SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ( ३३ ) धन्योऽहं ननु जन्मवानहमहं पुण्यः कृतार्थोऽप्यहं भव्योऽहं पुरुषोऽप्यहं शिवपद श्रीभाजनं खल्वहम् । अersस्तोक शुभेजिनेन्द्र ! भवतो निर्वाधसिद्धान्तगी:सौन्दर्यानुभवप्रमोद विसरे जातोऽस्मि यलम्पटः || ४२ || किं लिप्सेऽथ कदापि कल्पलतिकां ? दूरेऽस्तु चिन्तामणिः कुर्वे कामघटेन किं ? सुरगवीं मन्ये तृणायापि न । दग्धा दुर्भगताऽद्य पुण्यकमलालीला समुन्मीलिता लोकोत्तरदेव ! मादृशदृशीरप्यागमो गोचरम् || ४३ || प्रलापं स्वच्छन्दं विदधतु परे नाथ ! भवतः पिधातुं त्वीशीरन् कथमिव यथार्थप्रवचनम् ! | गुणः खल्वेकोऽयं सुविहितधियां कम्पयति कं विवेक्तुं तत् के - हा ममक परितो मातुमिव खम् ! ॥ ४४ ॥ विराम - प्रार्थना | इति विरमणे देवार्य ! त्वां प्रणम्य कृताञ्जलि प्रविदध इमां संविज्ञप्तिं प्रसीद ! गृहाण ! ताम् । प्रतिभवमपि श्रीमत्पादाम्बुजातयुगस्य ते परिचरणतो लप्सीयाऽहं शमामृतसम्पदम् ।। ४५ ।। रागद्वेषपरिक्षयेऽपि भवतः सम्यक्तरां श्रदधे चिन्तारत्नवदीश ! भक्तिरमलाऽभीष्टार्थ संसाधिनी । सोऽयं न्यायसुमाञ्जलिस्तव पदे सम्यक्त्वगन्धोद्धरी निर्बाध विनिवेशितोऽमृतरसं भक्ताय दासीष्ट तत् ।। ४६ ।। इति वीरप्रभोः पूजां श्रीन्यायकुसुमाञ्जलिम् | धर्माचार्य पदोपासी श्रीन्यायविजयो व्यधात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004893
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherVadilal Dahyabhai Ahmedabad
Publication Year1922
Total Pages438
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy