________________
૧૮૯
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧ बुद्धिलोकानां हितं खलु पथ्यमेव विषयाभ्यासरुपत्वात् रोहिपुल्लिंगता च सर्वत्र प्राकृतत्वादिति गाथार्थः । देवता एव दर्शयन्नाह ॥ रोहिणिअंबा तह मद, उणिया सव्वसंपया सोक्खा। सुयसंति सुराकाली सिद्धाइया तहा चेव ॥२४॥
___व्याख्या :- रोहिणी १, अंबा २ तथा मदपुण्यिका ३ सव्वसंपया सोक्खत्ति ४ सर्वसंपत् ५ सर्वसौख्या चेत्यर्थः ॥ सुयसंतिसुरत्ति ६, श्रुतदेवता ७, शांतिदेवता चेत्यर्थः ॥ सुयदेवय संतिसुरा इति च पाठान्तरं व्यक्तं ८, च काली ९, सिद्धायिका इत्येता नव देवतास्तथा चैवेति समुच्चयार्थे संवाइया चैवंत्ति पाठान्तरमिति गाथार्थः ॥ ततः किमित्याह । एमाइ देवयाउ, पडुच्च अवउस्सग्गाउ जीवती ॥णाणादेसए सिद्धा, ते सव्वे चेव होइ तवो ॥२५॥ व्याख्या ।। एवमादिदेवताः प्रतीत्यैतदाराधनायेत्यर्थः ॥ अवउस्सग्गति अपवसनानि अवजोषणानि वा । तुः पूरणे । ये चित्रा नानादेशप्रसिद्धास्ते सर्वे चैव भवंति तप इति स्फुटमिति तत्र रोहिणीतपो रोहिणीनक्षत्रदिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत्तत्र च वासुपूज्यजिनप्रतिमाप्रतिष्ठा पूजा च विधेयेति । तथांबा तपः पंचसु पंचमीष्वेकाशनादि विधेयं नेमिनाथांबिका पूजा चेति ॥ तथा श्रुतदेवतातप एकादशस्वेकादशीषूपवासो मौनव्रतं श्रुतदेवतापूजा चेति ॥ शेषाणि तु रुढितोऽवसेयानीति गाथार्थः ।
अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादित्याशंक्याह॥ जत्थ कसायनिरोहो, बंभंजिणपूयणं अणसणं च।
सो सव्वो चेव तवो, विसेसउ सुद्धलोयंमि ॥२६॥ व्याख्या ॥ यत्र तपसि कषायनिरोधो ब्रह्म जिनपूजनमिति व्यक्तं अनशनं च भोजनत्यागः सोत्ति तत्सर्वं भवति तपोविशेषतो मुग्धलोके । मुग्धलोको हि तथा प्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मक्षयोद्देशेनापि प्रवर्तते न पुनशदित एव तदर्थं प्रवर्तितुं शकनोति मुग्घत्वादेवेति । सद्बुद्धयस्तु मोक्षार्थमेव विहितमिति बुद्धयैव वा तपस्यंति ॥ यदाह । मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुष इति । मोक्षार्थघटना चागमविधिनैवालंबनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org