________________
२२
१५६. 'मानोन्मान' तत्र मानं-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते, तत्प्रवेशे
च यज्जलं ततो निःसरति तद् यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते । उन्मानं तु अर्द्धभारमानता, मातव्यपुरूषो हि तुलारोपितो यद्यर्द्धभारमानो भवति तदा उन्मानोपेतोऽसावुच्यते। प्रमाणं पुनः स्वाङगुलेनाष्टोत्तरशताङगुलोच्छ्यता।
-कल्पसूत्र, पृथ्वीचन्द टिप्पण सू. ५३. १५७. सतं वाराओ पक्कं जं तं सतपाग, सतेणं (वा) काहावणाणं ।
-कल्पसूत्र चूर्णि सू. ६१ १५८. 'पम्हलसुकुमाला ए' पक्ष्मवत्या सुकुमालया चेत्यर्थः 'गंधकासाइय' गंधप्रधानया कषायरक्तशाटिकयेत्यर्थः
-कल्पसूत्र टिप्पण सू.६२ कल्पसूत्र पृथ्वीचन्द टिप्पण सू. ६२ 'कयकोउय' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वप्नादिविनाशार्थमवश्यकरणीयत्वाद् यस्ते तथा। पादेन वा छुप्ताः-चक्षुर्दोषपरिहारार्थ पादच्छुप्ताः कृतकौतुकमङ्गलाश्च ते पादच्छुप्ताश्चेति विग्रहः । तत्र कौतुकानि मषीतिलकादीनि, मङ्गलानि तु सिद्धार्थकदध्यक्षतदूर्वाह्न - कुरादीनि ।
-कल्पसूत्र, पृथ्वी. टि. सू. ६६ अनुभूतः श्रुतो दृष्टः, प्रकृतेश्च विकारजः ।। स्वभावत समुद्भूतश्चिन्तासन्ततिसम्भवः ॥ देवताद्युपदेशोत्थो, धर्म-कर्म-प्रभावजः ।। पापोद्रेकसमुत्थश्च, स्वप्नः स्यान्नवधा नृणाम् ।। प्रकारैरादिमैः षड्भिरशुभश्च शुभोऽपि वा ।।
दृष्टो निरर्थकः स्वप्नः, सत्यस्तु त्रिभिरुत्तरैः ।। --कल्पसूत्र सुबोधिका टीका में उद्धृत १६२. रात्रेश्चतुर्पु, यामेषु दृष्ट: स्वप्नः फलप्रदः ।।
मासादशभिः षड्भिस्त्रिभिरेकेन च क्रमात् ॥ निशाऽन्त्यघटिकायुग्मे, दशाहत्फलति धुवम् । दृष्टः सूर्योदये स्वप्नः, सद्यः फलति निश्चितम् ।। -कल्पसून सुबोधिका टीका में उद्धृत मालास्वप्नोऽह्मि दृष्टश्च, तथाऽऽधिव्याधिसम्भवः । मल-मूत्रादिपीडोत्थः स्वप्नः सर्वः निरर्थकः ।। धर्मरतः समधातुर्यः स्थिरचित्तो जितेन्द्रियः सदयः । प्रायस्तस्य प्रार्थितमर्थं स्वप्नः प्रसाधयति ॥ स्वप्नमनिष्टं दृष्ट्वा सुप्यात्पुनरपि निशामवाप्यापि । नायं कथ्यः कथमपि केषांचित् फलति न स यस्मात् ॥ न श्राव्यः कुस्वप्नो गुर्वादेस्तदितरः पुनः श्राव्यः । योग्यश्राव्याभावे गोरपि कर्णे प्रविश्य वदेत ॥ इष्टं दृट्वा स्वप्नं न सुप्यते नाप्यते फलं तस्य । नया निशाऽपि सुधिया जिनराजस्तवनसंस्तवतः ।। पूर्वमनिष्टं दृष्ट्वा स्वप्नं यः प्रक्षत शुभं पश्चात् । स तु फलदस्तस्य भवेद् द्रष्टव्यं तद्वदिष्टेऽपि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org