________________
सौख्यं वीर्यमनन्तमप्युपगता वेद्यान्तरायक्षयेऽमूर्तानन्त विगाहना प्रलयतो नाम्नश्च गोत्रस्य च । आयुष्कस्य निशुभ्मतोऽक्षयगतिं सम्प्राप्तवन्तः पुनः सिद्धास्तत्र महेश्वरा इति भवेदेषा परा निर्वृतिः ॥ २३ ॥
युग्मम् । मुक्तिमुखम् । भूपानां बलिविद्विषां हलभतां चक्रेश्वरणां पुनदेवानामपि वज्रिणां भवति यः प्रोनिद्रशर्मोदयः । सिद्धानां परमेशिनां सकलभूशृङ्गं समाजग्मुषां शुद्धानन्दमहोदयस्य महतो नानन्तभागेऽप्यसौ ॥ २४ ॥ मुक्तिसुखसिद्धिः। मुक्तानां सुखशून्यतामुपयतो योगस्य किं वैदुषी ? तेनेत्थं वदता यतः शिवपुरद्वारं दृढं मुद्रितम् । सौख्यार्थेन हि मुक्तये सुमनसश्चेष्टन्त उच्चस्तरां. दुःखाभावसमीहितं तु भविता मूर्छाद्यवस्थास्वपि ॥ २५ ॥ सौख्ये रक्ततया मुनिनु कथं मोक्षं समासादयेत् ? दुःखे विष्टतया मुनिर्ननु कथं मोक्षं समासादयेत् ? । दुःखेऽद्विष्टतया मुनिन नु कथं मोक्षं समासादयेत् ? सौखेऽरक्ततया मुनिन नु कथं मोक्षं समासादयेत् ? ॥ २६ ॥ पत्तूक्तं न सुखासुखे ' इति तदप्यस्त्येव नो बाधकं सौख्यासौख्ययुगं न तत्र भवतीत्येतत्परा हि श्रुतिः । एवं चैकसुख श्रियोऽभ्युपगमेऽप्येतद्विरोधः कुतः ? सत्येकत्र घटेऽपि “नो घटपटौ स्तोऽत्रे" तिसंप्रत्ययात् ॥२७||
आहाऽऽत्यन्तिकबुद्धिगम्यकरणातीतं सुखं यत्र वै जानीयादकृतात्मदुर्लभतरं तं मोक्षमेवं स्मृतिः । को बाधः सुखसङ्गरे शिवपदे सांसारिकं यत् सुखं सम्मोहमभवं स्वरूपरमणानन्दस्तु मोक्षः पुनः ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org