________________
(३२) तेषामुग्रतपस्यया भवतु येऽत्वद्वाक्सुधास्वा स्तेषामुग्रतपस्यया भवतु येऽत्वद्वाक्सुधास्वादिनः । तैलेभे शिवमन्दिरं सुकुतुकं यैः शिश्रिये त्वत्पथस्तैर्लेभेऽशिवमन्दिरं सकुतुकं यैः शिश्रियेऽत्वत्पथः ॥ ३५ ॥ ते धावन्ति मरीचिकां प्रति तृषाशान्त्यै सरस्त्यागतस्ते गृहणन्ति पयःकृते च गवरी माहापरित्यागतः । ते तैलं च पिवन्ति धीनयनयोः पुष्टय घृतत्यागतो ये देवान्तरमाश्रयन्ति भगवन् ! मुक्त्यै भवत्यागतः ॥ ३६ ॥ निर्दोषानुभवानुरूपविषयव्याकारिणः स्वामिनो न्याय्यं खल्ववलम्बनं न तु परेशामन्यथाभावतः । वक्त्रं वीक्ष्य विशेषकस्य करणं नीतौ नहि श्रूयते तिष्ठत्येव सदा सतां हृदि पुनः सत्पक्षपातोऽर्हति ॥ ३७ ॥ अहंद्गृह्याः समुचितकृतः सन्ति किं न्यायतो नाऽनहगृया अनुचितकृतः सन्ति किं न्यायतो न । श्रद्धामात्रात् ल समुपगमश्चाप्तितस्त्वहंदीशो नेामात्रादसमुपगमः फिन्त्वनाप्तेः परेषाम् ॥ ३८ ॥ सौभाग्येन महीयता मुनिएते ! त्वच्छासनं प्राप्यते तत् संप्राप्तवति प्रलो! मयि जने दीने दयामातनु । धूलीकल्प विकल्पजालमलिनीभावापहारेण यत् नीतेनाऽऽत्मगृहे त्या सह सदा कुर्सीय गोष्ठीसुखम् ।। ३९ ।। भ्रामं भ्राममनादिकालत इह प्राएं महान्तं श्रमं तदरीकरणाय देवसहर प्रास न मोक्ष्याम्यथ । सानन्दोऽपि छ तन्न देवचरणक्षीरं महानन्ददं पातुं न प्रभवामि दुर्भगतया हा हन्त ! बद्धोऽस्म्यहम् ॥ ४०॥ अगम्योऽध्यात्यर्वचनचणवाचालविषयः परोक्षोऽप्यक्षाणां त्रिभुवनविचित्रात्मविभवः । नगत्सृष्टि-ध्वस्ति-स्थितिकरणजम्बालविमुखः सदाबहानन्दो मम नुतिमपीतोऽसि भगवान् ॥ ४१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org