________________
९६. केशी - उत्तम केशोवाली। ९७. महाजया - महान विजयवाली। ९८. वाराही - कल्याण स्वरूपा। ९९. यादवी-उपासना रूपा। १००. षष्ठी - षष्ठी देवी, कार्तिकेय की शक्ति। १०१. प्रज्ञा - विशिष्ट बोधन शीला। १०२. गी: - वर्णन शक्ति। १०३. गौ - गतिस्वरूपा। १०४. महोदरी - विश्वको अपने में धारण करनेवाली। १०५. वाग्वादिनी - वाणी की बोलनेवाली। १०६. क्लींकारी-क्लीं मंत्रबीज वाली। १०७. ऐंकारी - ऐंकार स्वरूपा। १०८.विश्वमोहिनी - विश्वको मोहनेवाली।
सम्पूर्णम्।
3४ आचार्य पद्मनंदीकृत श्री सरस्वती स्तोत्रम्
(वंशस्थ वृत्तम्)
जयत्यशेषामरमौलिलालितं सरस्वति ! त्वत्पदपंकजद्वयम् । हृदि स्थितं यजनजाड्यनाशनं रतो विमुक्तं श्रयतीत्यपूर्वताम्॥१॥ अपेक्षते यन्न दिनं न यामिनी न चांतरं नैव बहिश्च भारति!। न तापकृज्जाड्यकरं न तन्महः स्तुवे भवत्याः सकलप्रकाशकम्॥२॥ तव स्तवे यत्कविरस्मि साम्प्रतं भवत्प्रसादादिव लब्धपाठव। सवित्रि गंगासरितेऽर्घदायको भवामि तजलपूरिताञ्जलि ॥३॥ श्रुतादि केवल्यपि तावकी श्रियं स्तुवन्नशक्तोऽहमिति प्रपद्यते। जयेति वर्णद्वयमेवमादृशा वदन्ति यद्देवि! तदेव साहसम् ॥४॥ त्वमत्र लोकत्रयसद्मनि स्थिता प्रदीपिका बोधमयी सरस्वति। तदंतर स्थाऽखिलवस्तु संचयं जना: प्रपश्यन्ति स दृष्टयोप्यतः।।५॥ नभ: समं वर्त्म तवातिनिर्मलं पृथु प्रयातं विबुधैर्न कैरिह। तथापि देवि! प्रतिभासतेतरां यदेतदक्षुण्णमिव क्षणेन तत् ॥६॥ तदस्तु तावत्कवितादिकं नृणां तव प्रभावात्कृतलोकविस्मयम् । भवेत्तदप्याशु पदं यदिष्यते तपोभि रुप्रैर्मुनिभि महात्मभिः ॥७॥ भवत्कला यत्र न वाणि मानुषे न वेत्ति शास्त्रं स चिरं पठन्नपि । मनागपि प्रीतियुतेन चक्षुषा यमीक्षसे कैर्न गुणैः स भूष्यते ॥८॥ स सर्ववित्पश्यति वेत्ति चाखिलं नवा भवत्या रहितोऽपि बुध्यते। तदत्र तस्यापि जगत्त्रयेप्रभोस्त्वमेव देवि ! प्रतिपत्ति कारणम्।।९।।
चिरादतिक्लेशशतैर्भवाम्बुधौ परिभ्रमन् भूरि नरत्वमश्नुते। तनूभृदेतत्पुरुषार्थसाधनं त्वया विना देवि ! पुनः प्रणश्यति ।।१०।। कदाचिदेवं त्वदनुग्रहं विना श्रुते ह्यधीतेऽपि न तत्वनिश्चयः । ततः कुतः पुंसि भवेद्विवेकता त्वयि विमुक्तस्य तु जन्मनिष्फलम्॥११।। विधाय मात: ! प्रथमं त्वदाश्रयं श्रयन्ति तन्मोक्षपदमहर्षयः । प्रदीपमाश्रित्य गृहे समस्तते यदीप्सितं वस्तु लभेत मानवः ।।१२।। त्वयि प्रभूतानि पदानि देहिनां पदं तदेकं तदपि प्रयच्छति। समस्तशुक्लापि सुवर्णविग्रहा त्वमत्र मात: ! कुतचित्रचेष्टिता ।।१३।। समुद्रघोषाकृतिरर्हति प्रभौ यदा त्वमुत्कर्षमुपागता भृशम् । अशेषभाषात्मतया त्वया तदा कृतं न केषां हृदि मातरद्भुतम् ।।१४।। स चक्षुरप्येष जनस्त्वया विना यदंध एवेति विभाव्यते बुधैः । तदस्य लोकत्रितयस्य लोचनं सरस्वति ! त्वं परमार्थदर्शने ॥१५।। गिरा नरप्राणितमेति सारतां कवित्व वक्तृत्वगुणे च सा च गीः । इदं द्वयं दुर्लभमेव ते पुनः प्रसादलेशादपि जायते नृणाम् ॥१६॥ नृणां भवत्सन्निधिसंस्कृतं श्रवो विहाय नान्यद्धितमक्षयं च तत्। भवेद्विवेकार्थमिदं परं पुनर्विमूढतार्थं विषयं स्वमर्पयत ॥१७॥ कृत्वापि ताल्वोष्टपुटादिभिर्नृणां त्वमादिपर्यंतविवर्जितस्थिति :। इति त्वयापीदृशधर्मयुक्तपा स सर्वथैकान्तविधिर्विचूर्णितः।।१८।। अपि प्रयाता वशमेकजन्मनि धंधेनुचिंतामणि कल्पपादपाः । फलन्ति हि त्वं पुनरत्र चापरे भवे कथं तैरुपमीयसे बुधैः ॥१९।। अगोचरो वासरकृन्निशाकृतो जनस्य यच्चेतसि वर्तते तमः । विभिद्यते वागधिदेवते त्वया त्वमुत्तमज्योतिरिति प्रगीयसे ॥२०॥ जिनेश्वर स्वच्छसर: सरोजिनी त्वमंगपूर्वदिसरोजराजिता। गणेशहंसवजसेविता सदा करोषि केषां न मुदं परामिह ॥२१॥ परात्मतत्त्व प्रतिपत्तिपूर्वकं परं पदं यत्र सति प्रसिद्धयति। कियत्ततस्ते स्फुरत: पावतो नृपत्वसौभाग्य वरांगनादिकम् ।।२२।। त्वदंघ्रि पद्मद्वयभक्ति भाविते तृतीयमुन्मूलति बोधलोचनम् । गिरामधीशे सह केवलेन यत्समाश्रितं स्पर्धमिवेक्षतेऽखिलम् ॥२३।। त्वमेव तीर्थं शुचिबोधवारिमत्समस्तलोकत्रयशुद्धिकारणम् । त्वमेव चानंदसमुद्रवर्धने मृगांकमूर्तिः परमार्थदर्शिनाम् ॥२४।। त्वयादिबोधः खलु संस्कृतो व्रजेत् परेषु बोधेष्वखिलेषु हेतुतां । त्वमक्षि पुंसामिति दूरदर्शने त्वमेव संसारतरो: कुठारिका ॥२५।। यथाविधानं त्वमनुस्मृता सती गुरूपदेशोयमवर्ण भेदतः । नता: श्रियस्तेन गुणा न तत्पदं प्रयच्छसि प्राणभृते न यच्छुभे ।।२६।। अनेकजन्मार्जितपापपर्वतो विवेकवज्रेण स येन भिद्यते। भवद्वपुः शास्त्रघनानिरेति तत्सदर्थवाक्यामृतभारमेदुरात् ॥२७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org