________________
पश्चम-स्तबकः।
سے ممع۔
मोक्षमार्गविवेचना।
तत्वज्ञानम् । सम्यग्ज्ञान-सुसंयमौ निगदितो मोक्षस्य पन्थाः परो याथार्येन पदार्थसंपरिचयः सज्ज्ञानमावेदितम् । पुण्याऽघाऽस्रवसंवरा निजरणं बन्धश्च मोक्षः पुनर्जीवोऽजीव इति हुयेऽपि भवति व्यासेन भावा नव ॥१॥ ज्ञानात्मा खलु जीव एतदितरोऽजीवस्तु धर्मादिकः स्यात् सत्कर्म च पुण्यमेतदितरत् पापं भवेदाश्रवः । द्वारं कर्मण एतदावरणकृत् स्यात् संवरो, निर्जरा sवंसः कर्मण एव बन्धरचना बन्धोऽथ मोक्षः शिवम् ॥२॥
जीवविचारः। जीवास्तत्र मता द्विधा भवभृतो मुक्ताश्च त्रादिमा एक-द्वि-त्रि-चतुष्क-पञ्चकरणा आवेदिताः प्राणिनः । एकाक्षाः कुजलाऽग्निवाततरवस्त्वनात्रतः स्थावराः पर्याप्तेतरभेदकास्त्रसवपुर्भाजस्त्वनेकेन्द्रियाः ॥३॥ पर्याप्तिः। आहारः करणालयोऽक्षनिकरः प्राणाश्च भाषा मनः षट् पर्याप्तय एक-पश्च-विकलाक्षाणां चतस्रः क्रमात् । षट् पश्चाप्यथ सूक्ष्म-बादरतयै-काक्षा द्रुमास्तु क्रमातू प्रोक्ता बादर-सूक्ष्मबादरतया प्रत्येक-साधारणाः ॥ ४ ॥ इन्द्रियाणि । पश्चाक्षाणि पुनस्त्वगेव रसना घ्राणं च नेत्रं श्रुतिः स्युः स्पर्शो-रस-गन्ध-रूप-निरवा अर्था अमीषां क्रमात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org