SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ .....नेतरविला/जैनेतरविभाग..... ४५ श्री ब्रह्मांडपुराणे ब्रह्मणोक्तं मंत्रगर्भितं श्रीसरस्वतीस्तोत्रं। डभोई यशो. वि. ह. ज्ञा. प्रत नं. ५५६/५२५७ तथा सूरत ह. लि. ज्ञानभंडार करन्यासः ॐ अस्य श्रीसरस्वतीस्तोत्रमंत्रस्य मार्कण्डेयाश्वलायना ऋषी। स्रग्धराऽनुष्टप्छंदसी, श्रीसरस्वती देवता,एँ बीजं, वदवदेति शक्तिः । सर्वविद्या प्रसन्नेति कीलकं, मम वासिद्धयर्थे, जपे विनियोगः, अथ मंत्रः ॐ ऐं वद वद क्लीं वाग्वादिनी मम जिह्वाग्रे वसति सौँ स्वाहा । ॐ आँ ह्रीं ऐं धीं क्लीं सौं सरस्वत्यै नमः। अथ न्यासः करन्यासः हृदयादिन्यासः १. ॐ आँ अंगुष्ठाभ्यां नमः। ७. ॐ आँ हृदयाय नमः । २. ॐ ह्रीँ तर्जनीभ्यां नमः । ८. ॐ ह्रीं शिरसे स्वाहा । ३. ॐ ऐं मध्यमाभ्यां नमः। ९. ॐ ऐं शिखायै वषट् । ४. ॐधी अनामिकाभ्यां नमः। १०.ॐधी नेत्रत्रयाय वौषट्। ५. ॐ क्लीं कनिष्ठिकाभ्यां नमः। ११. ॐ क्लीं कवचाय हुँ। ६. ॐ सौं करतलकरपृष्ठाभ्यां नमः । १२. ॐ सौं अस्राय फट् । ऋषय : उवाचकथं सारस्वतप्राप्ति: केन ध्यानेन सुव्रत। महा सरस्वती येन तुष्टा भवति तद्वद ।। आश्वलायन उवाच शृण्वन्तु ऋषय: सर्वे गुह्याद् गुह्यतमं मम । दश श्लोक्याभिधं स्तोत्रं वदामि ध्यानपूर्वकम् ।। अंकुशं चाक्षसूत्रं च पाश-पुस्तकधारिणीम्। मुक्ताहार समायुक्तां देवीं ध्यायेद् चतुर्भुजाम्॥ अथ ध्यानम् ॐ शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्वयापिनी, वीणा-पुस्तकधारिणीमभयदां जाड्यांधकारापहाम् । हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां, वंदे तां देवीं परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।।१।। शार्दूल. स्रग्धरा. (आमूलालोलधूली) ह्रीं ह्रीं ह्रीं हृद्यबीजे शशिरुचिमुकुटे कल्पविस्पष्टशोभे, भव्ये भव्यानुकूले कुमतिवनदवे विश्ववंद्याऽघ्रिपद्ये। पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसंपादयित्री, प्रोत्फुल्लज्ञानकूटे हरिहरदयिते देवि संसारसारे ॥२॥ ऐ ऐ ऐ जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते, मातर्मातर्नमस्ते दहदह जडतां देहि बुद्धिं प्रशस्ताम् । विद्ये वेदांतगीते श्रुतिपरिपठिते 'मुक्तिदे मुक्तिमार्गे, मार्गातीतस्वरूपे मम भव वरदा शारदे शुभ्रवर्णे ॥३॥ धीं धीं धीं धारणाख्ये धृतिमतिनुतिभिर्नामभि: कीर्तनीये, नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे। पुण्ये पुण्यप्रवाहे हरिहरनमिते वर्णतत्त्वे सुवर्णे, मातर्मात्रार्द्ध तत्त्वे मतिमतिमतिदे माधवप्रीतिनादे ॥४॥ क्लीं क्लीं क्लीं सुस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्त, संतुष्टाकारचित्ते स्मित मुखि सुभगे मुंभणि स्तंभविद्ये। मोहे मुग्ध प्रबोधे मम कुरु कुमतिध्वांतविध्वंसमीड्ये, गी गौं र्वाग् भारती त्वं कविवर रसने सिद्धिदे सिद्धिसाध्ये ॥५।। सौं सौं सौं शक्तिबीजे कमलभवमुखांभोजभूतस्वरूपे, रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे।। न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे जाप्यविज्ञान तत्त्वे, विश्वे विश्वांतराले सुरगणनमिते निष्कले नित्यशुद्धे ॥६॥ स्तौमि त्वां त्वां च वन्दे मम खलु रसनां मा कदाचित् त्यजेथाः मा मे बुद्धिर्विरुद्धा भवतु मम मनो यातु मे देवि! पापम् । मा मे दुखं कदाचित् क्वचिदपि विषये पुस्तके माकुलत्वं, शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुंठा कदाचित् ॥७॥ आरुढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं, वामे हस्ते च दिव्यं वरकनकमयं पुस्तकं ज्ञानगम्या। स्वां वीणां वादयंती शुभकरकमलैः शास्त्रविज्ञानशब्दैः, क्रीडन्ती दिव्यरूपा कमलवरधरा भारती सुप्रसन्ना ॥८॥ इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो, वाण्या वाचस्पतेरप्यविदितविभवो "वाक्पटुम॒ष्टपंकः । स स्यादिष्टार्थलाभं सुतमिव सततं पातु देवी जनं तं, सौभाग्यं तस्य लोके प्रसरतु कविता विघ्नमस्तं प्रयाति ॥९॥ निर्विघ्नं तस्य विद्या प्रभवति सततं चाऽऽशुशास्त्रप्रबोधः, कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् । दीर्घायुलॊकपूज्य: सकलगुणनिधि: संततं राज्यमान्यो, वाग्देव्या: सुप्रसादात् त्रिजगति विजयी जायते सत्सभासु ॥१०॥अनुष्टप् टी. शुभ्राशुभ्र । २. त्वां । ३. कमले। ४ कूले । ५ नमिते। १. मोक्षदे। २. भव मम । ३. मातार्थ। ४. दुरितः । ५. स्मृतमुख। ६. मुक्त। ७. वृतवररसने । ८. तुष्टे । ९. रसनां । १०. आ श्लोक डभोईनी प्रतमा नथी। ११. जायते शिष्टगेय। १. बोथैः । २निरामिषैः । ३. द्वेयेऽपि १०९ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy