तद्दानमिति सामान्यलक्षणं मुनयो विदुः ।। तत्राऽपि दत्तवस्तुभ्यः सम्बन्धं मानसं स्वतः । सर्वथा क्षपयेद्योऽसौ स वदान्यशिरोमणिः । । ← (सं.गी. ३ / ७-८) इति संन्यासगीतादर्शितं दानलक्षणं निश्चयतो व्यवहारतश्चानुयोज्यमन्त्रागमानुसारेण ।
यत्तु शाण्डिल्योपनिषदि दानं न्यायार्जितस्य धन-धान्यादेः श्रद्धयाऽर्थिभ्यः प्रदानम् ← ( शां. १ 19 ) इत्युक्तं तत्तु द्रव्यप्रतियोगिकदानापेक्षयाऽवगन्तव्यम् । एतेन न्यायाऽऽगतं च कल्प्यं विधिना पात्रेषु विनियोज्यम् ← ( प्र रति ३०४) इति प्रशमरतिवचनमपि व्याख्यातम् ।
सांसारिकसुखाऽन्तरप्रदानोपलक्षणमिति । स्वार्थबोधकत्वे सति तात्पर्यानुसारेण स्वेतरार्थबोधकत्वं = उपलक्षणत्वम्। एतत् = ऐन्द्रशर्मप्रदमिति पदं सहस्राक्षसम्बन्धिसुखप्रदानवत् शारीरिक-कौटुंबिक-भौतिकादिसांसारिकसुखप्रदानबोधेच्छयोच्चरितमिति भावः । तदुक्तं भूयाणुकंपवयजोगउज्जओ खंतिदाणगुरुभत्तो । बंध भूओ सातं विवरीयं बंधए इयरो ।। ← ( ) इति । स्वेष्टबीज- प्रणिधानार्थं स्वीय-प्रियसिद्ध-सारस्वतमन्त्र-गतप्रधानबीजगोचरदृढोपयोगकृते च 'सांसारिकशर्मप्रदं' इत्यनुक्त्वा इत्थं = 'ऐन्द्रशर्मप्रदमि'ति उपन्यासः ग्रन्थादौ ग्रन्थकृता कृतः । एतेन वाग्देवतां प्रति स्वकृतज्ञतादिकमाविष्कृतम् । ततश्च वाग्देवताप्रसादसम्भवेन ग्रन्थरचनानुकूलक्षयोपशमोत्पत्तेर्निर्विघ्न-ग्रन्थपरिसमाप्तिसङ्गतेः । तदुक्तं ऐन्द्रस्तुतिचतुर्विंशतिकावृत्तौ देवताप्रसादस्यापि क्षयोपशमाऽऽधायकत्वेन तथात्वात्, द्रव्यादिकं प्रतीत्य क्षयोपशमसिद्धेः ← (ऐ.स्तु. १/४) इति । भक्त्या सुपात्रगुणपरिज्ञानजनित-तद्गुणप्राप्तिकामनागर्भित-तद्बहुमानादिरूपया सहितं यद्वा हेत्वर्थे तृतीया, सुपात्रदानं साध्वादिसत्पात्रसम्प्रदानकं दानम् । पात्रव्युत्पत्तिस्तु पकारेणोच्यते पापं त्रकारस्त्राणवाचकः । अक्षरद्वयसंयोगे पात्रमाहुर्मनीषिणः ।। ← ( ) इत्येवमवगन्तव्या । पात्रपदप्रवृत्तिनिमित्तं त्वग्रे पूर्वसेवाद्वात्रिंशिकायां ( द्वा. द्वा. १२/१२ भा. ३, पृ. ८५१ ) दर्शयिष्यामः । तुः पूर्वोक्तापेक्षया विशेषद्योतने, मोक्षदं = मुक्तिदायकं देशितं कथितं जिनैरिति। जयन्ति रागादिशत्रूनिति जिना इति व्युत्पत्त्या जिनपदेन श्रुतावधिजिनाद्युपस्थितिसम्भवेऽपि 'योगाद् रूढिर्बलियसी'ति न्यायेन जिनपदस्य तीर्थकरकेवलिजिनपरत्वात् 'भगवद्भिः' इति व्याख्यातम् । प्रधानफलापेक्षया मोक्षफलकत्व - मस्यावसेयम्, 'व्यपदेशाः प्रधानपरा भवन्तीति न्यायात् । अनुषङ्गतोऽभ्युदयसाधकत्वमप्यनपायम् ।
=
संक्षिप्तविभागरुचिनयापेक्षयेह दानं द्विधोक्तम् । मध्यमविभागविवक्षया तु अन्यत्र पञ्चधा दानमुक्तम् । यथोक्तं → 'अभयं सुपत्तदाणं 'अणुकंपा उचिय - 'कीत्तिदाणं च । दोहिं वि मुक्खो भणिओ, तिण्णि वि भोगाईयं दि॑िति ।। ← (श्राद्धविधिप्रकरणवृत्तौ ) इति । अत्राऽऽद्ये द्वे दाने मोक्षफलकतयोत्तमे समाम्नाते । तदुक्तं महावीरगीतायां सुपात्रञ्चाऽभयं दानं पञ्चदानेष्वनुत्तरम् ← (महा. गी. ९ / ४ ) इति । विस्तररुच्यपेक्षया स्थानाङ्गसूत्रे → दसविहे दाणे पन्नत्ते । तं जहा - 'अणुकंपा संग चेव, ग्भया 'कालुणिते ति त । “लज्जाने "गारवेणं च ' अहम्मे उण सत्तमे । 'धम्मे त अट्ठमे वुत्ते काही ति त "कतं છે એમ જિનેશ્વર ભગવંતોએ કહેલ છે. ભગવતી સૂત્રમાં જણાવેલ છે કે ભક્તિયુક્ત સુપાત્રદાન બોધિપ્રાપ્તિ દ્વારા ફળરૂપે મોક્ષ આપે છે. (૧/૧)
Jain Education International
=
For Private & Personal Use Only
=
www.jainelibrary.org