________________
तव भारति! पदसेवारेवामासाद्य कोविदद्विरदाः। नवरस-ललनविलोला: कोलाहलमुल्लपन्ति सूक्तरसैः ॥७॥ रससङ्गतिचङ्गसूक्तमुक्तामणि-शुक्तिरुरीकृतमुक्तिकला। कलि (वि) तौघ विमोघ सारसारस्वतसागरवृद्धि विधे (धी?)न्दुकला
॥८॥ कलनाद-विभेदविन्दुवृन्दारक विदितब्रह्मज्ञानशुभा। शुभि (सुर्मि) ताङ्गपाङ्गक सुभगे ! त्वं मयि देवि! प्रसीदकैत (र) वभा
॥९॥ करपकजाग्रजाग्रजपदामनिका ममाहकमलम्। वीणापुस्तक-कमलं हेतु (हे. सु) तनो ! ते धिनोतु मम कमलम्
॥१०॥ कमलच्छदसत्पदविद्रुमकन्दल-सरलाङ्गुलिमणिसखरनखरा। नखरा क्रमवर्तुलमृदुजङ्घोज्ज्वलरम्भास्तम्भशुभोरुवरा ॥११॥ वरभा वरगतिरतिविततश्रोणीपुलिना तलिनोदरमधुरा। मधुरावधिवचनालाप-कलापा त्वं जय जय नतसुरनिकरा
॥१२।। युग्मम् । सुविशाल-भुजमृणालं मृदुपाणि-पयोजयामलं विमलम्। तव देवि! तुष्टमनस : शिरसि निविष्टं न न वहेम
॥१३॥ नवहेम-विनिर्मितविविधविभूषण-विलासद्वाहाऽनन्यसमा। समवृत्त स्फारतारहाराञ्चित पीनपयोधरकुम्भयमा ॥१४॥ यमिनां शशिवदन शुक्तिजदशना निभसुम (शुकनिभ?) नासा ततलाभा (भाला)। भालङ्कृत कजल-कुन्तलहस्ता पातु कलश्रुतिसुविशाला ॥१५।। तरुणयति कविकुलानां कलङ्कविकलं कलाकलानन्दम्। यच्चलनभनलिनभक्तिः श्रुतशक्तिं नमत तां कवयः ॥१६॥ कवयोवरशंसहं समारुढा प्रौढप्राप्तगुणावलिका। बलिकाममधुव्रतचम्पककलिकारुचिवञ्चितगृहमणिकलिका।।१७।। कलिकामदुघाऽस्तुसारश्रुतपयसां दाने विजितत्रिदशमणी। मणिमण्डित-नूपुरसुरणझणत्कृति निःकृतजडसा (ता) वरतरुणी
॥१८॥ गिरिजागुरुगिरिगौरशरीरे ! सितिरुचिसितरुचिमु (सु) रुचिरचीरे!। भजमाना भवती भवतीरे देवि ! भवन्ति वरा: कविवीरे ॥१९॥ वीराकृति-नि:कृतिकृति (त) धिक्काराः सारोङ्कारोच्चारपरा: । परमैन्द्रपदं ते सपदि लभन्ते ह्रीमति ! ये त्वयि विनयधराः ॥२०॥ धरणीधवधीरैः श्रीमति ! वन्द्ये ! वदवद वाग्वादिनि ! वरजाम् । मयि तुष्टिं भगवति ! देवी ! सरस्वति ! मायानमनागतगिरिजाम् (!)
॥२१॥ गुरुगुम्फित गुणमाले ! बाला(ले) अयिते प्रसादमधिगम्य।
सुरभितभुवना भोगा भवन्ति कवयः श्रुताभोगा: ॥२२॥ भोगायतनं सा लटभश्रीणां सकलकलानां निधिरपरः । परमार्थ-परीक्षाबुद्धिकषपट्टः सकलस्तेजोऽवधिरतरः ॥२३॥ तरणी श्रुतसिन्धोः शुभफलफलदः कन्दः कविताकल्पतरोः । तरसामिह मूलं यशसामादिर्जय जय भारति! भुवनगुरोः॥२४॥युग्मम्। कुसुमामोदा विमो (नो) दप्रमोदमद मेदुराऽदुराशाया। दूरं दुरन्तदुरितं देवी दावयतु सा त्वरितम्
॥२५॥ त्वरितागति (त?) सङ्गतरङ्ग तरङ्गित हरिणाक्षी। महितपदात्तपदारुणदीधिति पवनपथध्वजपुण्यप्रतापा ॥२६॥ देवि ! सदा विशदांशुमयि ! त्वं ललितकवित्वं श्रुतममलम्। मम देहि तमां हितमार्गमयत्नरत्नवधर्नकविरोपितसंस्तवनकुसुमा
॥२७।। युग्मम्। कमलदलदीर्धनयना श्रुति-दोलालोलकुण्डलकपोला। शुक्तिज सकुलचोला शुभा सलोलोक्ति कल्लोला कल्लोल-विलोलितजलधि कफोज्ज्वलाकीर्तिकलाढ्या श्रुतजननी । जननीवनिरुपधिवत्सल-पिच्छलचिताकुमतद्विक (र) रजनी ।।२१।। रजनीकर-दिनकररुचिरिव रचितजडिमतमोहरणा। हरिणाश्रितचरणा शरणं भव मे त्वं भयभञ्जनधृतकरुणा विशेषकम् ।
॥३०॥ करुणामलकोमलमनस्क-निर्मितपरिचरणा। चरणाश्रितजनदत्त विविध विद्यासंवरणा
॥३१॥ वरुणायातसमस्तरु (कृ) द्धिरुल (ल्ल) सदुपकरणा। करणाङ्कुश कुशलाप्तिविहितदुष्कृतभरहरणा
॥३२॥ तनुसे त्वमद्य सौहार्दवति! मातरात्तगुणगणमतनु विशेषकम्। हरिणाङ्क सुशिरसत्पाद-विशदवचनविजृम्भितममलतनु !।।३३।।
॥ इतिभारतीस्तोत्रं सम्पूर्णम्।।
૨૨ ભાષાન્તર
જે સુંદર ભાવથી શોભતાં દેવ-દાનવો વડે નમન કરાતી, પ્રમાણથી નિરૂપમ એવાં રાજહંસરૂપી વિશાલ વાહનવાળી, નાદ- હિંદુ (ॐ)नी जाप रेनुं स्प३५ जी (वियारी) शाय छे तथा से રૂપનો પાર પામેલી છે. (અર્થાત્ અરૂપી છે) અને જેની આત્મશકિત સ્કુરી રહી છે તે (શ્રુતદેવતા) વરદાન આપનારી થાઓ.
જે કુંદ (મોગરાનું ફૂલ) ચંદ્ર હાર (મોતીનો) અને કપૂરના જેવી ઉજ્જવળ કાન્તિવાળી છે, જે સેવકજનોને વિષે મૃતનો ઉત્તમ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org