________________
१८८
चतुर्थस्तुतिनिर्णय भाग-१ बुद्धयैव वा तपस्यंति ॥ यदाह ॥ मोक्षायैवतु घटते विशिष्टमतिरुत्तमः पुरुष इति । मोक्षार्थघटना चागमविधिनैवालंबनांतरस्यानाभोगहेतुत्वादिति गाथार्थः ॥ न चेदं देवतोद्देशेन तपः सर्वथा निष्फलमैहिकफलमेव वाचरणहेतुत्वादपीति चरणहेतुत्वमस्य दर्शयन्नाह ॥ एवं पडिवत्तिए ए, तो मग्गाणु सारिभावाओ ॥ चरणं विहियं बहवे, पत्ता जीवामहाभागा ॥२७॥ व्याख्या ॥ एवमित्युक्तानां साधर्मिकदेवतानां कुशलानुष्ठानेषु निरुपसर्गत्वादि हेतुना प्रतिपत्त्या तपोरुपोपचारेण, तथा इत उक्त रुपात्कषायादिनिरोधप्रधानात्तपसः पाठांतरेण एवमुक्तकरणेन मार्गानुसारिभावात् सिद्धिपथानुकूलाध्यवसायाच्चरणं चारित्रं विहितमाप्तोपदिष्टं बहवः प्रभूताः प्राप्ता अधिगता जीवाः सत्त्वा महाभागा महानुभावा इति गाथार्थः ॥ तथा । सव्वंगसुंदरं तह, णिरुजसिहोपरमभूसणो चेव ॥ आयइजणणसोह,ग्गकप्परुक्खो तह ण्णावि ॥२८॥ पढिउ तवो विसेसो, अण्णेहि वि तेहिं तेहिं सत्थेहिं ॥ मग्गपडिववत्तिहेऊ, हं दिविणेयाणुगुणेणं ॥२९॥ व्याख्या ॥ सर्वांगानि सुंदराणि यतस्तपोविशेषात्स सर्वांगसुंदर स्तथेति समुच्चये ॥ रुजानां रोगाणां अभावो नीरुजंतदेव शिखेव शिखा प्रधानं फलं तया यत्रासौ निरुजशिखा तथा परमाण्युत्तमानि भूषणान्याभरणानियतोऽसौ परमभूषणं चैवेति समुच्चये । तथा आयतिमागामिकालेऽभीष्टफलं जनयति करोति योऽसावायतिजनकस्तथा सौभाग्यस्य सुभगतायाः संपादने कल्पवृक्ष इव यः स सौभाग्यकल्पवृक्षस्तथेति समुच्चये अन्योऽप्यपरोपि उक्ततपोविशेषात्किमित्याह ॥ पठितोऽधीतस्तपोविशेषस्तपोभेदोऽन्यैरपि ग्रंथकारैस्तेषु तेषु शास्त्रेषु नानाग्रंथेष्वित्यर्थः ॥ नन्वयं पठितोपि साभिष्वंगत्वान्न मुक्तिमार्ग इत्याशंक्याह ॥ मार्गप्रतिपत्ति हेतुः शिवपथाश्रयणकारणं यश्च तत्प्रतिहेतुः स मार्ग एवोपचारात्कथमिदमिति चेदुच्यते ॥ हंदीत्युपप्रदर्शने विनेयानुगुण्येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org