________________
(३१) ज्ञान-क्रियाद्वन्द्वमेव उपयोगि। ये तु ज्ञानत एव मुक्तिमवदन् सत्येतरत्तेऽवदन न ज्ञानात् सुखितो भवेन्नर इह स्त्रीभक्ष्यभोगाभिवित् ये त्वाहुः क्रिययैव मुक्तिरमणीं तेऽप्याहुरुच्छृखलं मिथ्याज्ञानवतः कृतेऽपि यतनेऽसंवादसंदर्शनात् ॥ २९ ॥
तस्मात् ज्ञानमथ क्रिया द्वयमिहार्थप्रापणप्रत्यलं मोक्षप्राप्तिनिबन्धनं द्वयमिदं संकीर्तितं स्वामिना । न ज्ञानं न हि सर्वथे-हितवतो वस्त्रादिकप्रापणे निर्ज्ञानाऽपरथा क्रियाऽर्थजननी स्यान्मूच्छितादेरपि ॥ ३० ॥
भगवद्भक्ति गर्भितमुपसंहरति ।। इत्येवं जगदीश ! युक्तिविसरैः स्वच्छः प्रसिद्धि गते यञ्चेतो रमते न ते प्रवचने ते वज्रसाराशयाः । किन्त्वन्वेषयितुं प्रवीणमनसस्त्वां निर्गताऽसग्रहारन्तारो नियमेन शासनमहाप्रासादमाश्रित्य ते ॥ ३१ ॥
अस्माकं तु महेश ! शङ्कर ! विभो ! त्वद्वाक्सुधाधोरणीपानात्वन्मुखदर्शने समभवत् नेत्रं निमेषोज्झितम् । त्रैलोक्येश ! मनस्तथापि तरलं. नोऽद्यापि नो तृप्यते त्वत्सेवासुखमीहते प्रतिभवं मोक्षाभिकाङ्क्षां जहत् ॥ ३९ ॥
इष्टानिष्टवियोगयोगहरणीं त्वद्भक्तिमेवाश्रये विश्वव्यापियशःशशाङ्कजननीं त्वद्भक्तिमेवाश्रये चक्रेशामरसतां प्रददतीं त्वद्भक्तिमेवाश्रये मोक्षानन्दमहोदयं विदधतीं त्वद्भक्तिमेवाश्रये ॥ ३३ ॥ मानुष्यं विफलं प्रशस्तकुलभूभावोऽप्यकिञ्चित्करो वैशारद्यमबोधता गुरुपदारोहोपि पापास्पदम् । ज्ञान-ध्यान-तपो-जपादिविधयः क्लेशावहाः केवलं श्रद्दध्याचदि दुर्भगस्त्रिभुवनाधीश भवन्तं नहि ॥ ३४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org