SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ विघ्नसंघातकण्ठीरवाष्टापदा, सर्वकल्याणनिर्माणमालाप्रदाः यत्पदेन्दीवरे धीवराः षट्पदाः, अस्तु सा सर्वदा शरदा: शारदाः॥ ४ ॥ नव्यकाव्यान्तरिक्षे, जगत्साक्षिणः, हेमचन्द्रादिधीधाममेधाविनः पूर्वदिक्सन्निभाप्यन्वाक्स्वामिनः, भारति ! त्वं प्रसूत्वं प्रसूः ज्ञानिनः ॥५॥ भानुभामण्डले कुण्डले धारिणीम्, सर्व सन्ताप पापाद्रिविद्राविणीम् । वाग्मि चातुर्यचेतश्चमत्कारिणीम्, भारति ! त्वां स्तुवे भीति संहारिणीम् ||६|| ये निशान्ते निशान्तेऽपि ते तत्त्वये ! गौरवागारहर्ष प्रकर्षप्रदे ! नाम सन्मान दान प्रदं धैर्यदे ! जन्तवो नो भजन्ते शुभं शारदे ! ॥७॥ निमग्ना निरालम्बिता: सद्गुणे ! सागरे सन्ति गुर्वज्ञता कारणे । वसन्तश्च लोकेऽपि विद्याङ्गणे, हन्त ! वासं हि कुर्वन्त्य लोकाङगणे በሪ सिद्धिदानं न ते साधना मुञ्चति, नैव या निष्फलत्वं कदाप्यञ्चति । साधकौघो विचार्येत्थमागच्छति, तत्पुरः साधनात् शेमुषीमिच्छति ॥ ९ ॥ द्विलोक्यैव लोकानुगः शारदे ! आगतः प्रेमतः प्रेमभावप्रदे ! ज्ञानभिक्षाप्रतीक्षाकरः कामदे ! देहि मे देहि विद्याधनं धर्मदे ! ॥१०॥ न त्वयि प्राज्ञतादानशक्ति र्यदि, चेत्ददत्वं तदास्ते न सा मे हृदि । अस्ति चेद् किं विलम्बेन विद्यानदि ! सत्कृतौ कार्ययत्नो द्रुतं सदि ॥। ११॥ ज्ञातमा: भारति ! ब्रह्मसंवादिनी, त्वं हि धीदानं सच्छक्ति संवाहिनी । त्वं च बह्वज्ञता ध्वान्तविध्वंसनी, पूर्णकारुण्यभावाक्षि संवाहिनी ॥ १२ ॥ ध्यानतस्तेऽन्यथाऽल्पज्ञता वाहिनी, साधुसत्सन्ततिः सौम्यता शालिनी । कं समाश्रित्य जाताज्ञता नाशिनी, प्राज्ञपंक्तिप्रधानत्वसंभाजिनी ॥१३॥ पंडिता: पद्मवक्त्रे ! त्वया मण्डिता: अज्ञता ताण्डवाऽम्बरा दण्डिताः । वाणि! पाखण्डवादास्त्वयाखंडिताः, त्वंहि कष्टक्षयकृत्कलामण्डिता ॥ १४ ॥ देव्यतः ज्ञप्तिवित्तप्रदानक्षमा, निश्चिता त्वं मया कल्पशालोपमा । त्वं ततो भक्तभक्तिर्नवास्ते प्रमा, वीक्ष्य तत्पुरय प्राज्ञतामग्रिमाम् ।।१५।। श्वेतपक्षाङगचक्राङ्गसंगामिनी, देवि ! दिव्यंशुवस्त्राङ्ग संवाहिनी । चार्वलङ्कारलोलाकलाशालिनी, त्वं त्रिलोकप्रति प्राणिसंजीवनी ।। १६ ।। कुन्दनीहारहारेन्दुवर्णो ज्वले ! शारदे शारदेन्दु प्रभा निर्मले ? त्वं पवित्री कुरु द्राक्च मे चञ्चले ! लोचने पापवल्लीविनाशानले ? ||१७|| सर्वकष्टाङ्गसारङ्गकण्ठीरवम् । सर्वशर्मावलीवल्लिविद्युद्धवम् । मन्त्रराजं त्वदीयं महागौरवम् । भाग्यदे भारति ! ज्ञानरत्नार्णवम् ॥१८॥ तं महामन्त्रदेवं मनोमंदिरे, स्थापयन्ति प्रमोदेन ये सुन्दरे । ते भयं नैव केषां च विद्येन्दिरे ! प्राप्नुवन्ति प्रभावप्रभाबन्धुरे ! ||१९| Jain Education International शारदे ! त्वत्कृपादृष्टिसद्वृष्टितः, येऽज्ञभावा भजज्जन्तवो जन्मतः । धीमतां ते मनोऽञ्जकास्तत्वतः, संभवन्त्याशु भूता भविष्यन्त्यतः ॥ २० ॥ निर्मलध्यानरक्तकचित्ताश्चिताः, पण्डिता भक्तिसद्भावना भाविताः । त्वत्पदाम्भोजयुग्मभव्यध्वये रताः, पद्मवृन्दे यथा प्रेमि ! पुष्पव्रताः ।। २१ ।। ग्रन्थनिर्माणशक्त्यब्जतिग्मद्युतिम् वादिदुर्भेदवादक्षपांशुद्युतिम् । शास्त्रविज्ञानवारीशशीतद्युतिम्, स्तौमि सद्भावतोभासाश्चितोभारतिम् ॥२२॥ देवदेवेन्द्र विद्याधरैर्वन्दिता:, सद्गुणास्थानरूपेण संवर्णिताः । साधु साधुव्रतव्रातसम्मानिताः, विघ्नवृन्दं हरन्तु द्रुतं देवताः ||२३|| केवलालोक हेत्वागमज्ञानदे ! वाणिविख्यातसत्कीर्तिकान्तिप्रदे ! भावरोगार्त्तभव्यौषधिदर्शदे, त्वं प्रसीद प्रसादप्रदे शारदे ! ।।२४।। त्वत्प्रसादस्समासादितः सादरे, शारदे ! सेव्यपादाब्जसेवाः । सन्ति संसव्यपादाश्चते सादरे, प्राज्ञवृन्दैः सदैवापि संविदूरैः ॥२५॥ शौर्य सौन्दर्य सौहार्द तेजोमया, प्रेमपीयूषसन्दोहमैत्रीमया । भारति ! त्वं सदानन्दलीलालया, विश्वविज्ञातसत्कीर्तिकान्तालया ॥२६॥ सर्वदोषप्रदोषांशुमद्भास्वरा, सद्गुणाप्त्यङ्कुरोत्पत्तिधाराधरा । ज्ञानगङ्गाहिमप्रस्थपृथ्वीधरा, शारदे विश्वविश्वाग्रविद्याधरा ॥२७॥ कष्टमिष्टायतेऽग्निस्तुषारायते, कालकूटोपि पीयुषकूणायते । शारदे ! मन्दबुद्धिः प्रबुद्धायते, त्वत्प्रसादाद् धरास्वर्ग लोकायते ॥२८॥ त्वन्मुखाब्दाद् द्रुतं वत्स ! विद्वान सदा, त्वं भवेत्यभ्र गंभीरनादं मुदा । शारदे ! श्रोतुमश्रान्ततावद् हृदा, भक्तवर्गो मयूरायते सर्वदा ॥२९॥ त्वद् गुणव्रातवार्ताव्रजं वक्त्रतः, वक्तमुल्लेखितुं हस्तसाहस्त्रतः । भो सरस्वत्यहो ! द्रष्टुमुद्दष्टितः, वाग्मिवृन्दोऽपि नैवास्ति शक्त्यान्वितः नाममन्त्रं त्वदियं सुधानिर्झरि ! ये स्मरन्त्येकचित्तेन चिन्ताहरि ! प्रमोदश्रियं विश्वविश्वेश्वरि ! प्राप्नुवन्त्येव द्राक् देवि ! वागीश्वरि ! ॥३१ ॥ शारदे ! त्वद्गुणस्तोत्रपाठंवहाः । त्वत्प्रसादेन सद्भाग्यभारं वहाः । सन्तु मांगल्यमालामजस्त्रं वहाः । नित्य 'मुक्तिप्रभ' त्वाभिलाषं वहाः ||३२|| 'स्त्रग्विणीवृत्तम्' रचयिता आचार्य विजयमुक्तिप्रभसूरीश्वराः । ॥३०॥ ४३ ભાષાન્તર १०४ For Private & Personal Use Only ચિત્તની ચિંતાને દૂર કરવામાં એક ચિંતામણી સમાન, પંડિતોના માનસરૂપી કમળોના સ્થાનભૂત ભકતના ચિત્તરૂપી ચકોર માટે ચંદ્રરૂપ ચતુરાઈમાં મુગુટ સમાન એવી શારદા દેવીની હું સ્તુતિ કરું છું. १. www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy