________________
श्रीवीरस्तुतिः।
विश्वं प्रतिफलतीति हार्दम् । “ कक्ष्मीः पद्मा रमा या मा, ता सा श्रीः कमलेन्दिरा" इत्यभिधानचिन्तामणि( का० २, श्लो० १४० )वचनात् ता-लक्ष्मीः सुरनिर्मितस्वर्णरूप्यरत्नमण्डितप्राकारत्रयविभूपितसमवसरणरूपा बाह्या, रत्नत्रयीमयाऽभ्यन्तरा च तया अनत-! अवक्र ! । लक्ष्मीभाजो हि प्रायोऽहङ्कारित्वात् कुटिला भवन्ति, अर्हन्तस्तु नैवमिति भावः । हे 'न तामस ! ' हे अविद्यागुणरहित ! | न विद्यन्ते रामा:-स्त्रियो यस्य सः अरामः, तत्सम्बोधनं हे अराम !, स्त्रीसङ्गरहित ! इत्यर्थः । नारीसङ्गतिर्हि पुंसां रागनिबन्धनमेव उक्तं, च
" रागोऽङ्गनासङ्गमतोऽनुमेयो, द्वेषो द्विषद्दारणहेतिगम्यः।
मोहः कुकृत्तागमदोषसाध्यो नो यस्य देवः स स चैवमर्हन् ॥" " स्त्रीसङ्गः काममाचष्टे, द्वेषं चायुधसङ्ग्रहः ।
व्यामोहं चाक्षसूत्रादि-रशौचं च कमण्डलुः ॥" पुनः आमः-रोगः हसः-हसनं ताभ्यां अचित !--अव्याप्त !। हे अर्हता-तीर्थकृता कलाप !समूह ! । त्वं तव-भवतः महसा-तेजसा, महसा-उत्सवेन च, तापात्-सन्तापात चितं-व्याप्तं "सन्तापे दवथौ तापः" (पद्वये श्लो० ५) इति विश्वलोचनकोषः, विश्वं-समग्रं विश्व-भुवनं भरपोषय, पुष्टिमापादय इत्यर्थः ॥ २॥ जिनवाणीवर्णनम्
भारत्याभा रत्यापादित-दितपातकाऽऽतपायकृतः।
जिनभर्तृर्जिनभर्तुर्मानोमाऽनोकसोऽसोनत्वः ( वशाऽऽनद् वः ?) ॥३॥ रतिः-रागः आपादिता-प्राप्ता येन सः, दित-खण्डितं पातकं-पापं येन सः, आतपस्य-ज्ञानोद्योतस्य आयं-लाभं करोतीति आतपायकृत, एतेषां द्वन्द्वे 'रत्यापादितदितपातकाऽऽतपायकृत् ' तस्य । जिनाः-सामान्यकेवरिनः तेषां भर्त्ता--स्वामी तस्य, जिनभर्तुः-तीर्थकृतः । किंविशिष्टस्य जिनभर्तुः ? न विद्यते ओक:- गृहं यस्य सः अनोकाः तस्य ' अनोकसः'। 'भारती' वाणी, वः-युष्मान् आनत-अजीवयत् इति सम्बन्धः । किंविशिष्टा भारती ? मानानि--प्रत्यक्षादिप्रमाणानि तेषा “उमातसीहेमवतीहरिद्राकीर्तिकान्तिषु ” इति मेदिनीवचनात् उपा-कान्तिर्यस्याम, तैः उमा--कीर्तिर्यस्या वा सा ' मानोमा ' । पुनः किं० १ आ. समन्तात् भा-दीप्तिर्यस्याः सा 'आभा'। पुनः किंवि० ? ' अवशा' अवन्ध्या, सकलजनमनोऽभीष्टार्थसार्थदायकत्वात् । “वशा योषा सुता वन्ध्या, स्त्रीगीकरिणीष्वपि " (शद्वये श्लो०१५) इति विश्वलोचनकोपः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org