________________
मुनिराजकृतायाः]
भूमिका
४३
in den meisten Fällen der verschiedenen Möglichkeiten bewusst und freute sich seiner Vieldeutigkeit.
तात्पर्य तु यथा
एताः शोभनस्तुतीविहाय ग्रन्थकारस्यास्य न जाने कामप्यन्या कृतिम् , किन्तु एताः स्तुतयोऽस्य कवे रचनानिपुणविरुदस्य सदाकालप्राप्त्यर्थं समर्थाः ।........
काव्यवस्तुनि कवित्वं विशेषतो नास्ति, तस्मात् कविना शब्दरचनैव सर्वथा लक्ष्यीकृता । .....अस्मिन् काव्ये सर्वत्रैवानुमासरणत्कारः श्रूयते, परन्तु अस्य कौशलमधिकतो दृश्यते पादयमकेषु यत्र द्वितीयतुरीयपादयोः समस्तान्यक्षराणि समानान्येव । एकस्मिन् स्थाने ५३-५६ श्लोकाङ्कषु प्रथमचतुर्थयोः पादयोः यमकमवलोकयते, अन्यत्र ४९-५२ श्लोकाड्रेषु तु प्रथमतृतीययोः द्वितीयतुरीययोश्चेक्ष्यते । अन्यत्र १३-१६( १७–२० )श्लोकाङ्कानि ८९-९२तमानि च पद्यानि पादयमकमयान्येव सन्ति । विशेषतो बृहत्तरपद्येषु आश्चर्यकराण्येतानि समस्तानि हस्तलाघवानि कविना अनेकत्र प्रयुक्तेऽप्येकस्मिन् शब्दे समानयुक्तिमनुपयुज्यैव प्रायशः प्रयुक्तानि । न चैवं सत्यपि भाषात्मकस्य साधनस्य सीमाऽतिक्रान्ता कविना ।
प्रभूता अप्रनलिताः शब्दाः खलु कोशस्य दूरस्थकोणादुद्धृत्य प्राकाश्यं नीताः, एकाक्षारास्तु कहिचिदेवाश्रिताः। व्याकरणमुद्दिश्य न कोऽपि नियमभङ्गोऽवलोक्यते यद्यप्यप्रचलितरूपाणां बाहुल्यं समस्ति । वाक्यरचना तु अतीव कृत्रिमा । कष्टकारीदं यदुतैकस्मिन्नेव वाक्ये आवाहितायाः देवतायाः प्रथमान्तानि सम्बोधनान्तानि च विशेषणानि उपयुज्यन्ते । कष्टकारितरं तु एतत् यद् मुख्यगौणवाक्ययोर्मर्यादा क्वचित् सर्वथाऽदृष्टा येन मुख्यवाक्यस्य शब्दा गौणवाक्ये तिष्ठन्ति, गौणवाक्यस्य च मुख्यवाक्ये । अन्ततस्तु वाक्यरचनानियमा बहुशोऽनाहता एव । तथापीमाः स्तुतयो रचनाकौशल्यदृष्टया प्रशंसनीया एव । दर्शयन्ति चैताः सम्यक्तया,बहुशः कवित्वहीनानां जैनानां कवीनां प्रतिभया गृहीतां दिशं तया उत्कृष्टतः सम्पद्यमानानि च कार्याणि ।
कवेस्तु समसमयिवाचकानां मतिभ्रमोत्पादनमेवोद्देश आसीत्....एतादृशकाव्यैः परिचितेभ्यश्च नैतत् प्रतिपादयितुमावश्यकं यदीडशस्थले एकैव केवला अथेनिष्पत्तिः न कविना इष्यते अपि तु बहुशः, अनेके सम्भवन्तोऽर्थभेदाः कवेरभिमताः। भिन्नार्थवत्त्वेनैव च तस्य प्रमोदः ।
श्रीशोभनस्तुतिमुद्दिश्य उक्तं च डॉ० विन्तर्नित्स्महाशयः Geschichte der Indischen Hitteratur!(Zweiter Band) नाम्नि ग्रन्थे
fully aware of the different possibilities and he enjoyed his own ambiguity.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org