________________
શ્રી ચતુર્થસ્તુતિનિર્ણય ભાગ-૧
૧૯૧ तरस्यानाभोगहेतु- त्वादिति गाथार्थः ॥ न चेदं देवतोद्देशेन तपः सर्वथा निष्फलमैहिक फलमेव वाचरणहेतुत्वादपीति चरणहेतुत्वमस्य दर्शयन्नाह ॥
___ एवं पडिवतिए ए, त्तो मग्गाणुसारिभावाउ ।
चरणं विहियं बहवे पत्ता जीवा महाभागा ॥२७॥ व्याख्या :- एवमित्युक्तानां साधर्मिकदेवतानां कुशलानुष्ठानेषु निरुपसर्गत्वादिहेतुना प्रतिपत्त्या तयोरुपोपचारेण, तथा इन उक्तरुपात्कषायादिनिरोधप्रधानात्तपसः पाठांतरेण एवमुक्तकरणेन मार्गानुसारिभावात् सिद्धिपथानुकूलाध्यवसायाच्चरणं चारित्रं विहितमाप्तोपदिष्टं बहवः प्रभूताः प्राप्ता अधिगता जीवाः सत्त्वा महाभागा महानुभावा इति गाथार्थः ॥ तथा ।
सव्वंगसुंदर तह णिरुजसिहोपरमभूसणो चेव । आयइजणणसोह, ग्गकप्परुक्खो तेह णावि ॥२८॥ पढिउ तवो विसेसो अण्णहि वि तेहिं तेहिं सत्थेहिं।
मग्गपडिववत्तिहेउं हं दिविणेयाणुगुणेणं ॥२९॥ व्याख्या ॥ सर्वांगानि सुंदराणि यतस्तपोविशेषात्स सर्वांगसुंदरं तथेति समुच्चये ॥ रुजानां रोगाणां अभावो नीरुजं तदेव शिखेव शिखा प्रधानं फलं तया यत्रासौ निरुजशिखा तथा परमाण्युत्तमानि भूषणान्याभरणानि यतोऽसौ परमभूषणं चैवेति समुच्चये । तथा आयतिमागामिकालेऽभीष्टफलं जनयति करोति योऽसावायतिजिनकस्तथा सौभाग्यस्य सुभगतायाः संपादने कल्पलक्ष इव यः स सौभाग्यकल्पवृक्षस्तथेति समुच्चये अन्योऽप्यपरोपि उक्ततपोविशेषात्किमित्याह ॥ पठितोऽधी तस्तपोविशेषस्तपोभेदोऽन्यैरपि ग्रंथकारैस्तेषु तेषु शास्त्रेषु नानाग्रंथेष्वित्यर्थः ॥ नन्वयं पठितोऽपि साभिष्वंगत्वान्न मुक्तिमार्ग इत्याशंक्याह ॥ मार्गपतिपत्तिहेतुः शिवपथाश्रयणकारणं यश्च तत्प्रतिहेतुः स मार्ग एवोपचारात्कथमिदमिति चेदुच्यते ॥ हंदीत्युप्रदर्शने विनेयानुगुण्येन शिक्षणीयसत्त्वानुरुप्येण भवंति हि के चित्ते विने या ये साभिष्वंगानुष्ठानप्रवृत्ताः संतो निरभिष्वंगमनुष्ठानं लभंत इति गाथाद्वयार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org