SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिकायाः [श्रीशोभन "विकमकालस्स गए अउणत्तीसुत्तरे सहस्सम्मि (१०२९ )। मालवनरिंदधाडीए लूडिए मनखेडम्मि॥" श्रीशोमनमुनीश्वराणां शिष्यादिविचार: श्रीशोमनमुनीश्वराणां के शिष्याः सन्तानीया वा आसन् इति उल्लेखकरणमशक्यं साधनाभावात् । श्रीशोभनमुनीश्वराणां कृतिः तत्पशंसा च वाचनाचार्यैः श्रीशोभनमुनिवरैः स्तुतिचतुर्विंशतिका व्यरचि इति सुस्पष्टम् । परन्तु अन्यः कोऽपि ग्रन्थस्तैर्गुम्फित इति न दृश्यते श्रूयते वा । तथाप्येकयाऽपि कृत्या महाकविपदमईन्ति श्रीमन्तः । यतः " स्तुतिस्वरूपा विविधार्यचित्राऽलङ्कारसारा सरसाप्रमेया" इति श्रीसौभाग्यसागरसूरयः (पृ. ५)। "बीओ सोहण नामा, जस्स कवित्तं विचित्तयं मुणिउं । केहि न विम्हियहियएहिं पंडिएहिं सिरं धुणियं ॥९॥" बहुपरियणपरियरिया अखंडपंडिच्चदप्पदुपिच्छा । सिरिभोयरायरायंगणस्स मुहमंडणं जाया ॥१०॥" इति श्रीसङ्गतिलकसूरयः सम्यक्त्त्वसप्ततिटीकायां ७५ तमे पत्राङ्के । " इतश्च शोभनो विद्वान् , सर्वग्रन्थमहोदधिः। यमकान्विततीर्थेश-स्तुतिं चक्रेऽतिभक्तितः ॥ तदेकध्यानतः श्राद्ध-गृहे त्रिर्मिक्षया ययौ । पृष्टः श्राविकया किन्तु, विरागे हेतुरत्र कः॥ स प्राह चित्तव्याक्षेपा-न जाने स्वगतागते । श्राविक:( काऽऽ)स्यात् परिज्ञाते, गुरुभिः पृष्ट एष तत् ॥ १छाया विक्रमकालस्य गते एकोनत्रिंशदुत्तरे सहस्रे । मालवनरेन्द्रघाट्या लुण्टिते मन्नखेडे ॥ २ छाया द्वितीयः शोभननामा यस्य कवित्वं विचित्रकं श्रुत्वा कैर्न विस्मितहृदयैः पण्डितैः शिरो धूतम् ? ॥ बहुपरिजनपरिचरितौ अखण्डपाण्डित्यदर्पदुष्प्रेक्ष्यौ । श्रीभोजराजराजाङ्गणस्य मुखमण्डनं जातौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy