________________
चतुर्थस्तुतिनिर्णय भाग - १
प्रकटयन्नाह ॥ नव अहिगारा इह ललिय वित्थरा वित्तिमाइ अणुसारा ॥ तिन्निसुय परंपरया वीउदसमो इगारसमो ॥ ३५ ॥ इह द्वादशस्वधिकारेषु मध्ये नव अधिकाराः प्रथमतृतीयचतुर्थपंचमषष्ठसप्तमाष्टनवमद्वादशस्वरुपा या ललितविस्तराख्या चैत्यवंदना मूलवृत्तिस्तस्या अनुसारेण तत्र व्याख्यातास्तत्र प्रामाण्येन भण्यंते इति शेषः । तथाच तत्रोक्तं एतास्तिस्रः स्तुतयो नियमेनोच्यते केचित्त्वन्या अपि पठंति नच तत्र नियम इति न तद्व्याख्यानक्रिया एवमेतत् पठित्वा उपचित पुण्यसंभारा उचितेषूपयोगफलमे तदिति ज्ञापनार्थं पठंति वेयावच्चगराणमित्यादि । अत्र च एता इति सिद्धाणं बु० १ जो देवावि २ इक्वीति ॥ ३ ॥ अन्या अपीति उज्जितसेल १ चत्तारिअट्ठ २ तथा जेय अईयेत्यादि ३ अत एवात्र बहुवचनं संभाव्यते ॥ अन्यथा द्विवचनं दद्यात् पठतीति, सेसाजहिच्छाए इत्यावश्यकचूर्णिवचनादित्यर्थः नच तत्र नियम इति न तद्वयाख्यानं क्रियते इति तु भणंतः श्रीहरिभद्रसूरिपादा एवं ज्ञापयंति यदत्र यदृच्छया भण्यते तन्न व्याख्यायते यत्पुनर्नियमतो भणनीयं तद्व्याख्यायते तद्वयाख्याने व्याख्यातं च वेयावच्चगराणमित्यादि सूत्रं ॥ तथा चोक्तं ॥ एवमेतत्पठित्वेत्यादि यावत् पठति ॥ वेयावच्चगराणमित्यादि ॥ ततश्च स्थितमेतत्यदुत वेयावच्चगराणमित्यप्यधिकारोवश्यं भणनीय एव अन्यथा व्याख्यानासंभवात् ॥ यदि पुनरेषोपि वैयावृत्यकराधिकार उज्जयंताद्यधिकारवत् कैश्चित् भणनीयतया यादृच्छिकः स्यात् तदा उज्जितसेलेत्यादि गाथावदयमपि न व्याख्यायेत व्याख्यातश्च नियमभणनीय सिद्धादिगाथाभिः सहायमनुविद्धसंबंधेनेत्यतोऽत्रुटितसंबंधायातत्वात्सिद्धाधिकारवदनुस्यूत एव भणनीयः अथाप्रमाणं तत्र व्याख्यातं सूत्रमिति चेत् एवं तर्हि हंत सकलचैत्यवंदना क्रमाभावप्रसंगः सूत्रे चास्या एवं क्रमस्यादर्शितत्वात् तदन्यत्र तथा
१०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org