________________
॥१२॥
॥१३॥
॥१४॥
॥१५॥
दृष्टवा संभ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहृतं, येनाकूतवशादपीह वरदे ! बिन्दं विनाऽप्यक्षरम् । तस्यापि ध्रुवमेव देवि! तरसा जाते तवाऽनुग्रहे, वाचः सूक्तिसुधारसद्रवमुचो निर्यान्तिव क्वाम्बुजात् ॥३॥ यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं, तत् सारस्वतमित्यवैति विरल: कश्चिद बुधश्चेद् भुवि। आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः, प्रारम्भे प्रणवास्पदं प्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥४॥ यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधै, स्तार्तीयीकमहं नमामि मनसा तबीजमिन्दुप्रभम् । अस्त्त्वीर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये, गौःशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ॥५॥ एकैकं तव देवि ! बीजमनघं सव्यजनाव्यञ्जनं, कूटस्थं यदि वा पृथक्क्रमगतं यद्वा स्थितं व्युत्क्रमात्। यं यं काममपेक्ष्य येन विधिना केनाऽपि वा चिन्तितं, जप्तं वा सफलीकरोति तरसा तं तं समस्तं नृणाम् ॥६॥ वामे-पुस्तकधारिणीमभयदां साक्षस्त्रजं दक्षिणे, भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्वलाम्। उजृम्भाम्बुजपत्रकान्तनयनस्निग्धप्रभालोकिनी, ये त्वामम्ब ! न शीलयन्ति मनसा तेषां कवित्वं कुतः ||७|| ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां, सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम्। अश्रान्तं विकटस्फुटाक्षरपदैः निर्याति वक्त्राम्बुजात्, तेषां भारति ! भारतीसुरसरित्कल्लोललोलोर्मिभिः ॥८॥ ये सिन्दुरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमा, मुर्वी चापि विलीनयावकरसप्रस्तारमग्नामिव । पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर, क्लान्तास्त्रस्तकुरङ्ग-शावकदृशो वश्या भवन्ति स्त्रियः ॥९॥ चञ्चत्काञ्चन-कुण्डलाङ्गदधरामाबद्ध-काञ्चीस्रजं, ये त्वां चेतसि तद्गते क्षणमपि ध्यायन्ति कृत्वा स्थिराम् । तेषां वेश्मनि विभ्रमादहरहः स्फारीभवन्त्यचिरम्', माद्यत्कुञ्जरकर्णतालतरला: स्थैर्य भजन्ते श्रियः ॥१०॥ आर्भठ्या शशिखण्डमण्डितजटा-जूटां नृमुण्डनजं, बन्धूकप्रसवारुणाम्बरधरांप्रेतासनाध्यासिनीम्। त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनी, मध्ये निम्नवलित्रयाङ्किततनुं त्वदरुपसंपत्तये'२ ॥११॥
जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले, निःशेषावनि-चक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नत:। यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभवद, देवि ! त्वच्चरणाम्बुजप्रणतिजः सोऽयं प्रसादोदयः चण्डि ! त्वच्चरणाम्बुजार्चनकृते बिल्वीदलोल्लुण्टनात्,त्रुट्यत्कण्टक-कोटिभिः परिचयं येषां न जग्मुः कराः । ते दण्डाङ्कुशचक्रचापकुलिश-श्रीवत्समत्स्याऽङ्कितै
र्जायन्ते पृथिवीभुज: कथमिवांभोजप्रभैः पाणिभिः विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वैक्षवै", स्त्वां देवि ! त्रिपुरे ! परापरकलां संतl पूजाविद्यौ। यां यां प्रार्थयते मनः स्थिरधियां तेषां त एव ध्रुवं, तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृता: शब्दानां जननी त्वमत्रभुवने वाग्वादिनीत्युच्यसे, त्वत्त: केशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम् । लीयन्ते खलु यत्र कल्पविरतौ ब्रह्मादयस्तेऽप्यमी, सा त्वं काचिदचिन्त्यरुपमहिमा शक्तिः परा गीयसे देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा, स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः । यत्किंचिजगति त्रिधा नियमितं वस्तु त्रिवर्गादिकं, तत्सर्व त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वत: लक्ष्मी राजकुले जयां रणमुखे क्षेमंकरीमध्वनि, क्रव्यादद्विपसर्पभाजि शबरी कान्तारदुर्गे गिरौ । भूतप्रेत-पिशाचजृम्भकभये स्मृत्वा महाभैरवीं, व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयप्लवे माया कुण्डलिनी क्रिया मधुमती काली कला मालिनी, मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी। शक्ति: शंकरवल्लभा त्रिनयना वाग्वादिनी भैरवी, ह्रीं कारी त्रिपुरा परापरमयी माता कुमारीत्यसि आई पल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः, काद्यैः क्षान्तगतैः स्वरादिभिरथ क्षान्तैश्च तैः सस्वरैः । नामानि त्रिपुरे ! भवन्तिखलु यान्यत्यन्तगुह्यानि ते, तेभ्यो भैरवपत्नि! विंशतिसहस्त्रेभ्य: परेभ्यो नमः बोद्धव्या निपुणं बुधैःस्तुतिरियं कृत्वा मनस्तद्गगतं भारत्यास्त्रिपुरे त्यनन्यमनसा यत्राद्यवृत्ते स्फुटम्। एक-द्वि-त्रिपदक्रमेण कथितस्तत्पादसंख्याक्षरै मन्त्रोद्धार-विधिर्विशेषसहित: सत्संप्रदायान्वितः
॥१६।।
॥१७॥
॥१८॥
॥१९॥
॥२०॥
४. वक्त्रोदरात । ५. यन्नित्यं । ६. तार्तीयीतद। ७. धारणी। ८. पदा। ९. लोलोर्मयम् । १०. स्थिरम् । ११. चिरा । १२. विपत्तये ।
१३. भृतां । १४. मध्वासवै । १५. प्रार्थयसे । १६. विरमे । १७. गहना। १८. त्रितयी।
११७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org